________________
संक्षिप्ततया कथारसमास्वादयन्
(कादम्बरीसारः ।।
(पूर्वकादम्बरी) विदिशेतिख्यातनाम्न्यां राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलंकुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिच्चाण्डालदारिकाया आगमनमावेदयामास । अथ कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सममागत्य राजानं प्रणनाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय, तद्गुणावलीं चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य -
'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥' इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तःपुरे प्रवेशयितुमाज्ञाप्य सभास्थानादुदतिष्ठत् । कृताहिककृत्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन मन्त्रिवरेण सह सुखोपविष्टः शुकमेनमानाय्य समग्रं तद्वृत्तान्तमावेदयितुमाज्ञापयामास । शुकोऽप्येवं कथयामास - “विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ न्यवास्ताम् । मा प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिदृद्धशबरः शाल्मलीवृक्षमेनमारुह्य स्नेहवशात्पक्षपुटेन मामाच्छादयन्तं जनक मे व्यापाद्य, मामपि वृक्षादधः शुष्कपल्लवपुञोपरि न्यपातयत् । भाग्यवशाज्जीवितोऽहं जलान्चेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन्, कौतुकादन्यैर्मुनिभिः पृष्टो मदृत्तान्तमेवं निशि निजगाद
(इति कथामुखम्) "अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत्, यस्य महिषी विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंतानतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राज्या मुखे प्रविशन्तं चन्द्रं ददर्श स्वप्ने राजा शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्डरीकमेकमालोकयामास स्वप्ने । ततश्च विलासवत्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः सुतोऽभवत् । मिथः सौहार्दमापन्नौ द्वावप्येतौ कुमारौ राज्ञा सकलविद्यासु पारगामितामुपनीतौ । ततो विद्यास्नातकोऽसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधनामानं तुरंगवरमारुह्य विद्यागृहाद्राजधानीमाययौ । जनकजनन्योः संदर्शनेनानन्दितः, मृगयां विधाय नगरमुपागतो जनन्या प्रेषितां पत्रलेखामवाप्य मुदितः शुकनासोपदेशेन प्रगुणीकृतः, तारापीडेन यौवराज्येभिषिक्तोऽसौ दिग्विजयाय प्रातिष्ठत । त्रिभिः संवत्सरैः सर्वा दिशो विदिशश्च विजित्य, हेमकूटवासिकिरातानामावासं सुवर्णपुरमधितिष्ठन्नेकाकी चन्द्रापीडः कदाचिदिन्द्रायुधमारुह्य मृगयार्थमटन किंनरयुगलानुसरणप्रसङ्गेन पञ्चदशयोजनानि ययौ । किंनरमिथुने गिरिशिखरमारूढे, भृशमनुतप्तः श्रमेण तृषातुरो जलमन्विष्यन् विशालमनोरममच्छोदाख्यं सरः प्राप्तवान् । जलावगाहनपानोत्तरं तत्तटे विश्राम्यन्, वीणाक्वणसहितं गानमाकर्ण्य तदनुसरन्, अतिगौरमनोरमामेकां कन्यकां शिवालयगतां ददर्श । अथ प्राप्तातिथिसत्कारेण तेन पृष्टा सा निजतपोवृत्तमेवमाह स्म -
“अरिष्टातनयो गन्धर्वराजो हंसः सोममयूखसंभवकुलजाता गौरी परिणीतवान् । तयोस्तनया महाश्वेतानाम्न्यहमतिक्रान्तशैशवा कदाचिदस्मिन् सरसि स्नातुमागत्य कुतोप्यलौकिक सौरभमाजिघ्रती तदनुसरणं च विदधती केनचिदन्येन कुमारेण सहितं मूर्तिमन्तमिव मन्मथं मुनिकुमार
कादम्बरीसारः।