________________
प्रक्षाल्य चरणावुपज्य चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव स तस्यां समीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु विदिताभिप्राया दृष्ट्यैव ‘भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कितमभिधीयताम्' इत्यवोचम् ।
एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत् - 'राजपुत्रि, किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया । क्व कन्दमूलाशी शान्तो वननिरतो मुनिजनः, क्व वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो मन्मथविविधविलाससंकटो रागप्रायः प्रपञ्चः । सर्वमेवानुपपनमालोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचितम्, किं तपसोऽनुरूपम्, आहोस्विद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना केवलम् । अवश्यकथनीयमिदम् । अपर -
***********
सादरं सबहुमानं स्वयमात्मनाऽऽसनं विष्टरमुपाहरमनयम् । तत्रोपविष्टस्यासीनस्य च बलाद्धठादनिच्छतोऽप्यवाञ्छतोऽपि चरणौ पादौ प्रक्षाल्य धावनं कृत्वोत्तरीयांशुकमुपसंव्यानांशुकं तस्य पल्लवेनांशुकेनोपमृज्य मार्जनं कृत्वा तस्यान्तिके तत्समीपेऽव्यवधानायां केवलायां भूमावेव समुपाविशमतिष्ठम् । अथेत्यानन्तर्ये । मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव वक्तुमिच्छुरिव स कपिजलस्तस्यां समीपोपविष्टायां तरलिकायां चक्षुर्नेत्रमपातयत्पातितवान् । अहं त्विति । तु पुनरर्थकः । दृष्ट्यैव दृशैव विदितो ज्ञातोऽभिप्राय आशयो यया सैवंभूताहमित्यवोचमित्यकथयम् । इतिवाच्यमाह - भगवनिति । हे भगवन्, हे स्वामिन्, अस्मच्छरीरादियं तरलिकाऽव्यतिरिक्ता अभिन्ना, अतोऽशङ्कितं शङ्कारहितं यथा स्यात्तथाभिधीयतां कथ्यताम् ।
एवं पूर्वोक्तप्रकारेण मयोक्तश्च कपिञ्जलः प्रत्यवादीप्रत्यवोचत् । किमुवाचेत्याह - राजपुत्रीति । हे राजपुत्रि, किं ब्रवीमि किं कथयामि । वागेव वचन्मेव त्रपया लज्जयाभिधेयं विषयं वाच्यगोचरं नावतरति नायाति । क्वेति । कन्दमूलाशी शान्तो वननिरतोऽरण्यासक्तो मुनिजनः क्व । अथ च रागप्रायो रागबहुलः प्रपञ्चो मायाविस्तारः क्व । प्रपञ्चं विशेषयन्नाह - अनुपशान्तेति । अनुपान्तो रोषाधुपयुक्तो यो जनो मनुष्यस्तस्योचितो योग्यः, विषयः सक्चन्दनादिस्तस्योपभोगः पुनःपुनस्तदासेवनं तस्याभिलाषः स्पृहा तेन कलुषो मलिनः, मन्मथस्य कंदर्पस्य ये विविधा अनेकप्रकारा विलासा विभ्रमास्तैः संकटः संकीर्णः । सर्वमेवं समग्रमेव अनुपपन्नमयुक्तमालोकय पश्य । देवेनादृष्टेन किमकथ्यस्वरूपमारब्धं प्रारब्धम् । खलु निश्चयेन । अयत्ननैव प्रयासं विनैवेश्वरो भगवाजनमुपहासास्पदतां परिहासधामता नयति प्रापयति । न जाने इति । नाहं जानामि इदं किं वल्कलानां सदृशं योग्यम् । उताहो अथवा जटानां सटानां समुचितं योग्यम् । किं तपसो नियमविशेषस्यानुरूपं सदृशम् । आहोस्विद्धितर्के । इदं धर्मोपदेशस्याङ्गं कारणम् । केवलमपूर्वाभिनवा विडम्बना कदर्थना । अवश्यं निश्चयेनेदं कथनीयं प्रतिपादनीयम् । एतस्मिन्नर्थे हेतुमाह - अपर इति । अपर एतद्व्यतिरिक्त उपायः कारणं न दृश्यते नेक्ष्यते। - - - - - - - - - - - - - - - - - - - टिप्प० - 1 रागः ऐहिकसुखलालसैव प्रायेण बाहुल्येन यस्मिन् सः । अयं प्रपञ्चः संसारः क्व । 2 'अशान्तजनोचितः' इत्यपि पाठः । अशान्तः शमेन इन्द्रियजयेन रहितो यो जनस्तस्य उचित इति तदर्थः । 3 दैवेन किम् अनुपपन्नं सर्वमारब्धमिति त्वामालोकय इति योजना ।
पाठा० - १ मत्समीप. २ कन्दमूलफलाशी. ३ शान्तोपवनरतः; शान्तो वनवासनिरतः.
कपिजलस्यागमनम्
( पूर्वभागः ।
323