________________
खेदसस्तहस्तगलितचामरा नखमणिमयूखकलापमाधुनोषि' इत्येतान्यन्यानि च श्रुण्वन्नेव कादम्बरी वनमुपययौ ।
पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, दुर्दिनायमानमनिभृतपरभृतनखक्षताङ्गणसहकारफलरसवर्षेः, नीहारायमाणमनिलविप्रकीर्णैर्बकुलसेकसीधुधाराधूलिभिः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः, लीलाशोकवनायमानं कुसुमप्रकरपतितमधुकरवृन्दान्धकारैः, तथा च संचरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानं दन्तपत्रप्रभामण्डलैः, प्रियङ्गुलतायमानं कृष्णागुरुपत्रभङ्गः, लोहितायमानं कर्णाशोकपल्लवैः, धवलायमानं चन्दनरसविलेपनैः, हरितायमानं -
***********
खेदेति । खेदेन सस्तः कम्पितो यो हस्तः करस्तस्माद्गलितं च्युतं चामरं वालव्यजनं यस्या एवंविधा सती नखा एव मणयस्तेषां मयूखकलापं कान्तिसमूहमाधुनोषि कम्पयसि । एतेन नखकान्तिकलापे चामरत्वं व्यज्यते । इत्येतानि पूर्वोक्तान्यन्यानि च वाक्यानि श्रृण्वन्नाकर्णयन्कादम्बरी राजपुत्री तस्या भवनं गृहमुपययौ जगाम ।
अथेति । सेवार्थमागतेन सपर्यार्थं समायातेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन । ऊर्ध्वत्वसाम्येनाह - लावण्यमयेन प्राकारेणेव वप्रेणेव । उभयतः संवृतत्वसाम्येनाह - कृत इति । कृतो विहितो दीर्घाया रथ्यायाः लोके 'गल्ली' इति प्रसिद्धायाः मुखवदाकारो यस्मिन्नेतादृशं मार्गमध्वानमद्राक्षीदालोकितवान् । इतो मार्गविशेषणानि प्रदर्शयन्नाह - पुलिनेति । उपवनं गृहसमीपवर्ति काननं तस्य लता वल्यस्ताभ्यो गलितानि कुसुमानि पुष्पाणि तेषां रेणुपटलैः परागपुजैः पुलिनायमानं जलोज्झिततटायमानम् । श्वेतत्वातिशयात्परागोपेतमार्गस्य पुलिनोपमानता । अनिभृतेति । अनिभृताश्चञ्चला ये परभृताः पिकास्तेषां नखाः पुनर्भवास्तैः क्षतानि खण्डितान्यङ्गणमजिरं तत्र ये सहकारा आम्रास्तेषां फलानि सस्यानि तेषां रसवर्षेर्मधुवर्षणैर्दुर्दिनायमानं मेघजनिततमोवदाचरमाणम् । एतेन सर्वत्र तत्तदतिशयो व्यज्यते । अनिलेति । अनिलेन वायुना विप्रकीर्णेविक्षिप्तैर्बकुलाः केसरास्तेषां सेकार्थं याः सीधुधारा मद्यधारास्तासां धूलिभिः कणैः । श्वेतत्वसाम्यात् । नीहारायमाणं हिमवदाचरमाणम् । काञ्चनेति । चम्पकदलानि गन्धफलीशकलानि तेषामुपहारैरुपचारैः काञ्चनद्वीपायमानं स्वर्णान्तरीपवदाचरमाणम् । एतेन पीतत्वातिशयो व्यज्यते । कुसुमेति । कुसुमप्रकरेषु पुष्पसमूहेषु पतितमुपविष्टं यन्मधुकरवृन्दं भ्रमरसमूहस्तस्यान्धकारैश्छायारूपैर्लीलाशोकवनायमानम् । अन्धकारस्य नीलत्वादशोकवनसाम्यमित्यर्थः । तथा चेति । तेनैव प्रकारेण संचरतो गच्छतः स्त्रीजनस्य वनितालोकस्य चरणालक्तकरसः पादरञ्जनार्थयावकरसस्तस्य विसरैः समूहैः रागसागरायमाणं रागसमुद्रवदाचरमाणम् । एतेन रक्तत्वातिशयो द्योत्यते । अङ्गेति । अङ्गरागस्य विलेपनस्यामोदैः परिमलैरमृतस्य पीयूषस्य य उत्पत्तिदिवसस्तद्वदाचरमाणम् । तद्दिनेऽमृतामोदस्य प्रचुरत्वादिति भावः । श्वेतत्वसाम्येनाह - दन्तेति । दन्तपत्रैः कर्णाभरणैश्चन्द्रलोकायमानं चन्द्रलोकवदाचरमाणम् । एतेन दन्तपत्राणां भूयस्त्वं व्यज्यते । प्रियङ्गुलतेति । कृष्णागुरुः काकतुण्डस्तस्य पत्रभङ्गः पत्रलताभिः । प्रियङ्गुः फलिनीलक्षणा या लता वल्ली तद्वदाचरमाणम् । नीलत्वातिशयादिति भावः । रक्तत्वसाम्येनाह - लोहितेति । कर्णाशोकपल्लवैः श्रवणनिक्षिप्तककेल्लिकिसलयैर्लोहितायमानं रक्तवदाचरमाणम् । धवलेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य विलेपनैरङ्गरागैर्धवलायमानं चेतवदाचरमाणम् । हरितेति । शिरीषः कपीतनस्तस्य कुसुमाभरणैः पुष्पविभूषणैर्हरितायमानं पीतनीलवदाचरमाणम् । टिप्प० - 1 प्रकरणानुकूलम् 'खेदसस्तहस्तगलितचामरे ' इति संबोधनमेवोचितम् । 2 कृतो दीर्घरथ्यामुखवदाकारो यस्य, ग्राम्यदीर्घरथ्याया मुखभागे उभयतो वृतिः मध्ये च स्वल्पायामो दी? मार्गो दृश्यत इत्याशयः । पाटा० - १ ग्रस्त. २ कलित. ३ चामरैः. ४ किरण. ५ भवनसमीपमुपययौ; भवनमुपसृत्य ययौ. ६ चम्पकोपहारैः. ७ नीलाशोक. ८ संचरन्, ९ पत्रमण्डलैः. १० बनायमानं रोचनातिलकभक्तिभिर्नीलायमानम्. ११. कर्णपूराशोक.
-
-
-
-
-
-
-
-
(कुमारीपुरवृत्तान्तः)
पूर्वभागः ।
ARY
385)