________________
शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतन्तमाभरणकिरणालोकं संपिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारिमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ।
तत्र च मध्यभागे पर्यन्तरचितमेण्डलेनाथ उपविष्टेन चानेकसहससंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नौतिमहतः पर्यङ्कस्याश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेनावस्थितां महावराहदंष्ट्रावलम्बिनीमिव महीम्, विस्तारिणि देहप्रभाजालजले भुजलताविक्षेपपरिभ्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिबिम्बतयाधस्तान्मणिकुट्टिमेषु नागैरिवापहि -
******
अन्वयस्तु प्रागेवोक्तः । तेनेति । तेन मार्गेणान्तर्मध्ये निपतन्तं प्रविशन्तं संपिण्डितं नानाभूषणप्रभामिश्रितमाभरणकिरणालोकं विभूषणप्रभाप्रकाशम् । प्रसरणसाम्येनाह - नदीति । नद्याः सरितो वेणिका रेयस्तत्र यो जलप्रवाहस्तद्वदिव वहन्तं प्रसरन्तमपश्यत् । तन्मध्य इति । आभरणकिरणालोकमध्ये महाश्वेतया सह प्रतिस्रोत इव प्रतिरय इव गत्वा प्रतीहारिमण्डलेनाधिष्ठित आश्रितः पुरोभागोऽग्रभागो यस्यैवंविधं श्रीमण्डपं ददर्श दृष्टवान् । अत्रालोकस्याभ्यन्तरावधि निपतनात्, एतस्य प्रत्यभिमुखगमनात्, गमनमात्र एव दृष्टान्तस्तस्मिन्नेव दृष्टान्तस्योचितत्वात्, न तु दर्शनक्रियायामिति ।
तत्र श्रीमण्डपे मध्यभागे कादम्बरीं ददर्शेत्यन्वयः । इतो दूरं कादम्बरीं विशेषयन्नाह - पर्यन्तेति । मण्डपपर्यन्तं रचितं निर्मितं मण्डलं येन स तेन । अध इति । कुमारिकासनापेक्षयाध उपविष्टेन स्थितेनानेकेषां सहस्राणां संख्या गणना यस्मिन्स तेन । परीति । परिस्फुरद्देदीप्यमान आभरणानां भूषणानां समूहो यस्मिन्स तेन । मनोहरत्वसाम्येनाह - कल्पेति । कल्पलता मन्दारवल्ल्यस्तासां निवहेनेव समूहेनेर्व कन्यकाजनेन परिवृताम् । नीलेति । नीलं यदंशुकं तस्य यः प्रच्छदपट उत्तरच्छदस्तेन प्रावृतस्याच्छादितस्य नातिमहतो नातिमहीयसः । परिमाणोपेतस्येत्यर्थः । पर्यङ्कस्य पल्यङ्कस्याश्रयेऽधिकरणे धवलं शुभ्रं यदुपधानमुच्छीर्षकं तत्र न्यस्ता स्थापिता या द्विगुणा भुजलता तदवष्टम्भेन तदाश्रयेणावस्थिताम् । अत्र भुजाया वक्रीकरणत्वेन द्विगुणत्वं बोध्यम् । धवलालम्बनावस्थित्वमात्रेणोप महावराहेति । महावराह आदिक्रोडस्तस्य दंष्ट्रा दाढा तत्रावलम्बिनीमाश्रितां महीमिव वसुधामिव । विस्तारिणि प्रसरणशीले देहप्रभा - जालमेव जलं पानीयं तस्मिन्भुजलतानां बाहुवल्लीनां विक्षेपरूपा ये परिभ्रमास्तैः प्रतरन्तीभिरिव जलावगाहनं कुर्वन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम् । निपतितेति । मणिकुट्टिमेष्वधस्तान्निपतितं यत्प्रतिबिम्बं प्रतिच्छाया तस्या -
टिप्प० - 1 वहन्तं, नद्याः वेणिकावत् केशपाशवेणीवत् (अर्थात् सरलः) यो जलप्रवाहस्तमिव तेन (मार्गेण ) निपतन्तम् (अभ्यन्तरादागच्छन्तम्) आभरणकिरणालोकमपश्यत् । 2 कल्पलता अपि अर्थिजनमनोरथपूरणाय नानाविधाभरणयुक्ता इति द्वयोः साम्यम् । 3 कफोणिमवष्टभ्य भुज ऊर्ध्वमुखीकृतः, अत एव फोण्यूर्ध्वभागे द्विगुणत्वमित्यर्थः । 4 धवलोपधानन्यस्तभुजलता कादम्बरी महीव इत्युपमा, भुजलतोपष्टम्भस्य वराहदंष्ट्रासादृश्यादिति सेयमुपमा पृथक् । परितः प्रसारिणि कादम्बर्या देहप्रभारूपे जले तरन्तीभिरिव चामरग्राहिणीभिर्वीज्यमानामिति द्वितीया उठप्रेक्षा (चामरचालनार्थं हस्तौ न कम्प्येते अपि तु जले हस्तक्षेपेण तास्तरन्ति इत्याशयः) ।
पाठा० - १ निपतित. २ मण्डलोपविष्टेन मण्डलेनोर्ध्वेणोपविष्टेन च. ३ अतिमहतः ४ उपाश्रये; अपाश्रये.
386
कादम्बरी |
कथायाम्