________________
ग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रन्थनमसुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः ।
तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्येतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासनस्य परिजनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि - ‘लवलिके, कल्पय केतकीधूलिभिर्लवलीलतालवालमण्डलानि । सागरिके, गन्धोदकदीर्घिकासु विकिर रत्नवालुकाम् । मृणालिके, कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्छुरय यन्त्रचक्रवाकमिथुनानि । मकरिके, कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके, तमालवीथिकान्धकारेषु निधेहि मणिप्रदीपान् । कुमुदिके, स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानि । निपुणिके, लिखमणिशोलभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके, परामृश कनकसंमार्जनीभिः कदलीगृहमरकतवेदिकाम् । केसरिके, सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि । मालतिके, पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् । नलिनिके, पायय कमलमधुरसं भवनकलहंसान् । कदलिके, नय धारागृहं गृहमयूरान् । कमलिनिके, प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् । चूतलतिके, देहि पञ्जरपुंस्कोकिलेभ्यश्चूतकलिकाङ्कुराहारम् । पल्लविके, -
*********** ध्वनितम् । पुनः सौकुमार्यातिशयमाह - कन्यकेति । कन्यकाविज्ञानेषु कुमारिकाणां कलासु माल्यग्रथनमसुकुमारजनव्यापारः । अतिककशजनविधेयमित्यर्थः । एतेन माल्यापेक्षयापि सौकुमार्य व्यज्यते । देवतेति । देवतानां प्रणामेषु नमस्क्रियासु मध्यभागस्यातिसूक्ष्मत्वात् भङ्गो द्वैधीभावो न भवति सोऽतिविस्मयकर आश्चर्यकरः । एतेन मध्यभागस्य स्वारसिकं कृशत्वं व्यज्यते ।
तदनन्तरं स चन्द्रापीडः किंचिदभ्यन्तरं मध्यभागमतिक्रम्येतश्चेतश्च परिभ्रमतः पर्यटत एवंविधस्य तस्य कादम्बरीप्रत्यासनस्य कुमारिकासमीपवर्तिनः परिजनस्य परिवारस्यातिमनोहरांस्तांस्तानालापान्सलापाशुश्रावाकर्णयामास । एतदेव दर्शयति - तथा हीति । हे लवलिके, केतकीधूलिभिः केतकीपरागैर्लवलीलताया आलवालमण्डलान्यावालमण्डलानि कल्पय प्रणय । हे सागरिके, गन्धोदक सुगन्धजलं तस्य दीर्घिकासु वापीषु रत्नवालुकां विकिर विक्षिप । हे मृणालिके, कृत्रिमकमलिनीषु यन्त्रचक्रवाकमिथुनानि कुङ्कुमरेणुमुष्टिभिश्छुरयाच्छोटय । हे मकरिके, कर्पूरपल्लवरसेन गन्धपात्राण्यधिवासय सुगन्धीकुरु । हे रजनिके, तमालवीथिकानामन्धकारेषु मणिप्रदीपानिधेहि स्थापय । हे कुमुदिके, शकुनिकुलरक्षणाय पक्षिसूहनिवारणाय मुक्ताजालैर्दाडिमीफलानि स्थगयाच्छादय । हे निपुणिके, मणिशालभञ्जिकास्तनेषु रत्नपुत्रिकाकुचेषु कुङ्कुमरसपत्रभङ्गांल्लिख लिपीकुरु । हे उत्पलिके, कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहमरकतवेदिकां परामृश संमार्जय । हे केसरिके, मदिरारसेन कादम्बरीद्रवेण बकुलकुसुममालागृहाणि सिञ्च सेकं कुरु । हे मालतिके, सिन्दूररेणुना नागभूषणधूल्या कामदेवगृहदन्तवलभिका पाटलय श्वेतरक्तीकुरु । हे नलिनिके, कमलमधुरसं भवनकलहसान्पायय पानं कारय । हे कदलिके, गृहमयूराभवनकलापिनो धारागृह यन्त्रगृह नय प्रापय । हे कमलिनिके, मृणालक्षीररसं चक्रवाकशावकेभ्यो रथाङ्गाह्वपाकेभ्यः प्रयच्छ प्रदेहि । चूतलतिके, पञ्जरपुंस्कोकिलेभ्यश्चतकलिकाङ्कुराहारमानकोरकप्ररोहाशनं देही प्रयच्छ । हे पल्लविके, भवनहारीतागृहमृदङ्कुरान्मरि -
टिप्प० - 1 रञ्जयेति तात्पर्यम् ।
पाठा० - १ कुसुम. २ असुकुमार. ३ अन्तरमवक्रम्य. ४ सारसिके. ५ कनकदीर्घिकासु; नदिकासु. ६ क्षोद. ७ युगलानि. ८ मन्दारिके. ९ भवनदीर्घिकातमाल. १० रक्षणार्थम्. ११ लेखय. १२ मणिस्तम्भ. १३ समार्जनीभिः. १४ वेदिकाः. १५ कुसुमिके. १६ चक्रवाकेभ्यः. १७ चूतकलिके.
कुमारीपुरकौतुकानि
पूर्वभागः।
1383