________________
अपसृते च तस्मिन्स विहङ्गराजो राजाभिमुखो भूत्वोन्नमय्य दक्षिणं चरणमतिस्पष्टवैर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यामिमां पपाठ
'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥१॥ राजा तु तामार्यां श्रुत्वा संजातविस्मयः सहर्षमासन्नवर्तिनम्, अतिमहार्घहमासनोपविष्टम्, अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, अतिवयसम्, अग्रजन्मानम्, अखिले मन्त्रिमण्डले प्रधानममात्यं कुमारपालितनामानमब्रवीत् - 'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता । प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसंकीर्णवर्णप्रविभागामभिव्यक्तमात्रानुस्वारसंस्कारयोगां विशेषसंयुक्तां गिरेमुदीरयति । तत्र पुनरपरमभिमतविषये तिरश्चोऽपि
***********
अपेति । तस्मिन्पुरुषेऽपसृते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणा राजा विहङ्गराजः । 'राजाहःसखिभ्यष्टच्' । राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरणं पादमुन्नमय्यो/कृत्य । शुकादीनां शब्दोच्चारणे तादृशोऽयं जातिस्वभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि स्वरा उदात्तादयस्तेषां संस्कारः परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्र शुकादीनामस्पष्टो वर्णस्तथाप्येतस्य स्पष्टो वर्ण इति विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स एवंविध इमामग्रे वक्ष्यमाणामापपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तनयुगं कुचयुग्मं व्रतमिव नियममिव चरत्यासेवते । तदेव विशिनष्टि - अश्विति । अश्रुभिर्नयनसलिलैः स्नातं कृतस्नानम् । समीपेति । समीपतरवर्ति संनिहितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्वह्निस्तस्य । विमुक्तस्त्यक्त आ समन्ताद्धारो येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ताहारः कृतस्नानोऽग्निसमीपस्थायी च स्यात् ॥२१॥ ___ राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वाकर्ण्य संजातविस्मयः समुत्पन्नाश्चर्यः सहर्षं सप्रमोदं यथा स्यात्तथासनवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममात्यं सचिवमब्रवीदवोचत् । अथामात्यं विशेषयन्नाह - अतीति । अतिमहाघमतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं स्थितम् । अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्यविवेकाविचेकप्रतिपादकानि तन्त्राणि तेषां पारगं रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिक वयो दिवसबाहुल्यं यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवर्णे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति । अखिले समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधान मुख्यम् । श्रुतेति । भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुकस्य वर्णाः कादयस्तेषामुच्चारणे वक्तव्यतायां स्पष्टताऽश्लिष्टता श्रुताकर्णिता । तथा स्वरे स्वरविषये मधुरता माधुर्यम् । चकारः पुनरर्थकः । प्रथममिति । प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् । अतिकौतूहलमित्यर्थः । तदेव दर्शयति - यदिति । यदयं गिरं वाणीमुदीरयत्युच्चरति । इतो वाणी विशेषयन्नाह - असंकीर्णेति । असंकीर्णः परस्परवैलक्षण्येन प्रतीयमानो वर्णानामक्षराणां प्रविभागो भिन्नता यस्यां सा तथा तम् । अभीति । मात्रा एकारादयः, अनुस्वारा अनुनासिकाः, संस्कारो व्याकरणशुद्धिः, अभिव्यक्ताः प्रकटाः एतेषां योगाः संबन्धा यस्यां सा तथा ताम् । विशेषेति । विशेषः शब्दश्लेषादिस्तेन संयुक्ता - टिप्प०- 1 विगतो मुक्ता(मौक्तिक हारो यस्मात्तत् । विमुक्त इत्यर्थस्य व्रतपक्षे गृहीतत्वेनात्राऽचमत्कारित्वात् । 2 परित्यक्तभोजन इत्यर्थः । 3 अवस्थे
-
-
-
--
-
-
--
-
-
-
-
-
-
-
-
-
-
-
--
-
-
-
त्याशयः ।
पाठा० - १ तस्मिन्विहङ्गराज. २ समुन्नमय्य. ३ वर्णसंस्कारया. ४ तां श्रुत्वा. ५ जातविस्मयः. ६ महार्हासनोपविष्टम्; महार्हहेमासनोपविष्टम्. ७ अतिपरिणतवयसम्. ८ अखिलमन्त्रिमण्डले प्रधानम्; अखिलमन्त्रिमण्डलप्रधानम्. ९ महत्तरमाश्चर्यम्; महाश्चर्यम्. १० असंकीर्ण. ११ अनुस्वारस्वरसंयोगविशेष; अनुस्वारस्वरसंयोगाम्. १२ यदयमतिपरिस्फुटाक्षरां गिरम्; यदयमतिपरिस्फुटां गिरम्. १३ पुनर्यदीयम्.
26
कादम्बरी।
। कथामुखे