________________
न्तम्, शून्यान्तःकरणमपि हृदयनिवासिदयितम् तूष्णीकमपि कथितमदनवेदनातिशयम्, शिलातलोपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन संताप्यमानम्, अतिनिःस्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तःप्रविष्टैरिवासह्यसंतापसंत्रासप्रलीनैरिव मनःक्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम्, निःस्पन्दनिमीलितेनान्तर्घलन्मदनदहनधूमाकुलिताभ्यन्तरेणेवाक्षिपक्ष्मान्तरविवरवान्तानेकधारमनवरतमीक्षणयुगलेन बाष्पजलदुर्दिनमुत्सृजन्तम्, आलोहिनीमधरप्रभामनङ्गाग्नेः प्रदहतो हृदयादूर्ध्वसंसर्पिणीं शिखामिवादाय निष्पतद्भिरुच्छ्रासैस्तरलीकृतासन्नलताकुसुमकेशरम्, वामकपोलशयनीकृतकरतलतया समुत्सर्पद्भिरमलैर्नखांशुभिर्विमलीकृतमच्छाच्छचन्दनरसरचितललाटिकमिव ललाटदेशमुद्रहन्तम्, अचिरापनीतपारिजातकुसुमकर्णपूरतया सशेषपरिमलामोदलोभोपसर्पिणा -
*********** शून्येति । शून्यमन्यकर्तव्यतेच्छारहितमन्तःकरणं यस्यैवंविधमपि हृदये निवासिनी निवसनशीला दयिता यस्येति विरोधः । कस्यचित्सद्भावे शून्यत्वाभावात् । तत्परिहारस्तु शून्यं ध्यानान्तरवर्जितं केवलं तदासक्तचित्तत्वादिति भावः । तूष्णीकमिति । तूष्णीकमपि मौनावलम्बिनमपि कथितो निवेदितो मदनवेदनाया अतिशय उत्कर्षो येनेति विरोधः । मौनकथनत्वयोर्विरुद्धधर्मत्वात् । शिलेति । शिलातल उपविष्टमासीनमपि मरणे व्यवस्थितं चलितमिति विरोधः । आसीनचलितत्वयोर्विरोधात् । शापेति । शापप्रदानस्य यद्भयं भीतिस्तस्मादिवादत्तं स्वस्य दर्शनं येनैवंभूतेन कुसुमायुधेन कंदर्पण संताप्यमानं पीड्यमानम् । अतीति । अतिशयेन यो निःस्पन्दो निःक्रियत्वं तस्य भावस्तत्ता तया हृदयनिवासिनीं प्रियां द्रष्टुं विलोकयितुमन्तःप्रविष्टैरिवान्तर्गतैरिव । असह्येति । असह्यः सोढुमशक्यो यः संतापः संज्वरस्तस्य संत्रासाद्भयाालीनैरिव नष्टैरिव । मनस इति । मनसो हृदयस्य क्षोभोऽन्यथाप्रवर्तनं तेन प्रकुपितैरिव कोपं प्राप्तैरिव । अत एवोन्मुच्य त्यक्त्वा गतैरेवंभूतैरिन्द्रियैः करणैः शून्यीकृतं शरीरं यस्य स तम् । इन्द्रियाणां तत्कार्यकारित्वादेवेन्द्रियवत्ता तदभावाच्छ्न्यीकृतमित्यर्थः । पुनः किं कुर्वन्तम् । अनवरतं निरन्तरमीक्षणयुगलेन नेत्रयुग्मेन बाष्पजलदुर्दिनमुत्सृजन्तं त्यजन्तम् । नेत्रयुग्मं विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलन्प्रज्वलन्यो मदनदहनः कामाग्निस्तस्य धूमो दहनकेतनं तेनाकुलितं व्याप्तमभ्यन्तरं मध्यं यस्यैवंभूतेनेव । अत एव निःस्पन्दं यथा स्यात्तथा निमीलितेन मुद्रितेन । अथ बाष्पजलदुर्दिनं विशेषयन्नाह - अक्षीति । अक्षिपक्ष्मणां नेत्ररोग्णां यानि विवराणि छिद्राणि तेभ्यो वान्ता उद्गीर्णा अनेकधारा यस्मिन् । आलोहिनीति । हृदयं प्रदहतोऽनङ्गाग्नेरूद्मसंसर्पिणीमुपरिगामिनी शिखामिव ज्वालामिवालोहिनी रक्तामधरप्रभा दन्तच्छदरुचमादाय गृहीत्वा निष्पतद्भिर्निर्गच्छद्भिरूच्छासैराहरैस्तरलीकृतानि कम्पनीकृतान्यासन्नलताकुसुमकेसराणि समीपवल्लीपुष्पकिजल्कानि येन स तथा तम् । वामेति । वामकपोलस्य शयनीकृतं तल्पीकृतं यत्करतलं हस्ततलं तस्य भावस्तत्ता तया समुत्सर्पद्भिर्ध्वं प्रसरद्भिर्नखांशुभिर्नखमयूखैर्विमलीकृतं श्वेतीकृतमत एव । अच्छाच्छेति । निर्मलो यश्चन्दनरसस्तेन रचिता निर्मिता ललाटिका तिलकविशेषो यस्मिन्नेवभूतमिव ललाटदेशमलिकप्रदेशमुदहन्तं धारयन्तम् । अचिरेति । अचिरापनीतं सयोनीतं यत्पारिजातकुसुमं मन्दारपुष्पं तस्य यत्कर्णपूरं तस्य भावस्तत्ता तया मधुकरकुलेन भ्रमरसमूहेन सनीलोत्पलमिव सेन्दीवरमिव, सतमालपल्लवमिव सतापिच्छकिसलयमिव, श्रवणदेशं कर्णप्रदेशं दधानं धारयन्तम् । अथ मधुकरकुलं विशेषयन्नाह - सशेषेति । सशेषौ समग्रौ यावामोदपरिमलौ तत्र विदूरगः सुरभिरामोदो -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अन्यकर्तव्यानि अनिच्छत एव हृदये प्रिया निवसतीति को विरोधः ? तस्मात् हृदये दयितानिवासेऽपि तस्य शून्यवतं विरुद्धम् । विषयान्तरविचारराहित्याच्च परिहारः । 2 कथितो गात्रस्तम्भादिना सूचित इति तत्परिहारः । 3 यः शिलातले उपविष्टः सः मरणे कथं व्यवस्थितः, एकस्य युगपदधिष्ठानदयवृत्तित्वे विरोधः, व्यवस्थितं कृतनिश्चयमिति तत्परिहारः 14 वामकपोलस्य शयनीकृतं हस्ततलं यस्य स वामकपोल शयनीकृतहस्ततलः, तद्भावस्तत्ता, तयेत्युचितम् । 5 सशेषः तदानीमप्यवशिष्टो यः परिमलस्तस्य य आमोदः (अनुभवजनित आनन्दः) तस्य लोभात् हितोः) उपसर्पिणा, इत्यर्थो बोध्यः ।
326
कादम्बरी।
कथायाम्