________________
शीघ्रगमनाय चन्द्रापीडं प्रार्थयत । निशि चन्द्रापीडः-पित्रादीननिवेद्य गमनं नोचितम् । आज्ञाग्रहणे तु इदानीमेव दिग्विजयप्रत्यागताय मे तौ गमनानुमतिं दास्यतो न वेति सदेह एव । वैशम्पायनोऽपि अच्छोदसरस्तटे त्यक्तः । कोऽधुना मे सहायकः' इति नानाचिन्तामकरोत् ।
प्रातः सहसा शुश्राव 'दशपुरं यावत्परागतः स्कन्धावारः' इति । ततश्चात्र प्रत्यागतेन वैशम्पायनेन सह कादम्बरीमनुसरिष्यामीति हृदि संतुतोष चन्द्रापीडः । केयूरकस्तु ‘याववैशम्पायनेन सह देवो हेमकूटाय प्रतिष्ठते ततः पूर्वं भवदागमननिवेदनाय विसर्जयतु मां देवः' इति गमनानुमतिं ययाचे । चन्द्रापीडस्तु स्वागमनप्रत्ययार्थं पत्रलेखामपि तेन सह पुरतो विससर्ज ।
चन्द्रापीडश्चिरवियुक्तस्य प्रियसुहृदो वैशम्पायनस्य मार्ग एव प्रत्युद्गमनाय पितृभ्यां शुकनासाच्चानुमतिमाचकाङ्क्ष । तारापीडश्चन्द्रापीडस्य यौवनारोहमालोक्य विवाहस्य प्रस्तावमाकलयन् शुकनासमुखेन प्रत्युद्गमनानुमतिं ददौ । अथ चन्द्रापीडस्तुरगसैन्यमादाय वैशम्पायनाभिमुखं प्रतस्थे । मार्गे च निजं स्कन्धावारमागच्छन्तमालोकयत् । सुहृद्दर्शनप्रत्याशया तत्र गतोपि शुश्राव यत् “वैशम्पायनोऽच्छोदसरस्तटे आगत्य सहसैव विकृतचित्तोऽभवत् । स्नानभोजनादिकं परित्यज्य लतामण्डपैकदत्तद्दष्टिरस्मान् गन्तुमाज्ञापयत । आगमनाय कृतानुरोधस्तु सोत्तेजनमवादीत्- 'नाहं गन्तुं शक्नोमि । न मे देहो मनो वा वशे । अत एव कुमारस्य कार्योपरोधहरणाय यूयं गच्छत इति । दिनत्रयं तत्सान्त्वनचेष्टायां निष्प्रत्याशाः संप्रति वयं तत्प्रबन्धं तत्रैव विधाय कुमारसूचनाय परावृत्ताः स्मः" इति ।
कथमकस्मादिदं तस्य चित्तवैकृत्यमभूदिति विषण्णचित्तो बहुधा विकल्पयँस्तुरङ्गसैन्येनोज्जयिनी पराववृते कुमारः । तारापीडो वैशम्पायनवैराग्ये चन्द्रापीडस्य कञ्चिदपराधमाशशङ्के, किन्तु शुकनासः सर्वमिदमपममार्ज । परतस्तु - वैशम्पायनानयनाय अच्छोदतटे गमनानुज्ञामयाचच्चन्द्रापीडः । प्रवासाय प्रेषयन्ती माता हृदयेऽभूतपूर्वं विषादमकस्मादनुभूय अतिशीघ्रमागन्तुमाज्ञाप्य यथाकथंचिद्विससर्ज । मनसि नानामनोरथानावर्तयश्चन्द्रापीडो मार्गे यात्राविघ्नकरं प्रावृटकालं यापयामास । त्रिभागमात्रावशिष्टे चाध्वनि अच्छोदात्परावर्तमान मेघनादम् (सेनाध्यक्षम्) अलोकयत् । उत्कण्ठितेन चन्द्रापीडेन-'अच्छोदसरस्तटे द्दष्टस्त्वया वैशम्पायनः ? ' इति पृष्टः सेनाध्यक्षो व्यजिज्ञपत् - 'अच्छोदसरःसमीपे वैशम्पायनागमनस्य कथैव न श्रुता मया । विशेषतश्च पत्रलेखाकेयूरकाभ्यामहमुज्जयिनी विसर्जितो यत्त्वरितमागमनाय कृतप्रतिज्ञोऽपि कुमारः प्रावृष्यस्यां न राजदम्पतिभ्यां प्रेषितः । तत्तवानुपदमावामप्यागतावेव' इति ।।
