________________
मेकमवलोक्य 'कोयं युवा, किंनामकस्य तरोरियं सुरभिता मञ्जरी' इति तत्सहचरं कुमारमप्राक्षम् । स प्रत्युवाच- 'महर्षेः श्वेतकेतोः सौन्दर्यमोहितायां-लक्ष्मीदेव्यामुत्पन्नः पुण्डरीकमध्ये जाततया पुण्डरीकनामा सोयं कुमारः । नन्दनवनदेवतया सादरमुपहृता सेयं पारिजातस्य मञ्जरी । निर्जितमारः स तु कुमारः-'कुतूहलिनि ! किं वा प्रश्नायासेन । यदि रुचिता तर्हि गृह्यतामियम्' इत्यभिधाय मञ्जरी तां मे कर्णे कुर्वन् हस्तानिपतितामक्षमालामपि न ज्ञातवान् । अहं तु मालामिमामगृह्णाम् । मन्मथविकारमिममालोक्य कुपितेन द्वितीयेन कुमारेण तिरस्क्रियमाणः कुमारोऽसौ (पुंडरीकः ) मामुपेत्य मालामयाचत् । अहं तु मुक्तामयं निजहारमेव कण्ठादुन्मुच्य तस्मै समर्पा, तां च स्फटिकमयीं जपमालां कण्ठे वहन्ती जनन्या सह कृतस्नाना गृहमुपागच्छम् । ततो मत्परिचारिका तरलिका तेन कुमारेण कृतं मत्परिचयादिप्रश्नवृत्तं मह्यमावेद्य पत्रमेकमर्पितवती, यत्र चेयमार्याऽऽसील्लिखिता -
'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥ सायं तु तत्सहचरः कुमारः (कपिञ्जलः) कामविह्वलां मां तस्य कुमारस्य मन्मथव्यथां यावदावेदयति तावदेव समागच्छन्ती मज्जननी ज्ञात्वा स त्वरितं परावर्तत । प्रतिगतायां जनन्याम्, उपस्थितायां च रजन्याम्, समुदिते चन्द्रमसि, उत्कण्ठिताहं तरलिकाद्वितीया निभृतं गृहानिर्गत्य तमभिसरन्ती दूरात्कपिञ्जलविलापमाकर्ण्य द्रुततरमभिपतन्ती मन्दभाग्या महाभाग्यं तं कुमारमुपरतमद्राक्षम् । शोकात्कृतमरणव्यवसायां माम्'वत्से महाश्वेते ! न त्वया त्याज्याः प्राणाः, पुनरपि ते भविष्यत्यनेन सह समागमः' इति चन्द्रमण्डलादवतीर्णः कश्चिन्महापुरुषोऽभिधाय तं कुमारदेहं कराभ्यामुत्क्षिपन् नभसि न्यलीयत । 'क्व मे सुहृदमपहरसि' इति रोषाद्वद्धपरिकरः कपिजलोऽपि तमन्वसरत् । विस्मयविषादाभ्यां गृहीताऽहं तु संसारानिर्विण्णा व्रतमेतदवालम्बिषि । इति
अथ 'परिचारिका सा तरलिका क्व गता' इति चन्द्रापीडेन जिज्ञासिते सा पुनरवदत्- “गन्धर्वराजाच्चित्ररथान्मदिरादेव्यां जाता कुमारी कादम्बरी मम द्वितीयं हृदयम् । सा ममाऽनेन शोकवृत्तान्तेन प्रतिज्ञामकरोत्-'सशोकायां महाश्वेतायां नाहमात्मनः पाणिं ग्राहयिष्यामि । कादम्बरीपाणिग्रहणायाऽनुनेतुं गन्धर्वराजेन कृतानुरोधाहमयैव कादम्बरीसकाशे तां प्राहैषम्" । इति
द्वितीयेऽहनि प्रातरेव तरलिकया सह समागतः केयूरकनामकः कादम्बरीवीणावाहकः पाणिग्रहणे तस्या असंमतिमावेदयत् । कादम्बरीबोधनाय हेमकूटं प्रयान्त्या महाचेताया अनुरोधेन चन्द्रापीडोऽपि गन्धर्वराजधानीं गतोऽलौकिकसौन्दर्यशालिनी कादम्बरीमालोक्य प्रणयपरंतन्त्रोऽभवत् । कादम्बर्यपि तत्प्रणयवशंवदा दिव्यं दुकूलयुगं शेषनामक रत्नहारं च निजसख्या मदलेखाया हस्तेन तस्मै प्रजिघाय । अथ प्रीतिपरतन्त्रः स कादम्बर्या हृदयमादाय निजस्कन्धावार प्रत्यागतः सुहृदे वैशम्पायनाय सर्वं वृत्तमाचख्यौ । द्वितीयेऽहनि प्रत्यूष एव समुपेतेन कादम्बरीवैकल्यनिवेदकेन केयूरकेण सह पत्रलेखामादाय हेमकूटं गतश्चन्द्रापीडो हिमगृहगता मदनपरवशां कादम्बरी ददर्श । तया सह व्यङ्ग्यार्थगर्भ ललितमालप्य, तदनुरोधात्पत्रलेखां तत्रैवावस्थाप्य निजस्कन्धावार पराववृते । तत्र च पितुः पत्रमवाप्य, 'पत्रलेखामादाय त्वया परस्तादागन्तव्यम्' इति सेनापतिसुतं मेघनादमादिश्य, तत्रैव चावस्थाप्य, मार्गे द्रविडधार्मिकाधिष्ठितां चण्डिकां पश्यनुज्जयिनीमाजगाम । कतिचिद्दिनानन्तरं मेघनादेन सहागता पत्रलेखा कादम्बर्या विरहावस्थामुपालम्भोक्ति च चन्द्रापीडाय न्यवदेयत् ।
कादम्बरीपूर्वभागः ॥
(उत्तरकादम्बरी) हेमकूटात्प्रत्यागता पत्रलेखा चन्द्रापीडविरहनिमित्तं कादम्बर्याः परमं वैकल्यमावेदयांबभूव । तेन हि कादम्बर्याः प्रेमणि संदिहानश्चन्द्रापीडो भृशमात्मानमुपालेभे । तद्दिनादारभ्य बहिरप्रकाशयन्नपि हृदये वियोगवह्निनाऽतितरामदूयत । एकदा मनोविनोदाय सायं नगराबहिर्धमन् बहुभिस्तुरगैः सह दूरादायान्तं केयूरकमकस्माद्ददर्श । नगरे आगत्य केयूरको रहसि कादम्बर्याः सुभृशमुपचितं मदनसंतापं तथाऽऽवेदयद् यथा शोकेन मूर्छितप्रतिबुद्धश्चन्द्रापीडः प्रत्युवाच-'किमित्यहं नाहूतो देव्या । संप्रत्यहं प्राणपणेनापि तत्तापनिवृत्तये संनद्धः । केयूरकः
(कादम्बरीसारः।