________________
मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि-अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या मामुद्दिश्य परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमैथुननिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं तु महच्चित्रम् इत्युक्तवति भूभुजि कुमारपालितः किंचिस्मितवदनोऽवादीत् - 'किमंत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो विह
ङ्गविशेषा यथाश्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यदेतेषामपि पुरा पुरुषाणामिवातिपरिस्फुटाभिधाना वागासीत् । अग्निशापात्त्वस्फुटालापता शुकानामुपजाता, कॅरिणां च जिह्वाप -
***********
सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः । तदेवाद्भुतं दर्शयति - तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्चीकृतो दक्षिणचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता । किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् । इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्का निराकुर्ववाह - किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन स्वानुभवोऽपि सूचितः । अत्रापि कारणान्तरसाचिव्यं दर्शयन्नाह - तत्रापीति । तत्रापि प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दाय॒मुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारणमस्तीत्याशयेनाह - अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्व प्राचीनपुरुषाणामिवातिपरिस्फुटमतिविशदमभिधानं नाम यस्यामेवंविधा वागासीत् । तु पुनरर्थे । अग्निशापादस्फुटालापता शुकादीनामुपजातेति स्पष्टम् । अत्रायं प्रवादः । छद्मना गृहीतरूपस्य वह्वेर्यादृशं संवादं श्रुतवाञ्छुकस्तथैवोक्तवानिति तं प्रति क्रुद्धेन वह्निना स शप्तः । करिणां हस्तिनां च जिह्वापरिवृत्तिः स्वभावजनितां तां दूरीकृत्य तत्स्थले तदितररसनायाः प्रक्षेपः । सा च - - - - - - - - - -
- - - - - - - - - - - -- टिप्प० - 1 पुरा तारकासुरपीडितैरमरैः प्रार्थितो ब्रा अग्निसकाशात्कार्तिकेयनामानं देवसेनानायक कुमारं प्राप्तुमादिदेश । अग्निमन्विष्यन्तो देवास्तु 'कुत्राग्निरिति' समीपगं करिणं पप्रच्छुः । 'अश्वत्थेन्तर्हितोग्निरिति स उवाच । अथाग्निनिष्क्रम्य 'तव जिह्वा प्रतीपा भविष्यति' इति करिणं शप्त्वा पुनरन्तर्हितः । ततोऽग्न्यर्थ देवैः पृष्टः शुकः शमीवृक्षेऽग्नि निर्दिदेश । ततोऽप्यभिव्यक्तो वह्निः 'तवाऽस्फुटा वाग भविष्यति' इति शुकमशपदिति महाभारतम् । 2 रसनाया जिह्वायाः परिवृत्तिर्विपरीतभावेनावस्थितिः 'जिह्वा प्रतीपा भविष्यति' इति शापवचने प्रतीपशब्दप्रयोगात् ।
पाटा० - १ संस्कारवती. २ वाक्प्रवृत्तिः. ३ एतेन. ४ अतिपरिस्फुटाक्षरम्. ५ निद्रामात्र. ६ नृपमवादीत्. ७ देव किमत्र. ८ विहङ्गम. ९ यथाश्रुतम्, १० तत्राप्यत्रान्य. ११ अन्यच्च. १२ स्फुटाक्षरा. १३ अपरिस्फुटा. १४ सारिकाणाम्.
(शुकप्रशसा)
पूर्वभागः ।