SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसोपंजायमानोदयः, मेरुरिव संकलोपजीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानार्दीकृतकरः, कर्ता महाश्चर्याणाम्, आहर्ता ऋतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगमः काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त - *********** भौमस्तस्य यानि लक्षणानि सामुद्रिकशास्त्रप्रतिपादितानि तैरुपेतः सहितः । पुनस्तमेव विशेषयन्नाह-चक्रधर इति । करकमले हस्तपद्म उपलक्ष्यमाणं दृश्यमानं शङ्खचक्राकारं च रेखोपरेखास्वरूपं लाञ्छनं चिह्न यस्य स तथा । क इव । चक्रधर इव विष्णुरिव । सोऽपि शङ्खचक्रायुधलाञ्छितकरः स्यादित्युपमानोपमेयभावः । हर इवेति । जितो निर्जितो मन्मथजनकत्वान्मन्मथानीन्द्रियाणि येन स तथा । क इव । हर इव शंभुरिव । सोऽपि जितमन्मथः स्यादित्युभयोः साम्यम् । गृह इवेति । अप्रतिहताऽकुण्ठिता शक्तिः सामर्थ्य यस्येति स तथा । क इव । गुह इव कार्तिकेय इव । सोऽप्यप्रतिहतशक्तिः स्यादित्युभयोः साम्यम् । एतत्यक्षे शक्तिरस्त्रविशेषः । अत एव 'पाण्मातुरः शक्तिधरः' इत्यमरः । विगतेति । विगतो मानो दर्पो यस्य तद्विमानं तथा कृतं राजहंसानां श्रेष्ठनृपाणां मण्डलं वृन्दं येन स तथा । क इव । कमलयोनिरिव विधातेव । एतत्पक्षे विमानं देवयानं तत्स्वरूपीकृतं राजहंसानां पक्षिविशेषाणां मण्डलं येन स तथा । हंसाधिरूढत्वादिति भावः । 'देवयानं विमानं स्यात्' इत्यमरः । 'राजहंसास्तु ते चञ्चुचरणैरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभ वा । 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा । क इव । जलधिरिव समुद्र इव । सोऽपि लक्ष्म्या रमायाः शोभाया वोत्पत्तिस्थानं समद्रमथनादेव तन्निर्गमात । तथा च जगद्विभषितमिति शोभाजनकत्वमिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः पितॄणामुद्धारस्तत्र प्रवृत्तो लग्नः । क इव । गङ्गाप्रवाह इव स्वधुनीरय इव । सोऽपि भगीरथपथप्रवृत्तः स्यात्तदनुयायित्वादित्युभयोः साम्यम् । रविरिति । प्रतिदिवसं प्रत्यहम् उपजायमान उत्पद्यमान उदयः संपत्तेरुद्रेको यस्य स तथा । क इव । रविरिव भानुरिव । सोऽपि निरन्तरमुदयाचलाज्जायमानोद्गमः स्यादित्युपमा । मेरुरिति । सकलैः समोराल्लोकैरुपजीव्यमाना सेव्या पादच्छाया कान्तिर्यस्य स तथा । क इव । मेरुरिव स्वर्णाद्रिरिव । स कथंभूतः । सकलैरर्थाद्देवैः । अन्येषां तत्र प्रवेशाभावात् । उपजीव्याः पादाः प्रत्यन्तपर्वतास्तेषां छायाऽऽतपाभावो यस्य स तथा । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दिग्गज इति । अनवरतं निरन्तरं प्रवृत्तं कृतं यद्दानं जलसहितं देयद्रव्यं तेनार्दीकृतः स्तिमितः करो हस्तो यस्य स तथा । क इव । दिग्गज इव दिङ्नाग इव । एतत्पक्षे निरन्तरप्रवृत्तं प्रचलितं यद्दानं मदः । 'मदो दानं प्रवृत्तिश्च' इति कोशः । तेन स्तिमितः करः शुण्डादण्डो यस्य स तथेत्युपमा । कर्तेति । महाश्चर्याण्यनन्यकृतयुद्धादीनि तेषां कर्ता निष्पादकः । आहर्तेति । क्रतूनां यज्ञानामाहर्ता कारकः । आदर्श इति । सर्वशास्त्राणां समग्रवाङ्मयानामादर्शो मुकुरः । तत्र तेषां प्रतिबिम्बितत्वादिति भावः । उत्पत्तिरिति । कलानामिति द्विसप्ततिप्रमिता याः कलाः शिल्पादिरूपास्तासामुत्पत्तिर्जन्मभूः । गुणानामिति । गुणा गाम्भीर्यादयस्तेषां कुलभवनं परम्परास्थानम् । आगम इति । काव्यामृतेति । काव्यं कविकर्म तत्संबन्धिनो येऽमृतरसास्तेषामागम उद्गमरूपः । उदयेति । मित्राणि सुहृदस्तेषां मण्डलं समुदायस्तस्योदयशैलोऽभ्युनतेः स्थानम् । पक्षे मित्रमण्डलस्य सूर्यबिम्बस्योदयशैल उदयाचलः । उत्पातेति । अहितजनस्य - १ 'पचीयमानो'. २ 'सकलभुवनो'; 'सकलभुवनतलो'. ३ 'बृहस्पतिरिव सकलशास्त्रार्थतत्त्वज्ञः, दिग्गज'. (8 कादम्बरी ।
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy