________________
यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरेयः साहसिकानाम्, अग्रणीर्विदग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितारांतिकुलाचलो राजा शूद्रको नाम ।
नाम्नैव यो निर्भिन्नारातिहृदयो विरचितनारसिंहरूपाडम्बरम्, एकविक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितभुवनत्रयं च जहासेव वासुदेवम् । अतिचिरकाललग्नमतिक्रान्तकुनृपतिसहससंपर्ककलङ्कमिव क्षालयन्ती यस्य विमले कृपाधाराजले चिरमुवास राजलक्ष्मीः । यच मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि -
***********
शत्रुलोकस्योत्पातकेतुधूमकेतुः । प्रवर्तयितेति । गोष्ठीबन्धानां मधुरकथानां प्रवर्तयिता प्रवर्तकः । आश्रय इति । रसिकानां रसवेतृणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां सत्त्ववतां मध्ये धौरेयो धुर्यः । अग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीमुख्यः । वैनतेय इति । विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि विनतायाः स्वमातुः प्रमोदकृत्स्यादित्युभयोः साम्यम् । वैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वताः क्षेत्रसीमावर्तिपर्वताः येन स तथा । क इव । वैन्य इव पृथुराज इव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेषं पूर्ववत् । पृथुना पूर्व पर्वताकीर्णां धरित्री विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम् ।
नाम्नेति । यः शूद्रको वासुदेवं श्रीकृष्णं जहासेव हास्यं चकारेव । कथम्भूतः । नाम्नैवाभिधानश्रवणमात्रेणैव निर्भिवानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा । कीदृशं वासुदेवम् । विरचितेति । विरचितो विहितो नारसिंहरूपलक्षण एवाडम्बर आटोपो येन स तथा तम् । एकेति । एकनाद्वितीयेन विक्रमेण पराक्रमेणाक्रान्तं व्याप्तं सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथम्भूतं वासुदेवम् । विक्रमेति । विक्रमः पादविक्षेपस्तस्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं स्थितम् । अत्रायं भावः - अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदारणे नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्वं जगदाक्रान्तम् । वासुदेवन भुवनाक्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खड्गधारारूपे जले चिरं बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चक्रे । खड्गबलाल्लक्षीः स्ववशीकृतेति भावः । किं कुर्वतीव । क्षालयन्तीव प्रमार्जयन्तीव । कम् । अतीति । अतिचिरकालो भूयानतीतः समयस्तेन लग्नं जातम् । पुनः । कीदृशम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्यनरपतयस्तेषां सहसं तेन संपर्कः संबन्धस्तेन यः कलङ्कोऽभिज्ञानम् । अन्योऽपि पङ्कादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शूद्रको भगवतो नारायणस्यानुकरोति । तत्तुल्यतां भजतीत्यर्थः । तदेव दर्शयति - मनसि धर्मेणेत्यादि । अत्र वसतेति वसतापदस्य सर्वत्रान्चयो यथालिङ्गम् । मनसि स्वान्ते धर्मेण वृषेण वसता वासं कुर्वता । सदैव धर्मचिन्तनात् । कोपे क्रोधे यमेन कृतान्तेन । तत्कालमेव सापराधिना प्राणहरणात् । तथा प्रसादे प्रसन्नतायां धनदेन श्रीदेन । सेवाकृत्समीहिताधिकप्रदानात् । प्रतापे पूर्वोक्तलक्षणे वह्निनाग्निना । समग्रशत्रुदाहकत्वात् । भुजे बाहौ भुवा पृथिव्या । राज्यभारक्षमत्वात् । दृशि चक्षुषि श्रिया लक्ष्म्या । सप्रीतिनिरीक्षणमात्रेणैव तत्संभवात् । वाचि वचने सरस्वत्या भारत्या । अनवरतगद्यपद्यायनेकप्रबन्धविधानात् । मुखे वदने शशिना -
१ पृथु. २ सकलाराति. ३ नरसिंह. ४ हसति स्मेव.
पूर्वभागः ।