________________
वनप्रासादकुंञ्जेषूच्चरितप्रेतिच्छन्दतया दीर्घतामुपगतेनालोकशब्देन, राज्ञां च ससंभ्रमावर्जितमौलिलोलचूडामणीनां प्रणमताममलमणिशलाकादन्तुराभिः किरीटकोटिभिरुल्लिख्यमानस्य मणिकुट्टिमस्य निःस्वनेन, प्रणामपर्यस्तानामतिकठिनमणिकुट्टिमर्निपतितरणरणायितानां च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानां च पुरोयायिनां जैयजीवेति मँधुरवचनानुयातेन पठतां दिगन्तव्यापिना कलकलेन, प्रचलितजनचरणशतसंक्षोभाद्विहाय कुसुमप्रकरमुत्पततां च मधुलिहां हुकृतेन, संक्षोभादतित्वरितपदप्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदाम्नां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ।
अथ विसर्जितराजलोको 'विश्रम्यताम्' इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्,
***********
पुनः कीदृशेन । दीर्घतां बहुलतामुपगतेन प्राप्तेन । कया । उच्चरितेति । उच्चरित उक्तो यः शब्दस्तस्य प्रतिच्छन्दस्तस्य भावस्तत्ता तया । केषु । भवनानि सामान्यगृहाः प्रासादा देवभूपसद्मानि तेषां कुञ्जेषु लतान्तरितप्रदेशेषु । पुनः केन । मणीति । मणिकुट्टिमं रत्नबद्धभूस्तस्य निःस्वनेन । किं क्रियमाणस्य । उल्लिख्यमानस्य घृष्यमाणस्य । काभिः । किरीटकोटिभिर्मुकुटाग्रैः । कीदृशीभिः । अमलेति । अमला निर्मला मणिशलाका रत्नेषीकास्ताभिर्दन्तुराभिर्विषमाभिः । केषाम् । राज्ञां नृपाणाम् । किं कुर्वताम् । प्रणमतां नमस्कार कुर्वताम् । कीदृशानाम् । ससंभ्रमेति । संभ्रमेण सहसावर्जिता नमिता मौलौ शिरसि लोलाश्चञ्चलाश्चूडामणयः शिरोमणयो येषां ते तथा तेषाम् पुनः केन । मणीति । मणिकर्णपूराणां रत्नकर्णाभरणानां निनादेन शब्देन । कर्णपूरं विशेषयन्नाह - प्रणामेति । प्रणा नमस्कारेण शिरोनमनात्पर्यस्तानां पतितानाम् । अतीति । अतिकठिनं यन्मणिकुट्टिमं तत्र निपतितेन पातेन रणरणायितानां संजातरणरणितशब्दानाम् । पुनः केन । दिशां ककुभामन्ता दिगन्तास्तान्व्याप्नुवन्तीत्येवंशीलेन कलकलेन कोलाहलेन । केषाम् । पठताम् । कीर्तिपाठकानामित्यर्थः । कीदृशानाम् । पुरोयायिनामग्रगामिनां मङ्गलपाठकानां बन्दिनां जयजीवजयजीवेति यन्मधुरं वचनं तदनुलक्षीकृत्य यातेन प्रवृत्तेन । पुनः केन । मधुलिहां भ्रमराणां हुकृतेन हुंकारशब्देन । किं कुर्वताम् । उत्पततामुड्डीनं कुर्वताम् । किं कृत्वा । विहाय त्यक्त्वा । किम् । कुसुमप्रकरं पुष्पसमूहम् । कस्मात् । प्रचलितेति । प्रचलिता ये जनास्तेषां चरणाः पादास्तेषां शतं तस्माद्यः संक्षोभः संभ्रमस्तस्मात् । पुनः केन । मणिस्तम्भानां रत्नस्थूणानां रणितेन रणत्कारेण । कीदृशेन । क्वणितेन शब्दितेन मुखराणि वाचालान रत्नदामानि येषु ते तथा तेषाम् । केयूरेति । केयूराणामङ्गादानां कोट्योऽग्रभागास्तैस्ताडितानामाहतानामिति स्तम्भविशेषणम् । कैः । अवनिपतिभिः नृपतिभिः । कीदृशैः । संक्षोभश्चित्तवैक्लव्यं तस्मादतित्वरितपदमतिवेगवत्तरचरणं यथा स्यात्तथा प्रवृतैः प्रचलितैः । अन्वयस्तु प्रागेवोक्तः ।
1
'वै -
अथेति । अथेत्यानन्तर्ये । नरपती राजा कतिपयैः कियद्भिराप्तैः शिष्टै राजपुत्रैर्नृपसूनुभिः परिवृतः सहितो विसर्जितो विसृष्टो राजलोकः परिच्छदलोको येन स तथा । राज्ञो विशेषणम् । विश्रम्यतां विश्रामं गृह्यतामिति स्वयमेवात्मनैवाभिधायोक्त्वा तां चाण्डालकन्यका, वैशम्पायनश्च शुकोऽभ्यन्तरं मध्यं प्रवेश्यतां प्रवेशं कार्यतामिति ताम्बूलस्य नागवल्याः करङ्कः स्थगी तां वहतीत्येवंशीला सा तथा तामादिश्याज्ञां दत्त्वाभ्य -
टिप्पo - 1 निपतिताः अत एव रणरणायिता ये मणिकर्णपूराः तेषां निनादेन । इत्याशयः ।
पाठा० - १ कुञ्जेषु चरित. २ प्रतिशब्दतया ३ दीर्घतरयाताम्; दीर्घतरताम्. ४ स्वनेन. ५ निपतन. ६ जयजयेति. ७ मङ्गलमधुरवचनानुपातेन; मधुरवचनानुयातेन ८ दिगन्तर. ९ संक्षोभभयादपहाय. १० त्वरितपदम्. ११ प्रसृतैः.
30
कादम्बरी ।
कथामुखे