________________
छत्रेषु कनकदण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः, चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गाः, शशिकृपाणकवचेषु कलङ्काः, रतिकलहेषु दूतप्रेषेणानि, सार्यक्षेषु शून्यगृहा ने प्रजानामासन् । यस्य च परलोकाद्भयम्, अन्तःपुरिकाकुन्तलेषु भङ्गः, नूपुरेषु मुखरता, विवाहेषु कैरग्रहणम्, अनवरतमखाग्निधूमेनाश्रुपातः, तुरङ्गेषु कशाभिधातः, मकरध्वजे चापध्वनिर्रभूत्
तस्य च राज्ञः कलिकालभयपुञ्जीभूतकृतयुगानुकारिणी, त्रिभुवनप्रसवभूमिरिव विस्तीर्णा, मज्जन्मालवविलासिनीकुचतटास्फालनजर्जरितोर्मिमालया जलावगाहनागतजयकुञ्जरकुम्भ
***********
नान्यत्र । अपराधाभावात् । शास्त्रेष्विति । शास्त्रेषु सिद्धान्तेषु चिन्ता चिन्तनम् । नान्यत्र । समग्रवस्तुनः सद्भावात् । स्वप्नेष्विति । स्वप्नदशायां विप्रलम्भा वियोगाः । नान्यत्र । पुरुषायुषजीवित्वाज्जनस्येति भावः । छत्रेष्विति । छत्रेष्वातपत्रेषु कनकदण्डाः सुवर्णयष्टयः। नान्यत्र । कनकदण्डाः दण्डेन सुवर्णग्रहणम् । स्वस्वमार्गानतिक्रमेण तासां प्रवर्तनात् । ध्वजेष्विति । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षेण वेल्लनम् । नान्यत्र । भीतेरभावात् । गीतेष्विति । गीतेषु गानेषु रागा वसन्तादयः शास्त्रीयाः देशीया धनाश्रीप्रभृतयस्तेषां विलसितानि चेष्टितानि । नान्यत्र रागाः । क्रोधादयस्तेषां विलसितानि हननादिरूपाणि । तादृग्रागद्वेषाभावात् । करिष्विति । करिषु हस्तिषु मदो दानं तस्य विकारा विकृतयः । नान्यत्र मदोऽहंकारस्तस्य विकारास्तत्तद्विचेष्टितानि । मदो रागस्तस्य विकारा इति वा । सर्व गुरुवचनामृतास्वादमेदुरितमानसत्वात् । चापेष्विति । चापेषु धनुःषु गुणस्य ज्यारूपस्य छेदः त्रुटनम् । नान्यत्र गुणस्य शौर्यादिर्विच्छेदः । सर्वदा 'सदाचारित्वात् । गवाक्षेष्विति । गवाक्षेषु वातायनेषु जालामार्गा वातागमनहेतवो जालिकाः । नान्यत्र कुवेणीस्थापनपन्थानः । सर्वदाऽभयदानप्रवृत्तत्वात् । शशीति । शशी चन्द्रः, कृपाणं खड्गम्, कवचः संनाहः, एतेषां द्वन्द्वः । एषु कलङ्काश्चिह्नानि । नान्यत्र कुलमालिन्यादिहेतवो व्यभिचारादिदोषाः । रतिकलहेष्विति । रतिकलहेषु कामकेलिषु विग्रहेषु दूतप्रेषणानि संचारकगमनानि । नान्यत्र । सर्वदा प्रबंलविरोधिनोऽभावात् । सार्यक्षेष्विति । सारयः खेलिन्यः, अक्षाः पाशकाः, तेषु शून्यगृहाः शून्यस्थानानि । नान्यत्रोद्वसवगृहाणि । राजदेयद्रव्यजनितपीडाभावात् । यस्य चेति । यस्य राज्ञः । अभूदिति क्रिययान्वितम् । कर्मीभूतमाह - भयमिति । परलोकादेव जन्मान्तरादेव तत् । न तु शत्रुलोकात् । तथा यस्य राज्ञः । अन्तःपुरे भवा आन्तःपुरिकाः । भवार्थे ठक् । तासां नायिकानां कुन्तलेषु केशेषु भङ्गो वक्रता । नान्यत्र । तथा नूपुरेषु हंसकेषु मुखरतानुरणनरूपा । न तु प्रजासु मौखर्यं वाचालत्वम् । विवाहेष्विति । विवाहेषूपयामेषु करग्रहणं हस्तग्रहणम् । न तु प्रजासु करो राजदेयद्रव्यं तद्ग्रहः । अनवरतेति । अनवरतं निरन्तरं मखाग्निधूमेन यज्ञाग्निधूमेनाश्रुपातो नेत्रजलच्युतिः । न तु शोकादिना । तुरङ्गेति । तुरङ्गेष्वश्वेषु कशा चर्मदण्डस्तस्याभिघातः प्रहारः । नान्यत्र । मकर इति । मकरध्वजे कंदर्पे चापस्य धनुषो ध्वनिः । अन्यत्र न भयाभावात्तदारोपणमिति भावः ।
तस्येति । तस्य च राज्ञो राजधान्यासीदित्यन्वयः । तां विशेषयन्नाह - कलीति । कलिकालाद्यद्भयं त्रासस्तस्मात्पुञ्जीभूतं समुदायीभूतं यत्कृतयुगं सत्ययुगं तदनुकरोतीत्येवंशीला या सा । विस्तीर्णेति । विस्तीर्णा विपुला । केव । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य प्रसवभूमिरुत्पत्तिस्थलं धरित्री तद्वदिव । परीति । परिगता संगता। कया । वेत्रवत्या नद्या । अथ नदीं विशिनष्टिमज्जन्निति । मज्जन्त्यः स्नान्त्यो या मालवविलासिन्योऽवन्तिकामिन्यस्तासां यानि कुचतटानि पयोधरस्थलानि -
-
१ संप्रेषणानि. २ प्रजानां. ३ यस्यान्तःपुरिका. ४ अलकेषु. ५ करपीडनम्. ६ अनवरतप्रवृत्त. ७ तुरगेषु. ८ उदभूत्. ९ अनुसारिणी. १० आयात; अवतारित.
पूर्वभागः ।
11