________________
चामरग्राहिणीनां कमलमधुपानमत्तजरत्कलहंसनादर्जेर्जरितेन पदेपदे रणितमणीनां मणीनूपुराणां निनादेन, वारविलासिनीजनस्य संचरतो जघनस्थलास्फालनरसितरत्नमालिकानां मणिमेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपानफलकानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रसनारसितोत्सुकितानां च तारतरविराविणामुल्लिख्यमार्नकांस्यक्रेङ्कारदीर्पण गृहसारसानां कूजितेन, सरभसप्रचलितसामन्तशतचरणतलाभिहतस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयतेव वसुमती ध्वनिना, प्रतीहारिणां च पुरः संसंभ्रमसमुत्सारितजनानां दण्डिनां समारब्धहेलमुच्चैरुच्चरतामौलोकयन्त्विति तारतरदीर्पण भ -
***********
न्यस्तं चामरं वालव्यजनं याभिरेतादृशीनां चामरग्राहिणीनां स्त्रीणाम् । संबन्धे षष्ठी : तासां मणिखचितानि नपुराणि पादकटकानि तेषाम् । अथ नूपुराणि विशेषयन्नाह - पदे पदे इति । पदे पदे प्रतिपदं रणिताः शब्दायमाना मणयो वैडूर्यादयो येषु तानि तेषां निनादेन तदुद्भवशब्देन । तमेव विशेषयन्नाह - कमलेति । कमलस्य नलिनस्य यन्मधु रसस्तस्य पानमास्वादस्तेन मत्ताः क्षीबा ये जरत्कलहंसाः कादम्बास्तेषां नादः शब्दस्तेन जर्जरितेन संभिन्नेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्वाणा रत्नमालिका मणिसजो यास्वेविधानां मणिमेखलानां रत्नखचितकाञ्चीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन । पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धवलितेति । धवलितानि शुभ्रीकृतान्यास्थानमण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि यैरेवंविधानां भवदीर्घिका गृहवाप्यस्तासां कलहंसा एव कलहंसकाः । स्वार्थे कः । तेषा कोलाहलेन कलकलेन । पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रोत्सुकिता उत्कण्ठितास्तेषाम् । चः समुच्चये । तारतरोऽत्यन्तोच्चस्तरो विरावः शब्दो विद्यते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन । शब्दितेन । कीदृशेन । उल्लिख्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य क्रेङ्कारोऽव्यक्तध्वनिस्तद्वद्दीपेणायतेन । 'कूजितं स्याद्विहङ्गानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः स्वदेशपर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैः पादतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थलस्य निर्घोषोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्वनिना । तदुत्थशब्देनेत्यर्थः । किं कुर्वता । वसुमती पृथ्वी कम्पयतेव क्षोभयतेव । पुनः केन । आलोकशब्देनालोक्यतामालोक्यतामित्येवरूपेण । केषाम् । प्रतिहारिणां द्वारपालकानाम् । अथ प्रतीहारिणो विशेषयनाह - पुर इति । पुरोऽग्रे ससंभ्रममनुपलक्षितस्वरूपं समुत्सारिता दूरीकृता जना लोका यैस्ते तथा तेषाम् । दण्डो विद्यते येषां ते दण्डिनस्तेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धकीडं यथा स्यात्तथा । उच्चैरित्यर्थः । उच्चरतां ब्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतारः शिरःसमुद्भवः शब्दस्तेन दीर्घेणायतेन ।
-
-
-
-
-
-
-
-
-
टिप्प० -1 वसुमती कम्पयता इव निर्घोषगम्भीरेण प्रतिध्वनिना गंभीरेण आस्थानमण्डपस्य ध्वनिना शब्देनेति व्याख्योचिता । 'गम्भीरेण पुष्टध्वनिना तदुत्थशब्देनेत्यर्थः' इति व्याख्या, 'ध्वनिना' इति विशेष्यरहितः पाठस्तु विचार्य एव विवेकिनाम् ।
पाटा० - १ मदमत्त. २ जर्जरण. ३ जधनस्थलस्थला. ४ मेखलानाम्. ५ उत्सुकानाम्. ६ काञ्ची. ७ निर्घात; निर्घातनिर्घोष. ८ वसुमती ध्वनिना. ९ प्रतिहाराणाम्. १० ससंभ्रमजनानाम्. ११ जानपदानाम्. १२ उच्चारयताम्. १३ आलोकयतेति. १४ तारदीर्पण.
(शूद्रकसभाविसर्जनम्
( पूर्वभागः ।