________________
भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके, निचिक्षिप चकोरपञ्जरेषु पिप्पलीदेलशकलानि । मधुकरिके, विरचय कुसुमाभरणकानि । मयूरिके, संगीतशालायां विसर्जय किंनरमिथुनानि । कन्दलिके, समारोहय क्रीडापर्वतशिखरं जीवंजीवमिथुनानि । हरिणिके, देहि पञ्जरशुकसारिकाणामुपदेशम्' इत्येतान्यन्यानि च परिहासजल्पितान्यश्रौषीत् । तथाहि - ‘चामरिके, मिथ्यामुग्धतां प्रकटयन्ती कमभिसंधातुमिच्छसि । अयि यौवनविलासैरुन्मत्तीकृते; विज्ञातासि या त्वं स्तनकलशभारावनम्यमानमूर्तिर्मणिस्तम्भेमयूरानालम्बसे । परिहासकाङ्क्षिणि, रत्नभित्तिपतितमात्मँप्रतिबिम्बमालपसि । पवनहृतोत्तरीयांशुके, हारप्रभामायासितकरतलकलयसि । मणिकुट्टिमेषूपहारकमलस्खलनभीते; निजमुखप्रतिबिम्बकानि परिहरसि । जीलवातायनपतितपद्मरागांलोकं प्रति बालातपैशङ्कया करतलमातपत्रीकरोषि ।
चानां श्वेतशोभाञ्जनानामग्रपल्लवदलानि मुख्यकिसलयखण्डानि भोजय भोजनं कारय । हे लवङ्गिके, चकोरपञ्जरेषु विषसूचकवंशदलेषु पिप्पलीदलशकलानि मागधीपत्रखण्डानि निचिक्षिप निक्षेपं कुरु । अनेन चकोराणां पिप्पलीदलानि प्रियाणीति ध्वनितम् | हे मधुकरिके, कुसुमानामाभरणकानि विभूषणानि विरचय रचनां कुरु । हे मयूरिके, संगीतशालायां नृत्यशालायां किंनरमिथुनानि तुरगवदनद्वन्द्वानि विसर्जय प्रेषय । हे कन्दलिके, क्रीडापर्वतशिखरं लीलाशिखरिसानुं जीवजीवमिथुनानि विषदर्शर्नमृत्युकयुगलानि समारोहयारोहणं कारय । हे हारिणिके, पञ्जरशुकसारिकाणामुपदेशं हितशिक्षां देहि प्रयच्छ । इत्येतानि पूर्वोक्तान्यन्यानि चाग्रे वक्ष्यमाणानि परिहासजल्पितानि वचनान्यश्रौषीदाकर्णितवान् । एतदेव दर्शयति तथाहीति । हे चामरिके, मिथ्या वृथा मुग्धतां मुग्धभावं प्रकटयन्ती प्रकाशयन्ती कमभिसंधातुं मिलितुमिच्छसि वाञ्छसि । बाह्यमुग्धत्वप्रकटनेन स्वकीयं कार्यं कर्तुकामेत्यर्थः । अयीति कोमलामन्त्रणे । हे यौवनविलासैस्तारुण्यविभ्रमैरुन्मत्तीकृते ग्रथिलीकृते, सा त्वं विज्ञाता विदितासि या स्तनकलशभारेणावनम्यमाना मूर्तिः शरीरं यस्या एवंविधा मणिभिनिर्मिता रचिता ये स्तम्भाः स्थूणास्तेषां मयूरान्कलापिन आलम्बस आलम्बनविषयीकरोषि । परीति । हे परिहासकाङ्क्षिणि, रत्नभित्तिपतितं मणिकुड्यसंक्रान्तमात्मप्रतिबिम्बं स्वकीयं प्रतिरूपमालपसि परिभाषसे । एतेन स्वयमेव स्वस्य भाषणमुपहासहेतुरिति ध्वनितम् । पवनेति । पवनेन वायुनाहृतं गृहीतमुत्तरीयांशुकमुपरिवस्त्रं यस्यास्तस्याः संबोधनं हे पवनहृतोत्तरीयांशुके, लज्जावशादतिशुभ्रत्वसाम्याद्धारप्रभामेवाकलयस्युत्तरीयांशुकत्वेन जानासि । अतएवायासितकरतला पुनः पुनस्तद्गहणप्रयासेन परिश्रान्तहस्ततलेत्यर्थः । मणिकुट्टिमेति । मणिकुट्टिमेषूपहारार्थमुपचारार्थं कमलानि नलिनानि तेभ्यः स्खलनं चरणाभिघातस्तस्माद्भीता त्रस्ता तस्याः संबोधनं हे उपहारकमलस्खलनभीते, निजमुखप्रतिबिम्बकानि स्वाननप्रतिच्छायानि परिहरसि त्यजसि । एतेन निजात्मप्रतिबिम्बान्येव कमलभ्रान्त्या त्यजसीति ध्वनितम् । जालेति । जालरूपो यो वातायनो गवाक्षस्तत्र पतितं लग्नं पद्मरागो लोहितकमणिस्तस्यालोकं प्रकाशं प्रति बालो नवीनो य आतपः सूर्यालोकस्तस्य शङ्कया भ्रान्त्या करतलं हस्ततलमातपत्रीकरोषि छत्रीकुरुषे । एतेन पद्मरागालोके बालातपभ्रान्तिरिति ध्वनितम् ।
-
टिप्प० - 1 ‘निक्षिप' इत्यपि पाठः । 2 पक्षिविशेषाणि । 3 प्रतारयितुमित्युचितम् । 4 स्तनकण्डूयानिवृत्तये एवं करोषीति परिहासः । 5 सर्वत्र वाक्यादौ संबोधनमिति प्रक्रमभङ्गष्टीकाकारेण न ज्ञातः । अत एव 'निजसौकुमार्यगर्वखर्वितबिसप्रसूनसौभाग्ये !' इति संबोधनमुचितम् । बिसप्रसूनादपि ते सौकुमार्यमधिकं येन हि बालातपशंकयापि आतपत्रकरणस्यापेक्षेति परिहासः ।
पाटा० - १ विक्षिप २ तण्डुल ३ वृथामुग्धताम् ४ ज्ञाता. ५ मयूखान् ६ अवलम्वसे. ७ प्रतिमामालपयसि. ८ संकलयसि. ९ निजसौकुमार्यगर्वखर्वितबिसप्रसूनसौभाग्ये जाल. १० अवलोकम्. ११ आशङ्किनी. १२ आतपत्रं करोषि .
384
कादम्बरी ।
कथायाम्