________________
भिरतिकोमलतया नखविवरेण वर्षन्तीभिरिव रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां क्षितितलतारागणमिव नखमणिमण्डलमुद्रहद्भ्याम् विद्रुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, नूपुरमणिकिरणचक्रवालेन गुरुनितम्बभरखिन्नोरुयुगलसहायतामिव कर्तुमुद्गच्छता स्पृश्यमानजघनभागाम्, प्रजापतिदृढनिष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघातालावण्यसोत इव द्विधागतमूरुद्वयं दधानाम्, सर्वतःप्रसारितदीर्घमयूखमण्डलेनेjया परपुरुषदर्शनमिव रुन्धताकुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचितपरिवेषाम्, निपतितसकललोकहृदयभरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरितमुखदर्शनदुःखेनेव क्षीयमाणमध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्यादङ्गुलिमुद्रामिव निमग्नां -
***********
विवरेण नखान्तरेण रुधिरधारावर्षं वर्षन्तीभिरिव । किं कुर्वद्भ्याम् पादाभ्याम् । क्षितितलतारागणमिव नखमणिमण्डलमुबहद्भ्यामुदहन कुर्वद्भ्याम् । अत्र वर्तुलत्वप्रकाशकत्वसाधानखतारागणयोः साम्यं प्रदर्शितम् । विद्रुमं हेमकन्दलस्तस्य यो रसस्तस्य नदी तटिनी चरणाभ्यां पादाभ्यां प्रवर्तयन्तीमिव विस्तारयन्तीमिव । नूपुरेति । स्पृश्यमानः स्पर्शविषयीक्रियमाणो जघनभागो यस्याः सा ताम् । केन । नूपुरमणीनां पादकटकरत्नानां किरणा दीधितयस्तेषां चक्रवालेन समूहेन गुरुर्यो नितम्ब आरोहस्तस्य भरेण भारेण खिन्नं यदूरुयुगल सक्थिद्वन्द्वं तस्य सहायं साहय्यं कर्तुमिवोद्गच्छतोय व्रजता । प्रजेति । प्रजापतिना ब्रह्मणा निर्माणव्याजेन दृढं निष्पीडितो मर्दितो मध्यभागो मध्यप्रदेशस्तस्माद् गलितं च्युतं लावण्यसोत इव जघनशिलातलप्रतिघाताद् द्विधागतमूरुद्वयं दधानां धारयन्तीम् । एतेन मध्यभागे काय शिलातलपदेन च जघने दृढत्वमगूढं व्यज्यते । पुनः कीदृशीम् । काञ्चीदाम्ना रशनादाम्ना नितम्बबिम्बस्यारोहमण्डलस्य विरचितो निर्मितः परिवेषः परिधिर्यस्याः सा ताम् । इतः काञ्चीदाम विशेषयन्नाह - सर्वत इति । सर्वतः समन्तात्प्रसारितं विस्तारितं दीर्घमायतं मयूखमण्डलं किरणसमूहो येन स तेन । ईर्ण्यया स्पर्धया परपुरुषदर्शनमन्यनरावलोकन रुन्धतेवावरोधं कुर्वतेत । अदृष्टंपूर्वत्वात् । कुतूहलेन कौतुकेन विस्तारं विस्तीर्णतां तन्वतेव विस्तारयतेव । स्पर्श इति । स्पर्शसुखेन संश्लेषसातेन रोमाञ्चमिव रोमोद्गममिव मुञ्चता त्यजता । निपतितेति । हृद्यत्वानिपतितानि सकललोकानां समग्रजनानां हृदयानि मानसानि तेषां भरेणेवातिगुरुर्गरीयानितम्बो यस्याः सा ताम् । उन्नतेति । उन्नतावुच्चौ यौ कुचौ स्तनौ ताभ्यामन्तरितं व्यवहितं यन्मुखदर्शनमाननवीक्षणं तस्य दुःखेनेव कृच्छ्रेणेव क्षीयमाणः क्षीणतां प्राप्यमाणो मध्यभागो यस्याः सा ताम् । मध्यभागस्याधस्तान्मुखस्योपरिष्टात्तन्मध्ये कुचान्तरालस्य विद्यमानत्वात्तथा दर्शन न भवति, अङ्कुरितयौवनत्वात् । पूर्णे तु यौवने सर्वथा दर्शनं न भविष्यतीत्यतो दुःखेनेवेत्युक्तमिति भावः । प्रजापतेरिति । अतिसौकुमार्यात्स्पृशतः स्पर्श कुर्वतः प्रजापतेर्ब्रहाणोऽङ्गुलिमुद्रामिवावर्तिनीं निम्नगां नामिमण्डलमु(न्तु)दकू -
- - - - - - - - - - टिप्प० - 1 कोमल-रक्तयोश्चरणयोररुणा प्रभा परितः प्रसरति अत एव तत्र विद्रुमरसनदीप्रवर्तनस्योत्प्रेक्षा । चरणौ च अझलीभिर्युती, अङ्गलयश्च चरणरागदीधितय इव, लावण्यजलवेणिका इव, इत्यादिभिः । उत्प्रेक्षाभिर्वर्णिता इति 'चरणाभ्यां विद्रुमरसनदीमिव प्रवर्तयन्तीम्' इति विशेषणवाक्यस्य निर्गलितोऽर्थः । 2 काञ्चीदाम्नः परितः प्रकाशकिरणाः प्रसृताः । अत एव तत्रोत्प्रेक्षा क्रियते परपुरुषाणां दर्शनरोधार्थम् । किरणैरावरणे सति दर्शनं न भवति । 3 नाभिमण्डलीमित्यपि पाठः, आवर्तिनीमिति स्त्रीविशेषणानुरोधात् । आवर्तिनीमित्यस्य आवर्तवत् मध्यगर्तो यस्यास्तादृशीमित्यर्थः ।
-
-
-
पाठा० - १ वमन्तीभिः. २ अङ्गुलिभिः. ३ सहायम्; सहायिताम्. ४ प्रजापतिकरदृढ. ५ लावण्यजलसोत. ६ निरुन्धता.
388
कादम्बरी।
कथायाम्