________________
सिन्दूरसंध्यायमानसलिलयोन्मदकलहंसकुलकोलाहलमुखरीकृतकूलया वेत्रवत्या परिगता विदिशाभिधाना नगरी राजधान्यासीत् ।
स तस्यामवजिताशेषभुवनमण्डलतया विगतराज्यचिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुखहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचितनीतिशास्त्रनिर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः, समानवयोविद्यालङ्कारैरनेकमूर्धाभिषिक्तपार्थिवकुलोद्गतैरखिलकलाकलापालोचनकठोरमतिभिरतिप्रगल्भैः कालविद्भिः प्रभावानुरक्तहृदयैरग्राम्याँपहासकुशलैरि -
***********
तेषामास्फालनेनाघातेन जर्जरिताः क्षीणा ऊर्मिमालाः कल्लोलपङ्क्तयो यस्यां सा तथा तया । अत्र कुचानामतिकाठिन्यं व्यङ्ग्यम् । जलेति। जलं पानीयं तस्यावगाहनमवलोडनं तदर्थमागताः समायाता जयकुञ्जराः परदलदलनसमर्था हस्तिनस्तेषां कुम्भाः शिरःपिण्डाः तेषु शोभाकृयत्सिन्दूरं नागजं तेन संध्यायमानं संध्यावदाक्तं सलिलं जलं यस्याः सा तथा तया । उन्मदेति । उन्मदानां प्रबलमदानां कलहसानां कादम्बानां यानि कुलानि तेषां यः कोलाहलोऽनभिव्यक्तध्वनिस्तेन मुखरीकृतं प्रतिध्वनियुक्तं कूलं सैकतं यस्याः सा तथा तया । अत्र विस्तृतकमलस्वच्छपानीयादि व्यङ्ग्यम् । किमभिधाना राजधानीत्याशयेनाह विदिशेति । विदिशेत्यभिधानं यस्याः सा तथा ।
स तस्यामिति । तस्यां नगर्यां स राजातिचिरं बहुकालं प्रथम आये वयस्ववस्थायां सुखं सातं यथा स्यात्तथोवास वास चक्र इत्यन्वयः । अथ राजानं विशेषयन्नाह - विगतेति । विगतो दूरीभूतो यो राज्यचिन्ताभारस्तेन निवृतो निष्पन्नप्रयोजनः । तत्र हेतुमाहअवजितेति । अवजितानि स्वायत्तीकृतान्यशेषाणि समग्राणि भुवनमण्डलानि येन तस्य भावस्तत्ता तया । द्वीपेति । एकस्माद्वीपादन्ये द्वीपा द्वीपान्तराणि तेभ्य आगताः समायाता येऽनेके बहवो भूमिपाला राजानस्तेषां मौलयः किरीटानि शिरांसि वा तेषां मालाः सजः पङ्क्तयो वा ताभिर्लालित क्रीडितं चरणयुगलं पादयुग्मं यस्य स तथा । किं कुर्वन् । उद्बहनुत्पाटयन् (?) । किम् । भुवनभारं जगदीवधम् । केन । भुजेन बाहुना । किमिव वलयमिव बाहुभूषणमिव । कया । लीलया क्रीडया । स्वल्पप्रयासेनेत्यर्थः । किंविशिष्टः सः । परीति । परिवृतः । परिवेष्टितः । कैः । अमात्यैर्मन्त्रिभिः । 'अमात्यः सचिवो मन्त्री धीसखः' इति कोशः । किं कुर्वद्भिस्तैर्मन्त्रिभिः । उपहसद्भिपहासं कुर्वद्भिः । कम् । अमरगुरुमपि बृहस्पतिमपि । कया । प्रज्ञया बुद्ध्या । अथ मन्त्रिणो विशिनष्टि - अनेकेति । अनेके च ते कुलक्रमागताश्चानेककुलक्रमागताः । कुलपारम्यागतैर्न त्वाधुनिकरित्यर्थः । असकृदिति । असकृनिरन्तरमालोचितं निदिध्यासितं. यन्नीतिशास्त्रं नृपोचिताचारबोधको ग्रन्थस्तेन निर्मलानि स्वच्छानि मनांसि येषां ते तथा तैः । अलुब्धैरिति । अलुब्धः अलोलुपैः स्निग्धैर्वत्सलैः । 'स्निग्धस्तु वत्सलः' इति कोशः । प्रबुद्धैः पण्डितैः । पुनः किं कुर्वाणो नृपतिः । राजपुत्रैर्नृपतनयैः सह रममाणः क्रीडां कुर्वाणः । इतो राजपुत्रान्विशेषयन्नाह - आत्मन इति । आत्मनः स्वकीयस्य प्रतिबिम्बैरिव प्रतिच्छायैरिव । सर्वदा तदनुयायित्वात् । समानैरिति । समानाः सदृशाः वयोवस्थाविशेषाः, विद्याश्चतुर्दश प्रतीताः, अलङ्कारा विभूषणानि येषां ते तथा तैः । अनेकेति । अनेके सहसशो ये मूर्धाभिषिक्ताः कृताभिषेकाः पार्थिवा राजानस्तेषां कुलानि वंशास्तेभ्य उद्गतैः प्रभवैः । अखिलेति । अखिलाः समग्रा याः कला विज्ञानानि तासां कलापाः समुदायास्तेषां यदालोचनं विमर्शनं तेन कठोरा शास्त्रे दृढा मतिर्बुद्धिर्येषां ते तथा तैः । एतेन मन्त्रदाय सूचितम् । अतीति । अतिप्रगल्भैः प्रतिभान्वितैः । 'प्रगल्भः प्रतिभान्विते' इति कोशः । कालेति । कालविद्भिः -
१ मुखरित. २ वेत्रवत्या सत्या; वेत्रवत्या सरिता. ३ महिला. ४ च विजिता. ५ कुलोद्भूतैः. ६ प्रेमा, प्रेमभावा. ७ परिहास.
(12
कादम्बरी।