चन्द्रापीडस्तु विरहविकलायाः कादम्बर्याः का दशा स्यादस्यां प्रावृषि, इति नानाविचारसंतप्तो यथाकथंचिदच्छोदमासाद्य तत्र च सर्वतो विचिन्वन्नपि वैशम्पायनमनासाद्य तद्वृत्तान्तोपलम्भाशया महाश्वेतामुपजगाम । तत्र च तरलिकया यथाकथंचिदवस्थाप्यमानशरीरामतिविकलां तां ददर्श । 'हन्त न किञ्चिदनिष्टं स्याद्देव्याः कादम्बर्याःइति मनसि विषीदन्कुमारो वैकल्यस्य कारणं पप्रच्छ । गद्गदकण्ठा सा जगाद - "महाभाग, मन्दभाग्याहं हेमकूटायावदिह परावृत्ता तावदेव भवत्तुल्याकृतिमेकं ब्राह्मणयुवानं प्रनष्टमिव किञ्चिद्विचिन्वन्तमितस्ततो व्यलोकयम् । स तु मां दृष्ट्वैव परिचित इव स्निग्धया दृष्टया विलोकयन्, भूयसा निवार्यमाणोऽपि चाटूनि वदन् कामातेन मुहुरभ्यसरत् । अहं तु तमनभिवीक्ष्यैवोपेक्षयाऽन्यतोऽगच्छम् । अथैकदा ज्योत्स्नापूरप्लावितायां गाढयामिन्यां सर्वेषु सुप्तेषु निभृतपदसंचारी, मदनाविष्टतया युक्तायुक्तविचार-शून्योसौ मामागत्य - ‘चन्द्रमुखि ! हन्तुमुद्यतो मामेष कुसुमशरसहायश्चन्द्रमाः । तत्त्वां शरणमागतोऽस्मि' इत्यादि शुक इव नाना प्रलपन् मुहुर्निवार्यमाणोऽपि यदा न व्यरमत्तदा प्रियतमशोकोद्दीप्तमन्युश्चन्द्राभिमुखी भूत्वा । 'सकलभुवनचूडामणे ! यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति न मनागप्यपरः पुमाश्चिन्तितस्तर्हि शुक इव परप्रणोदितं जल्पनयं तस्यामेव जातौ पततु' इत्यशपम् । स तु मद्वचनानन्तरमेव छिनमूलस्तरुरिवाचेतनः क्षितावपतत् ।
एतदाकण्येव कादम्बरीविरहदुःखेन पूर्वमेव भेदोन्मुखं चन्द्रापीडस्य हृदयं सहसाऽस्फुटत् । अनेनानर्थेन हा किमिदमिति मुक्ताक्रन्दायां तरलिकायाम्, स्तब्धदृष्टिनिश्चेष्टायां महाचेतायाम्, नानविधं विलपत्सु चन्द्रापीडपरिजनेषु, केयूरकाच्चन्द्रापीडागमनमाकर्ण्य तदर्शनोत्कलिकावगृहीता कादम्बरी पत्रलेखाहस्तावलम्बिनी तत्रैवाजगाम । सा तून्मुक्तजीवितं तमालोक्य निश्चलस्तब्धदृष्टिर्न व्यलपन्न रुरोद अनुमरणाय कृताध्यवसाया सा यावच्चन्द्रापीडचरणौ स्पृशति तावदेव तत्करस्पर्शादुच्छसत इव चन्द्रापीडदेहात्किमपि चन्द्रधवलं ज्योतिरुज्जगाम, अन्तरिक्षे .
कादम्बरीसारः ।।