________________
सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः । यशोऽशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत ॥१९॥
द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा ॥२०॥
आसीदशेषनरपतिशिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, चक्रवर्तिलक्षणोपेतः, चक्रघर -
***********
लीके ललाटदेशेऽलकभङ्गतामलकाचर्णकुन्तलास्तेषां भङ्गो रचनाविशेषस्तस्य भावस्तां गतः प्राप्तः । एतेनाजसं क्रतुसमूहविधानेन धूमस्य दिगन्तव्यापित्वं सूचितमिति । पुनः किंविशिष्टः । त्रयीति । त्रयी वेदत्रयी सैव वधूस्तस्याः कर्णे श्रोत्रे तमालपल्लव इव तमालपल्लवः । श्यामत्वसाधात्तमालकिसलयेनोपमानम ॥१८॥
सरस्वतीति । ततश्चित्रभानोर्बाण इति बाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किंविशिष्टात्ततः । सरस्वतीति । सरस्वत्या भारत्याः पाणिसरोजसंपुटेन हस्तकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोञ्छितं होमादिकर्मसंबन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्वेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति । यशसः कीर्तेरंशवो दीप्तयस्तैः शुक्लीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स तथा तस्मात् । 'विष्टपं भवनं जगत् इत्यमरः ॥१९॥
द्विजेनेति । इदानीं बाणः कथां चिकीर्षुरतितीक्ष्णबुद्धिरप्यहंकारं निराकुर्वनाह-तेनेति । तेन वाणेन द्विजेनेयं कादम्बरीरूपा कथा धिया बुद्ध्यैव निबद्धा ग्रथिता । पूर्वं बुद्ध्यारूढीकृत्य पश्चाल्लिखितेति भावः । समुद्रसमकादम्बरीकथोपबन्धने धियः सामर्थ्यं ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्द्यमेवारोपयति-अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्यं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि कुण्ठिता किमुत सभायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता तेन मलीमसा मलिना चासावन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैदग्ध्यविलासश्चातुर्यलीला तेन मुग्धाऽप्रगल्भा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषणबलाद्बुद्धेरतितीक्ष्णत्वं फलितम् । द्वयीं बृहत्कथां वासवदत्तां चातिक्रान्तेत्यर्थः ॥२०॥
"प्रसिद्धो वापि वर्ण्यः स्यान्महिपालोऽथवा.........................॥ दशरूपकेऽपि 'प्रख्यातोत्पाद्यमिश्रत्वभेदात्रेधापि तनिधा । प्रख्यातमितिहासादेरुत्पाद्य कविकल्पितम् । मिश्रं च संकरात्' इत्यादेरुक्तभेदानां काव्यनाटकचम्पूनां मध्ये 'गद्यपद्यमयी चम्पूर्विधा श्लेषवती च या । राजवर्णनमादौ स्यानगरीवर्णनं ततः । तया चामुकमन्यस्मिन्न तु तन्नृषु कुत्रचित् ॥ यथा- 'शूलुसंबन्धो देवतायतनेषु न नृषु' इति नलचम्वाम् । तथात्रैवाग्रे 'चित्रकर्मसु वर्णसंकरो न मनुष्येषु' इत्यादिचम्पूलक्षणयुक्तां कादम्बरीसंज्ञिका कथामारचयतिआसीदिति । शूद्रको नाम राजासीदिति दूरेणान्वयः । अथ राजानं विशेषयन्नाह-अशेषेति । अशेषाः समग्रा ये नरपतयो राजानस्तेषां शिरांस्युत्तमाङ्गानि तैः समभ्यर्चित सादरतया गृहीतं शासनमाज्ञा यस्य स तथा । सर्वेषामाज्ञापको न त्वाज्ञाकरः । अत एवापरो भिन्नः पाकशासन इव । इन्द्रसाम्यम् । चतुरिति । चत्वारश्च त उदधयश्च चतुरुदधयस्तेषां माला पङ्क्तिः सैव मेखलावधिर्यस्यास्तादृश्या भुवः पृथिव्या भर्ता नायकः । प्रताप इति । प्रतापः कोशदण्डज तेजः, अनुरागः स्नेहः ताभ्यामवनतं नम्रीभूतं समस्तं समग्र सामन्तचक्र सामन्तमण्डलं स्वदेशपर्यन्तवर्ति राजचक्रं यस्य तथा । अन्यदपि लोहचक्रमग्निप्रतापादवनतं भवतीति ध्वन्यते । चक्रेति । चक्रवर्ती सार्व
पूर्वभागः ।