SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ यमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव नीयमानाम्, उपरि मणिमण्डपेष्वमरैरिवोत्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम्, चित्रकर्मच्छलेनावलोकनकुतूहलसंपुजितेन त्रिभुवनेनेव परिवृताम्, भूषणरवप्रनृत्तशिखिशतविततचित्रचन्द्रकेण भवनेनापि कौतुकोत्पादितलोचनसहस्रेणेव दृश्यमानाम्, आत्मपरिजनेनापि दर्शनलोभादुपार्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि रागाविष्टैरिवाधिष्ठितसर्वाङ्गाम्, अकृतपुण्यमिव मुञ्चन्ती बालभावम्, अदत्तामपि मन्मथावेशपरवशेनेव गृह्यमाणां यौवनेन, अविचलितचरणरागदीधितिभिरिव निर्गताभिरलक्तकरसपाटलितलावण्यजलवेणिकाभिरिव गलिताभिर्निवसितांशुकदशाशिखाभिरिवावलम्बिताभिः पादाभरणरत्नांशुलेखासंदेहदायिनी - *********** भावस्तत्ता तया । नागैः सर्परपहियमाणामिवान्यत्र नीयमानामिव । तथोपान्ते समीपे च रत्नभित्तिषु तत एव दिक्पालैः सोमादिभिर्नीयमानामिव । प्राप्यमाणामिव । तथोपरि मणिमण्डपेषु रत्नजनाश्रयेषु तत एवामरैर्देवैरुत्क्षिप्यमाणामिवोत्पाट्यमानामिव । तत एव महामणिस्तम्भैर्हदयमिव प्रवेशितां चित्तान्तर्निहिताम् । तत एव भवनदर्पणैर्गृहादर्जेरापीतामिव पानविषयीकृतामिव । श्रीमण्डपमध्योत्कीर्णेनाधोमुखेन विद्याधरलोकेन गगनतलं व्योमतलमारोप्यमाणामिव तत्र स्थाप्यमानामिव । एतेनोल्लिखितविद्याधररूपाणामतिस्वच्छता दर्शिता । चित्रेति । चित्रकर्मालेख्यंकर्म तस्य छलेन मिषेणावलोकनलक्षणं यत्कुतूहलं कौतुकं तेन संपुजितेन पिण्डीभूतेन त्रिभुवनेन परिवृतामिव सहितामिव । भूषणरवेण प्रनृत्तं ताण्डवितं यच्छिखिशतं मयूरशतं तस्य वितता विस्तीर्णाश्चित्रा विविधवर्णाश्चन्द्रका मेचका यस्मिन् । कौतुकेन कुतूहलेनोत्पादितं विहितं लोचनसहसं येनैवंविधेन भवनेनापि दृश्यमानामिव प्रेक्ष्यमाणामिव । अन्यथा भवनस्य लोचनाभावात्कादम्बरीप्रेक्षणं न स्यादिति भावः । आत्मेति । दर्शनलोभादवलोकनतृष्णातोऽनिमिषनयनेन निर्वर्ण्यमानामालोक्यमानाम् । के (ने)व । उपार्जितमर्जितं दिव्यं चक्षुर्येनैवंविधेनेव । यौवनातिशयमाह - लक्षणैरिति । लक्षणैरपि कपोलद्युतिकुचकाठिन्यादिभिरधिष्ठितमाश्रितं सर्वाङ्गं यस्याः सा ताम् । कैरिव । रागाविष्टैरिव दृष्टिरागिभिरिव । किं कुर्वन्तीम् । बालभावं मुञ्चन्तीं त्यजन्तीम् । कमिव, अकृतपुण्यमिव निर्भाग्यमिव । अदत्तामिति । अदत्तामप्यनर्पितामपि मन्मथस्य कंदर्पस्यावेश आवेगस्तस्य परवशेन पराधीनेन यौवनेन गृह्यमाणामिव स्वीक्रियमाणामिव । पुनः कीदृशीम् । चरणाभ्यां पादाभ्यां विद्रुमरसनदीमिव हेमकन्दलरसतटिनीमिव प्रवर्तयन्ती विस्तारयन्तीम् । कीदृशाभ्यां चरणाभ्याम् । अङ्गुलीभिः करशाखाभिरुपेताभ्यां सहिताभ्याम् । कीदृशीभिरङ्गुलीभिः । अविचलितेति । अविचलितो निश्चलो यश्चरणयो रागस्तस्य दीधितिभिरिव प्रभाभिरिव निर्गताभिः प्रत्युद्गताभिः । अलक्तेति । अलक्तकरसो यावकरसस्तेन पाटलितं घेतरक्तीकृतं यल्लावण्यजलं तस्य गलिताभिः क्षरिताभिर्वेणिकाभिरिव धाराभिरिव । वस्त्रप्रान्तावलम्बनसाम्येनाह - निवसितेति । निवसितं परिधानीकृतं यदंशुकं रत्नांशुकं तस्य दशाशिखाभिरिव वस्त्रप्रान्तारिवावलम्बिताभिर्दृढधृताभिः । पादेति । अतिकोमलतयातिमृदुतया पादाभरणानां या रत्नांशुलेखा मणिकान्तिरेखास्तासां संदेहदायिनीभिः । संशयवितरणकर्तीभिः । नख - टिप्प० - 1 निपतितप्रतिबिम्बतया इत्यनुषङ्गः । एवम् उपरिमण्डपेष्वित्यत्रापि । महामणिस्तम्भदर्पणादिष्वपि निपतितप्रतिबिम्बतया इत्यस्यानुषङ्गो बोध्यः । 2 ध्वज-वज्रादिचिह्नानि यानि तस्यास्तत्तदङ्गेषु वर्तन्ते तान्यपि कादम्बर्यामासक्तिवशादाश्रितानि इत्युप्रेक्ष्यते । 3 पित्रादिभिरसमर्पिताऽपि स्मरावेशपरवशतया इव यौवनेन स्वयं गृह्यमाणां स्वीक्रियमाणाम् । कामावेशपरवशो हि पित्रादिसमर्पणस्य प्रतीक्षां न कुरुते । परमार्थतस्तु यौवनं कामावेशपरवशं भवत्येव स्वाभाव्यात्, अहो कवयितुश्चातुर्यम् । पाठा० - १ शतचित्र. २ सर्वाङ्गीम्; सर्वावयवाम्. ३ विनतचरण. ४ रक्तांशुक. कादम्बरीवर्णनम् W387 । पूर्वभागः ।
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy