________________
लाम्, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापितस्फाटिकस्नानपीठाम् एकान्तनिहितैः अतिसुरभिगन्धसलिलपूर्णैः परिमलावकृष्टमधुकरकुलान्धकारितमुखैः आतपभयान्नीलकर्पटावगुण्ठितमुखैरिव स्नानकलशैरूपशोभितां स्नानभूमिमगच्छत् । अवतीर्णस्य जलद्रोणीं वारविलासिनीकरमृदितसुगन्धामलकर्लिप्तशिरसो राज्ञः परितः समुपतस्थुरशुकनिबिडनिबद्धस्तनपरिकराः, दूरसमुत्सारितवलयबाहुलताः, समुत्क्षिप्तकर्णाभरणाः, कर्णोत्सङ्गोत्सारितालकाः, गृहीतजलकलशाः, स्नानार्थमभिषेकदेवता इव वारयोषितः । ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वारिमध्यप्रविष्टः करिणीभिरिव वनकरी परिवृतस्तत्क्षणं रराज राजा । द्रोणीसंलिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव
राज
-
अनेकेऽसंख्या ये चारणगणाः कुशीलवसमुदायास्तैर्निबध्यमानं विरच्यमानं मण्डलं परिवृतिर्यस्यां सा तथा ताम् । गन्धोदकेति । गन्धोदकेन सुरभिपानीयेन पूर्णा भृता या कनकमयी सुवर्णमयी । अत्र विकारार्थे मयट् । एतादृशी जलद्रोणी जलकुण्डिका तया सनाथः सहितो मध्यो मध्यभागो यस्याः सा तथा ताम् । उपेति । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिनिर्मितं स्नानपीठमाप्लवनचतुष्किका यस्यां सा तथा ताम् । स्नानेति । स्नानार्थं ये कलशाः कुम्भास्तैरुपशोभितां विराजिताम् । अथ कलाशान्विशेषयन्नाह - एकान्तेति । एकान्ते निर्जनस्थले निहितैः । स्थापितैः । अतीति । अतिशयेन सुरभिर्गन्धो यस्मिन्नेवंविधं यत्सलिलं जलं तेन पूर्णैर्भृतैः । परीति । परिमलेन - गन्धेनावकृष्टा ये मधुकरा भ्रमरास्तेषां कुलानि समुदायास्तैरन्धकारितं संजातान्धकारं मुखमाननं येषां ते तथा तैः । कीदृशैरिव । आतपभयान्नीलकर्पटावगुण्ठितानि मुखानि येषां ते तथा तैरिव । जलद्रोणीमवतीर्णस्य तन्मध्ये प्रविष्टस्य राज्ञो नृपस्य परितः सर्वतः स्नानार्थमभिषेकदेवता इवाभिषेकाधिष्ठात्र्य इव वारयोषितो वाराङ्गनाः समुपतस्थुः सम्यक्प्रकारेणातिष्ठन् । कीदृशस्य राज्ञः । वारविलासिन्या करेण मृदितं यत्सुगन्धामलकं सुरभिधात्रीफलं तेन लिप्तं शिरो यस्य स तथा तस्य । ता विशेषयत्राह - अंशुकेति । अंशुकैर्वस्त्रैर्निबिड दृढं निबद्धः संयतः स्तनपरिकरः कुचाभोगो याभिस्तास्तथा । दूरेति । दूरं समुत्सारितानि निराकृतानि वलयानि कङ्कणानि यास्वेवंभूता बाहुलता भुजबल्लयो यासां ताः । सम्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूषणं याभिस्तथा । कर्णेति । कर्णोत्सङ्गाच्छ्रवणसमीपादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदैस्तासां शोभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जलकलशा वारिभृतघटा याभिस्ताः । च पुनरर्थे । ताभिस्तत्क्षणं तस्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । समुन्नतं कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभिर्हस्तिनीभिः परिवृतो वनकरीव । यथा धेनुकाभिः समं मज्जनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसलिलात् द्रोणीजलादुत्थाय बहिर्निर्गत्य स्नानपीठमारुरोहेत्यन्वयः । कीदृशम् । अमलेति । अमलो मलवर्जितो यः स्फटिको मणिविशेषस्तद्वद्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कलहंसमा
32
***********
-
१ अभिसुरभि. २ कलशैः. ३ अवतीर्णस्य च ४ उपलिप्त. ५ समन्तात्. ६ समुत्तस्थुः ७ अंशुकविनिबद्ध. ८ चरणाभरणाः ९ जलद्रोणी.
कादम्बरी ।
कथा