________________
शम्पायनः प्रवेश्यतामभ्यन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य, कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताभरणश्च दिवसकर इव विगलितकिरणजालः, चन्द्रतारकासमूहशून्य इव गगनाभोगः, समुपाहृतसमुचितव्यायामोपकरणां व्यायामभूमिमयासीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुव्यायामः, श्रमवशादुन्मिषन्तीभिः कपोलयोरीषद॑वदलितसिन्दुवारकुसुममञ्जरीविभ्रमाभिरुरसि निर्दयश्रमच्छिन्नहारविगलितमुक्ताफलप्रकरानुकारिणीभिर्ललाटपट्टकेऽष्टमीचन्द्रशकलतलोल्लसदमृतबिन्दुविडम्बिनीभिः स्वेदजलकणिकासंततिभिरलंक्रियमाणमूर्तिः, इतस्ततः स्नानोपकरणसंपादनसत्वरेण पुरः प्रधावता परिजनेन तत्कालं विरैलजनेऽपि राजकुले समुत्सारणाधिकारमुचितं समाचरद्भिर्दण्डिभिरुपदिश्यमानमार्गः, विततसितवितानाम्, अनेकचारणगणनिबध्यमानमण्ड -
***********
न्तरम् । अर्थाद् गृहस्य । प्राविशत्प्रवेशं चकार । तदनन्तरं स राजा व्यायामः श्रमस्तत्करणयोग्यां भूमि वसुंधरामयासीदगच्छत् । इतो राजानं विशेषयन्नाह - अपेति । अपनीतानि दूरीकृतान्याभरणानि भूषणानि येन स तथा । क इव । दिवसकर इव सूर्य इव । कीदृशः । विगलितानि सस्तानि किरणजालानि दीधितिवृन्दानि यस्य स तथा । तत एवैतयोः साम्यम् । पुनः क इव । गगनाभोग इव धनाश्रयविस्तार इव । कीदृशः । चन्द्रः शशी, तारका नक्षत्राणि, तेषां समूहः संघातस्तेन शून्यः । अथ व्यायामभूमिं विशिनष्टि - समुपाहृतेति । समुपाहृतान्येकत्रीकृतानि समुचितानि योग्यानि व्यायामे श्रम उपकरणानि साधनानि यस्यां सा तथा ताम् । स राजा तस्यां भूमौ समानं तुल्यं वयः कौमारादि येषामेवंविधै राजपुत्रैर्नृपसुतैः सह सार्धं कृतो विहितो मधुरो लक्षणया शरीरपीडाजनको व्यायामो येन स तथा । अलंक्रियमाणा भूष्यमाणा मूर्तिः शरीरं तस्य स तथा । राज्ञो विशेषणद्वयम् । काभिः । स्वेदेति । कपोलयोर्गलात्परभागयोः स्वेदजलस्य श्रमजनितदेहजलस्य कणिकाः सूक्ष्मबिन्दवस्तेषां संततयः परंपरास्ताभिः । इतः स्वेदजलकणिकासंततिं विशेषयन्नाह -
श्रमेति । श्रमवशाद्व्यायामवशादुन्मिषन्तीभिः प्रकाशं प्राप्नुवतीभिः । कपोलयोः । ईषदिति । इषत्किंचिदवदलितं मर्दितं सिन्दुवारस्य निर्गुण्ड्याः कुसुमं पुष्पं तस्य मञ्जरी वल्लरी तस्या विभ्रमो भ्रान्तिर्यासु तास्तथा ताभिः । उरसीति । उरसि वक्षस्थले निर्दयश्रमेण कठिनप्रयासेनान्यैः कर्तुमशक्यव्यायामेनेति यावत् । तेन छिन्नश्छेदं प्राप्तो यो हारो मुक्तासक्तस्माद्विगलितश्च्युतो यो मुक्ताफलानां मौक्तिकानां प्रकरः समूहस्तमनुकारिण्यस्तमनुकुर्वन्त्यस्ताभिः । ललाटेति । ललाटपट्टके भालस्थलेऽष्टमीचन्द्र एव शकलं तस्य तलमुत्तानस्थल तत्रोल्लसन्तो दीप्यमाना येऽमृतबिन्दवः सुधापृषतास्तान्चिडम्बयन्ति तिरस्कुर्वन्तीत्येवंशीलास्तास्तथा ताभिः । कीदृशो राजा । परिजनेन सेवकजनेन । कीदृशेन । पुरतोऽग्रे प्रधावता त्वरितं गच्छता । पुनः किंविशिष्टेन । इतस्ततः समन्तात्स्नानमाप्लवस्तस्योपकरणानि जलादीनि तेषां संपादनं निष्पादनं तत्र सत्वरेण शीध्रेण । तत्कालं तत्समयावच्छेदेन विरलजनेऽपि स्वल्पजनेऽपि राजलोके राजगृहे सत्युचितं योग्यं समुत्सारणं निवारणं तत्र योऽधिकारो नियोगस्तं समाचरद्भिः कुर्वद्भिर्दण्डिभित्रिभिश्चोपदिश्यमानः प्रदर्घामानो मार्गो यस्य स तथा । इतः परं स्नानभूमेविशेषणानि । विततेति । विततो विस्तीर्णः सितः शुभ्रो वितान उल्लोचो यस्यां सा तथा ताम् । अनेकेति ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 किञ्चित्स्फुटितम् (विकसितम्) इत्यर्थ उचितः ।
पाटा० - १ अभ्यन्तरं स्नानपानाशनादिना च सुखिनमेनं कारयेति; अभ्यन्तरमशनादिना चोपचर्यताम्. २ करण्ड. ३ अपनीताशेषभूषणच. ४ अवगलितसितसिन्दुरवार. ५ रतिश्रम; रतिविभ्रम. ६ प्रधाविना. ७ परिजनेनानुगम्यमानः. ८ विरलतरेऽपि. ९ आचरद्भिः. १० आबध्यमान.
(शूद्रकस्नानम्
पूर्वभागः ।