________________
यमानमणिकर्णपूरः स्वयमारब्धमृदङ्गवायः संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासारशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदाचिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदालेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिवसमैनैषीत् । यथैव च दिवसमेवमारब्धविविधक्रीडापरिहासचतुरैः सुहृद्भिरूपेतो निशामनैषीत् ।
***********
गीतनृत्यवायत्रयं प्रेक्षणार्थे कृतं संगीतकमुच्यते तत्प्रसङ्गेन । तत्संबन्धेनेत्यर्थः । इतो राजानं विशेषयन्नाह - अनवरतेति । अनवरत निरन्तरं दोलायमानं कम्पमानं रत्नवलयं कङ्कणं यस्य स तथा । घर्घरिकेति । धर्धरिका वाद्यविशेषस्तस्या आस्फालनं वादनं तेन यः प्रकम्पश्चलनं तेन झणझणायमानो झणझणेति शब्दं कुर्वाणो मणिकर्णपूरो मणिखचितः कर्णालङ्कारो यस्य स तथा । स्वयमिति । स्वयमात्मनैवारब्धं विहितं मृदङ्गवद्वायं वादित्रे येन स तथा । उभयहस्ताभ्यां तद्वादनादिति भावः । पुनः कदाचित् । मृगयेति । मृगयाखेटकस्तस्या व्यापारेण व्या (पृत्या) । अविरलेति । अविरलमविच्छिन्नं विमुक्ताः क्षिप्ता ये शरा बाणास्तेषामासारो वेगेन वर्षस्तेन शून्यीकृतं काननं वनं येन स तथा । अत्र समग्रवनचारिव्यापादनं व्यङ्ग्यम् । आबद्धेति । आबद्धमारचितं विदग्धानां प्रेक्षावता मण्डलं येन स तथा । कदेति । काव्यं पूर्वव्यावर्णितस्वरूपं, प्रबन्धाः कथास्तेषां रचनेन ग्रथनेन । एतेन राज्ञोऽपि । पण्डितजनानुरागित्वं प्रेक्षावत्त्वं च सूचितम् । पुनः केन । शास्त्रेति । शास्त्राणां न्यायादीनामालापेनापृच्छनेन । 'आपृच्छालापः संभाषः' इति कोशः । पुनः केन । आख्यानकेति । आख्यानं व्यक्तकथा, आख्यायिका वासवदत्तादिका, इतिहासः पुरावृत्तम्, पुराणं मत्स्यादि, तेषामाकर्णनेन श्रवणेन । कदाचिदिति । आलेख्यं चित्रकर्म तस्य विनोदेन क्रीडयेत्यर्थः । पुनः केन । वीणयेति । वीणा विपञ्ची तद्वादनेन तच्छ्रवणेन चेत्यर्थः । पुनः केन । दर्शनेति । दर्शनार्थं विलोकनार्थमागताः प्राप्ता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रूषा पादसपर्या तया । पुनः केन । अक्षरेति । अक्षरस्य वर्णस्य च्युतिर्यत्र तदक्षरच्युतकम् । यथा - 'कुर्वन्दिवाकराश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥ इति । अत्र करेणुपदात्ककारच्युतौ द्वितीयार्थप्रतीतिः । मात्रायाश्च्युतिर्यत्र तन्मात्राच्यतकम् । यथा - 'मलस्थितिमधः कुर्वन्यात्रैर्जुष्टो गताक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥ इति । विटपदादिकारमात्राच्युतौ वटस्यार्थस्य प्रतीतिः । पद्यवर्णसंख्यया बिन्दुमात्रव्यवस्थापनेन तद्वर्णोपलब्धिः । बिन्दुमती यथा - गिळं एिं लिंगेः पुणः । ००१००० पुण०००००००ः ॥ इति एतत्पद्यं यथा - 'त्रिनयनचूडा रत्नं मित्रं सिन्धोः कुमुदतीबन्धुः । अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥ गूढो गुम्फश्चतुर्थः पादो यस्य तद्गूढचतुर्थपादं चित्रम् । एतदुदाहरणं विदग्धमुखमण्डनादवसेयम् । प्रहेलिका प्रवलिका । सा शाब्दी, आर्थी च । आद्योदाहरणं यथा - ‘पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृह गतः ॥' अत्र धेन्वा ऊना धेनूना तां धेनूनामिति विंशतेर्विशेषणेनार्थावगमः सुगमः । आर्थी यथा - 'जइ सासुआइ भणिआ पियवासधरमि दीवयं देसु । ता कीस मुद्धडमुही हिययंमि निवेसए दिठ्ठिम् ॥ एतेन सर्वदा मम हृदयान्तर्वर्तित्वेन मम हृदयमेव भर्तुर्वासगृहम् । तेन तत्र दीपककरणानहत्वमिति ज्ञापितम् । एतासां प्रदान समर्पणम् । आदिशब्दात्स्वात्मना तन्निर्माणं च तैः । अथ नृपं विशेषयन्नाह - वनितेति । वनितानां योषितां यः संभोग उपभोगस्तजनितं यत्सुखं सातं तस्मात्पराङ्मुखोऽनभिमुखः । सुहृद्भिः सज्जनैमित्रैर्वा परिवृतः परिवेष्टितः । यथैवेति । यथा येन प्रकारेण दिवसं -
१ संगीत. २ अनयत्. ३ चतुरः.
कादम्बरी।