________________
टीकाकारा शारिखषा रागानिता । जना गमभरगगनाता पार गुपाचा सागलगार लाभापासुमन सिद्धिचन्द्रयोरुपदेशः शिरोधारितः । शाहिद्वयशासने वृत्त्या निर्माणमतोऽनुमीयते विवृत्त्याः समुद्भवसमयः विक्रमसंवत्सरस्य सप्ताधिकदशमशताब्या मध्ययुगः । एषा वृत्तिःशब्दवैविध्यरसिकेभ्यो वरदानरुपा, मूलस्य नैकोऽपि शब्दः टीकाविधात्रा पर्यायप्रोटनप्रक्रियायामुपेक्षाविषयीकृतः । क) भारतीयेषु शिक्षाप्रणालीषु बहुश्लोकतामिता कादम्बरी नानुपलब्धा न चाऽप्रचारिता किन्तु तदुपर्याः प्राय आदिमाया एतवृत्त्या आयुःक्षये समुपस्थित उभयासामपि प्रकाशनोपक्रमं वयमङ्गीकृतवन्तः ।
अस्या वृत्त्याः प्रकाशनावश्यकता मत्सुहृदयैर्विद्वत्सु प्राप्ताऽभिधैः पूज्यपादमुनिप्रवरश्रीधर्मतिलकविजयैर्मत्समक्षं वर्षत्रयीं पूर्वमेवाऽऽवेदिता । प्राप्तानुकूलसामग्या वर्षद्वयीपूर्वं वयं ग्रन्थस्याऽस्य संशोधन-संपादनक्रियामारब्धवन्तः । बहुलश्रमेण सा साम्प्रतं सफलीभूता ।
अस्या वृत्त्याः पूर्वप्रकाशनं खिष्टीय १९४० तमे संवत्सरे संजातम् । वर्तमानेऽनेहसि ज्ञानागारेष्वपि प्रायोऽनुपलब्धिः, उपलब्धप्रतीनामपि भङ्गुरप्राया दशा । अतोऽस्मत्कृतमेतत्प्रकाशनं सामयिकमावश्यकञ्चेति सुतरां संसिद्धिः ।।
पूर्व संस्करणे वृत्त्यास्तिरोलिखिता टिप्पणी पूर्वसम्पादकेन द्वेषजोभिराप्लावितोच्चारणद्वारा धूलिसात्कृता, साऽस्माभिर्भृशं संशोधिता निराधाराक्षेपप्रत्याक्षेपनिरासनेन मात्सर्यजन्यानां दोषारोपणकारिशब्दानां दूरीकरणेन च सुस्वच्छीकृता ।
अर्वाचीनमुद्रणशैल्या सवृत्ति-कादम्बर्याः पुनर्मुद्रणेऽप्येकं विनोदपदम् । काव्यमिदं कविद्वयेन समुद्भुतम्, वृत्तिरेषा महोपाध्यायद्वयेन विनिर्मिता, तदभूयोरत्र प्रकाशनं भागद्वयेन प्रस्ततम् ।
ग्रन्थस्याऽस्य प्रुफशोधनकर्मणि मद्गुरुदेवानां, समाधिधर्मज्योतिर्दण्डधराणा, दिवि संप्राप्तसंवासाना, पूज्यपादमुनिप्रवरश्रीभव्यवर्धनविजयमहाराज्ञा बाढं सहकर्म समुपलब्धम्, नाऽथ भगवतां तातपादानामत्र पार्थिवी समुपस्थितिः किन्तु दिव्यकृपापिण्डेन भवान् सदैव मे शिरोऽधियायी एवेति नितान्तं श्रद्दधे । यथा सकलकृत्यकलापमस्मिन्प्रस्तावेऽपि भवतां कृपाप्रसादी नः प्रति हर्षितमुखी संवेद्यते । अनन्ता अञ्जलयोभवच्चरणयोरनन्तं वन्दनं भवत्क्रमाम्बुजयोः ।
एवञ्च पूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां साम्राज्यवर्तिनीनां तथा प्रवर्तिनीपूज्यसाध्वीश्रीरोहितश्रियां शिष्यरत्ना-विद्यारुचिसाध्वीवर्याश्रीचन्दनबालाश्रियामपि यथावसरः सहकारः सम्प्राप्तः सोऽप्यवश्यमुल्लेखनीयः ।
प्रान्ते, काव्यजगत्सु मूर्धन्यभूतां कादम्बरी सवृत्तिं साधनग्रंथरूपेण स्वीकृत्वा जगतस्त्रयीणां मूर्धन्यभूतायाः द्वादशाङ्ग्या शरणाऽऽसन्ना भवतु भुवनत्रयीत्याकाङक्षामभिव्यनज्मि ।
- हितवर्धनविजयो मुनिः । कार्तिकशुक्ला पञ्चमी - वि.सं. २०६१ रत्नपुरी (रतलाम) मध्यप्रदेशः प्रान्तः ।