________________
रिवृत्तिः' इति । एवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमध्यारूढमावेदयन्नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य चे समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ ।
अथ चलति महीपतावन्योन्यमतिरभससंचलनचालिताङ्गदपत्रभङ्गमकरकोटिपाटितांशुकपटानाम्, आक्षेपदोलायमानर्कण्ठदाम्नाम्, अंसस्थलोल्लासितकुङ्कुमपटवासधूलिपटलपिञ्जरीकृतदिशाम्, आलोलमालतीपुष्पशेखरोत्पतदलिकदम्बकानाम्, अर्धावलम्बिभिः कर्णोत्पलैश्चुम्ब्यमानगण्डस्थलानाम् गमनप्रणामलालसानामहमहमिकया, वक्षःस्थलप्रेड्डोलितहारलतानाम्, उत्तिष्ठतामासीत्संभ्रमो महीपतीनाम् । इतश्चेतश्च निःपतन्तीनां स्कन्धावसक्तचामराणां -
***********
गजानामेव नान्येषामित्यन्यत्र विस्तरः । शुक इत्यविशदाक्षरत्वमिति । तस्मिन्निति । तस्मिन् कुमारपालित एवं पूर्वोक्तप्रकारेणोच्चारयत्येवोक्तवत्येव मध्याह्नशङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्पन्नोऽभूदित्यन्वयः । किं कुर्वन् । आवेदयज्ञापयन् । कम् । अम्बरतलस्य गगनतलस्य मध्यं मध्यप्रदेशमशिशिरकिरणं श्रीसूर्यमध्यारूढं प्राप्तम् । अथ ध्वनि विशेषयन्नाह - नाडिकेति । नाडिका घटिका तस्याश्छेदः परिसमाप्तिस्तस्यां प्रहतस्ताडितो यः पटुर्महान्पटहो दुन्दुभिस्तस्य नादो निनादस्तमनुसर्तुं शीलमस्येति स तथा । तमिति । तं ध्वनिमाकर्ण्य श्रुत्वा क्षितिपती राजाऽऽस्थानमण्डपादुत्तस्थावुत्थितो बभूव । राजानं विशिनष्टि - समासनेति । समासनो निकटवर्ती स्नानसमय आप्लवनसमयो यस्य स तथा । विसर्जित इति । विसर्जितो निवर्तितो राजलोकः सेवकजनो येन स तथा ।
अथेति । उत्थानान्तरं महीपतौ राज्ञि चलति सत्युत्तिष्ठतामुत्थानं कुर्वतां महीपतीनां संभ्रमः संमर्द आसीदित्यन्चयः । अथ महीपतीविशेषयन्नाह - अन्योन्येति । अन्योन्यं परस्परमतिरभसेनातिवेगेन संचलनं गमनं तेन चालितानि स्वस्थानात्प्रच्यावितानि यान्यङ्गदपत्राणि तेषां भङ्गस्त्रुटनं तस्य या मकरकोटिर्वक्रप्रदेशस्तेन पाटितानि छिन्नान्यंशुकानि गर्भसूत्रनिर्मितानि, पटाः सूत्रनिर्मिता येषु ते तथा तेषाम् । आक्षेपेति । आक्षेपः परस्परसंलग्नता तेन दोलायमानानि चञ्चलानि कण्ठदामानि निगरणबन्धनसजो येषां ते तथा तेषाम् । अंसेति । अंसस्थलेभ्यो भुजशिरःस्थलेभ्य उल्लासितान्युच्छसितानि यानि कुङ्कुमानि केसराणि पटवासः पिष्टातकश्च तयोधूलिपटल परागसमूहस्तेन पिञ्जरीकृताः पीतरक्तीकृता दिशः ककुभो यैस्ते तथा तेषाम् । आलोलेति । आलोलाश्चञ्चला ये मालतीपुष्पाणा जातीकुसुमानां शेखरा अवतंसास्तदुपरिष्टादुत्पतन्तो भ्रमन्तोऽलयो भ्रमरास्तेषां कदम्बकानि समूहा येषां ते तथा तेषाम् । अर्धेति । अर्धावलम्बिभिरर्धभागलग्नैः । एवंविधै कर्णोत्पलैः श्रवणन्यस्तनलिनैचुम्ब्यमानमाश्लिष्यमाणं गण्डस्थलं कपोलात्परो भागो येषां ते तथा तेषाम् । गमन इति । गमने व्रजने यो राज्ञः प्रणामो नमस्कारस्तत्र लालसानां कृतस्पृहाणाम् । कया । अहं शक्तोऽहं शक्त इत्यस्या साहमहमिका । मयरव्यंसकादित्वात्साधः । तया । वक्ष इति । वक्षःस्थले भजान्तरे प्रेडोलितास्तरलिता हारलता मक्ताफलस्रजो येषा ते तथा तेषाम् । ततश्चेति । तदा तस्मिन्समय आस्थानभवनं नृपोपवेशनस्थलं सर्वतः परितः क्षुभितमिव क्षोभं प्राप्तमिवाभवदभूदित्यन्चयः । केन । इतश्चेतश्च समर्दवशादितस्ततो भिन्नभिन्नप्रदेशे निःपतन्तीनां स्खलन्तीनां स्कन्धो भुजशिरस्तत्रावसक्त - - - - - - - - - - - - - - - - - - -
- - - - - - - - - - टिप्प० - 1 अङ्गदानां भुजभूषणानां ये पत्रभङ्गाः पत्ररचनाः (उत्किरणशिल्पचातुर्यम् 'जडाई) तासु ये मकराः (उत्कीर्णजलजन्तुविशेषाः तेषां कोट्या अग्रभागेन, इत्यर्थ उचितः । 2 कण्ठावलम्बितहारादिसजः । 3 अहं पूर्वमहं पूर्वमिति स्पर्धा, इत्युचितोऽर्थः ।
पाठा० - १ मध्यमारूढ. २ चासत्र. ३ पाटितानेकपटानाम्; पाटितांशुकानाम्. ४ मालतीकण्ठदाम्नाम्. ५ स्थलोल्लसित. ६ धूलिपिञ्जरित. ७ कुसुम. ८ प्रसरणसदालालसानाम्. ९ अतिमहान्सरम्भः. १० स्कन्धदेशावसक्त.
28
कादम्बरी ।
A कथामुखे