________________
ङ्गिताकारवेदिभिः काव्यनाटकाख्यानकाख्यायिकालेख्यव्याख्यानादिक्रियानिपुणैरतिकठिनपीवरस्कन्धोरुबाहुभिरसकृदवदलितसमदरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकरसैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास । तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि रूपवतोऽपिसन्तानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीत्सत्यपि रूपविलासोपहसितरतिविभ्रमे लावण्यवति विनयवत्यैन्वयवति हृदयहारिणि चावरोधजने । स कदाचिदनवरतदोलायमानरत्नवलयो घर्घरिकास्फालनप्रकम्पझणझणा
**** *******
समयज्ञैः । अवसरज्ञैरिति यावत् । प्रभावेति । प्रभावो माहात्म्यं तेनानुरक्तान्यासक्तानि हृदयानि चेतांसि येषां ते तथा । अग्राम्येति । अग्राम्यो नागरिको य उपहासो नर्मवचोविलासस्तत्र कुशलैश्चतुरैः । 'कुशलश्चतुरोऽभिज्ञः -' इति कोशः । इङ्गितेति । इङ्गितं चेष्टाविशेषः । आकार आकृतिः तौ विदन्तीत्येवंशीलास्ते तथा तैः । काव्येति । काव्यं निपुणकविकर्म, अवस्थानुकृतिर्नाटकम्, आख्यानकानि चूर्णकानि, आख्यायिका वासवदत्तादिः, आलेख्यानि चित्रकर्माणि, व्याख्यानान्यर्थनिर्वचनानि, इत्यादिका याः क्रियाः कार्याणि तेषु निपुणैर्दक्षैः । ‘निष्णातो निपुणो दक्षः' इति कोशः । अतीति । अतिकठिना अतिकठोराः पीवराः पुष्टाः स्कन्धा बाहुशिरांस्युरवो विस्तीर्णा बाहवश्च येषां ते तथा तैः । असकृदिति । असकृन्निरन्तरमवदलिता मर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुद्विपपङ्क्तयस्ता एव पीठबन्धाः स्थलविशेषा यैस्ते तथा तैः । केसरीति । केसरिणां सिंहानां किशोरकैरिव बालैरिव । अत्र किशोरशब्दोऽल्पवयसि सामान्येन प्रयुक्तः । ‘किशोराऽल्पवया हयः' इति तु विशेषो ग्रन्थकृता नाश्रितः । विक्रमैरिति । विक्रम एव पराक्रम एवैको - द्वितीयो रसो येषां ते तथैवंविधैरपि । विनयेन प्रश्रयेण व्यवहारो व्यवहरणं विद्यते येषां ते तथा तैः । एतेन शक्तौ सत्यामपि विनयाधिक्यं सूचितम् । अन्ययस्तु प्रागेवोक्तः । तस्य चेति । तस्य राज्ञः प्रथमे वयसि वर्तमानस्यापि । अत्र वृद्धत्वापेक्षया वयसः प्राथम्यं ज्ञेयम् । अन्यथाग्रेतनेनान्वयानुपपत्तिः । एवंविधेऽवरोधजने सत्यपि सुरतसुखस्योपरि निधुवनसातस्योपरि द्वेष इव मत्सर इवासीद्बभूव । किं कुर्वतो राज्ञः । आकलयतः संभावयतः । किम् । स्त्रैणं स्त्रीसमूहम् । तदेव विशिनष्टि - लध्विति । लघु तुच्छा वृत्तिर्वर्तनं यस्य तत् । किमिव । तृणमिवं यवसमिव । एतेन तासामकिंचित्करत्वं सूचितम् । कया हेतुभूतया । अतीति । अतिशयेन विजेतुमिच्छुर्विजिगीषुस्तस्य भावस्तत्ता तया । तद्रसाक्षिप्तचेतस्कत्वेन कामोत्पत्तेरसंभवात् । पुनर्हेत्वन्तरं प्रतिपादयन्नाह - महेति । महासत्त्वमतिशा भावस्तत्ता तया । प्रायशो महासत्त्वस्य सिंहवत्स्वल्प एव कामः स्यात् । किंविशिष्टस्य राज्ञः । रूपवतोऽपि सौन्दर्यवतोऽपि । एतेन युवतिमनो ( न उ ) न्मादकत्वेऽपि तदभिलाषाभाव इति विभावनोक्तिः । अत्रापिशब्दो विरोधालङ्कारयोतनार्थः । एतादृशोऽपि विषयसुखोपरत इति विरोधः । पुनरेवं राजानं विशेषयन्नाह - संतानार्थिभिरिति । संतानमपत्यं तदेवार्थः प्रयोजनं विद्यते येषां ते तथा तैरमात्यैः सचिवैरपेक्षितस्यापि वाञ्छितस्यापि । एतेन सचिवानुकूल्यं दर्शितम् । अथावरोधजनं विशेषयन्नाह - रूपेति । रूपं सौन्दर्यम्, विलासा विलसनानि तैरूपहसिता हास्यास्पदीकृता रतेः कामस्त्रियो विभ्रमा भ्रूसमुद्भवा येन स तथा तस्मिन् । लावण्येति । लावण्यं लवणिमा तद्वति । विनयेति । विनयोऽभ्युत्थानादिरूपस्तद्युक्ते । एतेन तदानुकूल्यं सूचितम् । अन्वयेति । अन्वयो वंशः स विद्य तथा तस्मिन् । अत्रास्त्यर्थे वतुः । सुवंशज इत्यर्थः । अत्र प्रौढकुलोत्पन्नत्वेन रूपलावण्यातिशयत्वं व्यङ्ग्यम् । हृदयेति । हृदयस्य चित्तस्य हारिण्याक्षेपके । अनेन सर्वजनस्पृहणीयत्वं व्यङ्ग्यं सूचितम् । स कदाचिदिति । स राजा दिवसमनैषीन्निनायेति सर्वत्र संबध्यते । केन । कदेति । कदाचित्कस्मिंश्चित्प्रस्तावे ।
१ आख्यानकालेख्य २ अतिरूपवतोऽपि ३ अन्वयवत्यभिजनवति.
पूर्वभागः ।
13