SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ मानः पुनरचिन्तयम् - ‘स कदाचिद्वैर्यस्खलनविलक्षः किंचिदनिष्टमपि समाचरेत् । न हि किंचिन्न क्रियते हिया । तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादरमकरवम् । अन्वेषमाणश्च यथायथा नापश्यं तं तथातथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानस्तरुलतागहनानि चन्दनवीथिकालतामण्डपान्सरःकूलानि च वीक्षमाणो निपुणमितस्ततो दत्तदृष्टिः सुचिरं व्यचरम् ।। अथैकस्मिन्सरःसमीपवर्तिनि निरन्तरतया कुसुममय इव, मधुकरमय इव, परभृतमय इव, मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, उत्सृष्टसकल व्यापारतया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव निश्चलमपि स्ववृत्ताच्चलितम्, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि पाण्डुता मावह - *********** दपि तेन सह नाहं वियुक्तः इदानीं भूयान्कालमादाय विलम्बित इति खेदातिशयप्रदर्शनमिति भावः । कदाचिदिति । कदाचित्संभावनामात्रमेतत् । धैर्यस्य स्खलन भ्रंशस्तेन विलक्षो वीक्षापन्नः किंचिदनिर्दिष्टनामकमनिष्टमप्यसमीहितमपि समाचरेत्समाचरणं कुर्यात् । हि निश्चितम् । हिया लज्जया किंचिन्न न क्रियते । अपि तु क्रियत एवेत्यर्थः । 'दौ नौ प्रकृतमर्थं सूचयतः' इति न्यायात् । तत्तस्माद्धेतोरेकाकिनमद्वितीयं कर्तुं विधातुं न युक्तं नोचितमिति पूर्वोक्तप्रकारेणावधार्य निश्चित्यान्चेष्टुमन्वेषणां कर्तुमादरमुयोगमकरवमघटयम् । अहमन्वेषमाणो यथायथा तं पुण्डरीकं नापश्यं न व्योलोकयं तथातथा सुहृन्मित्रं तस्य स्नेहः प्रीतिस्तेन कातरेण भीरुणा मनसा तत्तदशोभनममङ्गलमाशङ्कमान आरेक्यविषयीक्रियमाणस्तरुषु वृक्षेषु यानि लतागहनानि गह्वराणि, चन्दनवीथिकासु ये लतामण्डपा जनाश्रयास्तान्सरःकूलानि च कासारतीराणि च निपुणमेकतानं वीक्षमाणो विलोक्य(क)मान इतस्ततो दत्ता दृष्टिर्येन सोऽहं सुचिरं चिरकालं व्यचरमभ्रमम् । अथेति । इतस्ततो विचरणानन्तरमेकस्मिन्वसन्तजन्मभूमिभूते लतागहने कृतावस्थानं तं कुमारं पुण्डरीकमद्राक्षमपश्यमित्यन्वयः । लतागहनं विशेषयन्नाह - सर इति । सरसः कासारस्य समीपवर्तिनि पार्थस्थायिनि निरन्तरतया निबिडतया कुसुममय इव पुष्पमय इव, मधुकरमय इव भ्रमरमय इव । एतेन पुष्पाणामति सुरभित्वं सूचितम् । तेन भ्रमराणां बाहुल्यमिति भावः । परेति । परभृताः कोकिलास्तन्मय इव । एतेन सहकारोदेकः सूचितः । त्वतलादीनां योगे पूर्वस्य पुंवद्भावः । यद्वा अत्र पुरुषस्यैव ग्रहणम् । मयूराः कलापिनस्तन्मय इव । एतेनातिरमणीयत्वं सूचितम् । अत एवातिमनोहरेऽत्यभिरामे । अथ पुण्डरीकं विशेषयन्नाह - उत्सृष्ट इति । तदायत्तत्वादुत्सृष्टस्त्यक्तः सकलव्यापारो येन तस्य भावस्तत्ता तया लिखितमिव चित्रितमिव, उत्कीर्णमिवोत्कोरितमिव, स्तम्भितमिव कीलितमिव, उपरतमिव मृतमिव, प्रसुप्तमिव शयितमिव । योगेति । योगस्य चित्तवृत्तिनिरोधस्य यः समाधिरर्थमात्रावभासनरूपस्तत्रस्थमिव । अत्र विरोधालंकाखदर्शनपर्वकं तमेव विशेषयन्नाह - निश्चलमिति । निश्चलं निःप्रकम्पमपि स्ववत्तात्स्वाचाराच्चलितमिति विरोधः । तत्परिहारपक्षे चलितं भ्रष्टमित्यर्थः । एवमग्रेऽपि स्वबुद्ध्या ज्ञेयम् । एकाकिनमप्यद्वितीयमपि मन्मथेन मनोभवेनाधिष्ठितमाश्रितमिति विरोधः । द्वितीयाधिष्ठितत्वेनैकाकित्वाभावात् । सानुरागमिति । अत्रानुरागो रक्तिमा रक्तत्वं तेन सहितमपि पाण्डुतां वेततामावहन्तमादधानमिति विरोधः । रक्तश्चेतयोः स्वारसिकविरोधात् । टिप्प०.1 लज्जितः । 2 उद्घन्धनादिकमवाञ्छितममङ्गलम् । 3 'चन्दनवीथिकाः' इति पृथगेव ग्रन्थानुकूलम्, सुचिरान्वेषणार्थं बहुत्वयानुगुणत्वात् । 4 मन्मथो न शरीरी, अत एवायमेकाक्येवेति समाधानम् । 5 सानुरागं प्रियतमायामासक्तमिति परिहारः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० -१ सुवृत्तात्. (मदनार्तपुण्डरीकस्य दशा । पूर्वभागः । 325
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy