________________
सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य च मदकलकरिकुम्भपीटपाटनं विद॑धतो लग्नस्थूलमुक्ताफलेन दृढमुष्टिनिष्पीडैनान्निष्ठ्यूतधारार्जेलबिन्दुदन्तुरेणेव कृपाणेनाकृष्यमाणा, सुभटोरःकपाटविर्घटितकवचसहस्रान्धकारमध्यवर्तिनी करिकैरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीप सँकृर्दगाद्राजलक्ष्मीः । यस्य च हृदिस्थितानपि भर्तृन्दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनितदाघो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति पौलयति महीं चित्रकर्मसु वर्णसंकराः, रतेषु केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु विप्रलम्भाः,
***********
चन्द्रेण । तदनुकारित्वाज्जनाह्लादकत्वाच्च । बले सामर्थ्ये मरुता वायुना । अतिबलत्वात् । तथा प्रज्ञायां प्रतिभायां सुरगुरुणा वृहस्पतिना । निःप्रतिमप्रतिभावत्त्वात् । एवंरूपे सौन्दर्ये मनसिजेन कामेन । मानिनीमानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य । सर्वेति । सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति सूत्र आदिशब्दात्स्वरूपार्थेऽपि मयग्रहस्तस्य । प्रकटितेति । प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपाकृतिराकारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः समरनिशासु सङ्ग्रामरात्रिषु राजलक्ष्मीर्वैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव समीपं संनिधिमगादागतवती । सकृदित्येकवारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत् आचरतः । किम् । मदेति । मदेन दानवारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरः पिण्डफलकं तस्य पाटनं विदारणम् । अर्थाद्वैरिणामित्यर्थः । पुना राजलक्ष्मीं विशेषयन्नाह - आकृष्येति । आकृष्यमाणा समन्ताद् गृह्यमाणा । केन । कृपाणेन खड्गेन । इतः खड्गं विशिनष्टिलग्नेति । लग्नानि संबद्धानि स्थूलानि स्थविष्ठानि गजसंबन्धीनि मुक्ताफलानि रसोद्भवानि यस्य स तथा तेन । दृढेति । दृढमुष्ट्या यन्निपीडनम् । अत्र दार्ढ्यमात्रविवक्षया न पुंवद्भावनिषेधः । तस्मान्निष्ठ्यूतं निर्गतं धारैव जलमिति रूपकं तस्य ये विन्दवः पृषताः तैरेव दन्तुरेणोदग्रदशनेनेत्युपमा । 'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषामुरांस्येव कपाटा तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यसादृश्यादन्धकारस्तमिसं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह - करीति । करिणां गजानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्षस्तेन दुर्दिनं मेघजं तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्डजं तेजस्तदेवानलो वह्निर्दिवानिशमहोरात्रं जज्वाल प्रदीप्तोबभूव । किं कर्तुमिच्छुरिव । भर्तृन् दिधक्षुरिव दग्धुमिच्छुरिव । किंविशिष्टान्भर्तृन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोक्तं प्रतापानलं विशिनष्टि - अन्तरिति । अन्तर्मध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । तासाम् । रिपुसुन्दरीणां शत्रुवनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि पूर्वमेव भर्तृव्यापादनात् । एतेन हृदयान्तर्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् । पुनस्तदाधिक्यं वर्णयन्नाह यस्मिंश्चेति । यस्मिन्राजनि जितजगति निर्जितविष्टपे महीं पृथ्वीं पालयति शासति सत्येतानि वस्तून्येतेषु स्थलेष्वासन्वभूवुः । न प्रजानामित्यन्वयः । तान्येवाह - चित्रेत्यादि । चित्रकर्मस्वालेख्यक्रियासु वर्णा रक्तपीतादयस्तेषां संकराः परस्परसंबन्धाः । चित्रकर्मणि सुवर्णसंकरा इति वा । सुवर्णमिश्रालेख्यानीत्यर्थः । द्वितीयपक्षे वर्णा ब्राह्मणादयस्तेषां संकराः । अन्यतोऽन्योत्पत्तिरित्यर्थः । रतेष्विति । रतेषु मैथुनेषु केशग्रहाः । नान्यत्र कलहेषु । तदभावात् । काव्येष्विति । काव्येषु कविकर्मसु दृढबन्धाः कठिनबन्धाः ।
१ आचरतो; आचरता. २ दृष्ट. ३ निःपीडन. ४ जलदन्तुरेण. ५ घटित. ६ करटतट; करतट. ७ असकृत्. ८ आजगाम. ९ हृदय. १० पतीन्. ११ धक्षु. १२ दाहो. १३ परिपालयति. १४ चिन्ताः.
10
कादम्बरी |