________________
उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गतिर्नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि । 'अस्ति भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपेनाभिहितः । तथा चाभिधाय परित्यज्य तं तस्मात्प्रदेशादुपजातमन्युरुत्सृष्टकुसुमावचयोऽन्यप्रदेशमगमम् । अपयातायं च भवत्या मुहूर्तमिव स्थित्वैकाकी किमयमिदानीमाचरतीति संजातवितर्कः प्रतिनिवृत्त्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् । आसीच्च मे मनस्येवम् - 'किं नु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन्गतो भवेत् । गतायां च तस्यां लैब्धचेतनो लज्जमानो न शक्नोति मे दर्शनपथमुपगन्तुम् । आहोस्वित्कुपितः परित्यज्य मां गतः । उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन्कंचित्कालमतिष्ठम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूय -
***********
अन्या प्रतिक्रिया चिकित्सा नोपलभ्यते न प्राप्यते । अन्यदेतद्व्यतिरिक्तं शरणमाश्रयणस्थलं नालोक्यते न विलोक्यते । अन्यैतद्भिन्ना गतिः प्रकारान्तरं नास्तीत्यर्थः । उक्तवैपरीत्यदूषणमाह - अकथ्येति । तस्मिन्नप्रतिपाद्यमाने महाननर्थस्योपनिपातोऽकस्मात्पतनं जायते निष्पद्यते । भवतु, का नः क्षतिरित्याशयेनाह - प्राणेति । प्राणपरित्यागेनापि जीवितव्यवरोपणेनापि सुहृदां मित्राणामसवः प्राणा रक्षणीया रक्ष्या इति हेतोः कथयामि ब्रवीमि । अस्तीति । भवत्यास्तव समक्षमेव प्रत्यक्षमेव । यदा कुमारेण पारिजातमञ्जरी तव कर्णावतंसीकृता तदा त्वदायत्तत्वात्पतितामक्षमालामपि नाज्ञासीत् । तस्मिन्व्यामोहावसरे स पुण्डरीक उपदर्शितः कोपो येनैवंभूतेन मया तथा निष्ठुरं रूक्षमभिहितः कथितोऽस्ति । तथा च तेन प्रकारेण चाभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य तस्मात्प्रदेशात् । उपेति । उपजात उत्पन्नो मन्युः कोपो यस्य सः । उत्सृष्टेति । उत्सृष्टस्त्यक्तः कुसुमानां पुष्पाणामवचयो ग्रहणं येन सः । समित्कुशकुसुमावचयनिमित्तमागतं तदपि प्रयोजनं कोपेन परित्यक्तमिति भावः । एवंविधोऽहमन्यप्रदेशं तदितरवनविभागमगममव्रजम् । अथ च भवत्यामपयातायां गतायां मुहूर्तमिव स्थित्वकाक्यद्वितीयोऽयं पुण्डरीक इदानीं सांप्रतं किमाचरति किमाचरणं करोतीति संजातो वितर्को विकल्पो यस्य सोऽहं प्रतिनिवृत्त्य व्याघट्य विटपैर्वक्षरन्तरितस्तिरोहितो विग्रहो यस्यैवंभूतस्तं प्रदेशं व्यलोकयमपश्यम् । यावत्कालं तत्र तस्मिन्प्रदेशे त कपिज्जलं नाद्राक्षं न व्यलोकिषम्, तदा मे मम मनसि चित्त एवमग्रे प्रतिपाद्यमानमासीदभूत् । किं तदित्याह - किं त्विति । अव्ययानामनेकार्थत्वात्किं नु कदाचिन्मदनेनानङ्गेन परायत्ता पराधीना चित्तवृत्तिर्यस्यैवंभूतस्तामेव गन्धर्वकन्यकामेवानुसरन्ननुव्रजन्गतो भवेत् । तस्यां गतायां च सत्यां लब्धा चेतना चैतन्यं येन सः । विशेषेण लज्जमानस्त्रपां कुर्वाणो मे मम दर्शनपथमालोकनमार्गमुपगन्तुं प्राप्तुं न शक्नोति न समर्थो भवति । आहोस्विदिति । आहोस्विद्वितर्के । कुपितः कोपं प्राप्तः सन्मां परित्यज्य विहाय गतः प्रस्थितः । उतेति । उताथवा मामेवान्वेषमाणो वीक्षमाण इतोऽन्यं प्रदेशं समाश्रितः स्यात् । इत्येवं विकल्पयन्विकल्पनां कुर्वन्कंचित्कालमतिष्ठं स्थितवान् । तेन त्विति । जन्मनः प्रभृति जन्म मर्यादीकृत्यानभ्यस्तेनापरिचितेन तस्य पुण्डरीकस्य क्षणमप्यदर्शनेनानवलोकनेन दूयमानो दुःखं कुर्वाणः । पुनरहमचिन्तयं चिन्तितवान् । क्षणमपीत्यनेन कदाचि - टिप्प० - 1 पुण्डरीकम् । नामादिविस्मृतिः क्षम्या भवति ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-----
पाठा० - १ समस्तम्. २ लज्जया.
324
कादम्बरी ।
कथायाम