SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ हंसमारुरोह । ततस्ताः काश्चिन्मरकतकलशप्रभाश्यामायमाना नलिन्य इव मूर्तिमत्यः पत्रपुटैः, काश्चिद्रजतकलशहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवाहेण, काश्चित्कलशोत्क्षेपश्रमस्वेदाशरीरा जलदेवता इव स्फाटिकैः कलशैस्तीर्थजलेन, काश्चिन्मलयसरित इव चन्दनरसमिश्रेण सलिलेन, काश्चिदुत्क्षिप्तकलशपार्थविन्यस्तहस्तपल्लवाः प्रकीर्यमाणनखमयूखजालकाः प्रत्यङ्गुलिविवरविनिर्गतजलधाराः सलिलयन्त्रदेवता इव, काश्चिज्जाड्यमपनेतुमाक्षिप्तबालातपेनेव दिवसश्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वाराङ्गनायथायथं राजनमभिषिषिचुः । अनन्तरमुदपादि च स्फोटयनिव श्रुतिपथमनेकप्रहतपटु - *********** रोहति । तत इति । आरोहणानन्तरं ता वारयोषितो यथायथं यथायोग्यं राजानमभिषिषिचुरभिषेकं चक्रुः । इतो वारयोषितो विशेषयन्नाह - काश्चिदिति । काश्चित् काश्चन मरकतमणिनिर्मितो यः कलशः कुम्भस्तस्य प्रभा कान्तिस्तया श्यामायमानाः श्यामवदाचरिताः नलिन्य इव पद्मिन्य इव मूर्तिमत्यो नीलत्वसाम्यात्तद्रूपधारिण्यः पत्रपुटैः पर्णसंपुटैः राजानमभिषिषिचुरिति सर्वत्र । अन्याः काश्चन रजतस्य रूप्यस्य कलशः कुम्भो हस्ते पाणी यासा तास्तथा । का इव । पूर्णचन्द्रमण्डलात्समग्रशशिबिम्बाद्विनिर्गतेन निःसृतेन ज्योत्स्नाप्रवाहेण कौमुदीरयेण शोभमाना रजन्य इव त्रियामा इव । अन्याः काश्चन कलशस्य कुम्भस्य चोत्क्षेप उत्पाटनं तस्माद्यः श्रमस्तेन यः स्वेदो धर्मजलं तेनार्दै स्विनं शरीरं देहो यासां ताः स्फाटिकैः स्फटिकसंबन्धिभिः कलशैस्तीर्थजलेन तीर्थाम्भसा च सहिता जलदेवता जलाधिष्ठात्र्य इव । काश्चिदिति । अन्याः काश्चन चन्दनस्य मलयजस्य रसो द्रवस्तेन मिश्रेण संयुक्तेन सलिलेन स्नानं चक्रुः । का इव । मलयसरित इव मलयाचलनद्य इव । ता अपि चन्दनरसमिश्रसलिलाः स्युः । काश्चिदिति । अन्याः काश्चनोत्क्षिप्त उत्पाटितो यः कलशस्तस्य पार्श्वयोमिदक्षिणयोर्विन्यस्ताः स्थापिता हस्तपल्लवाः करकिसलयानि याभिस्ताः, प्रकीर्यमाणानीतस्ततो विक्षिप्यमाणानि नखमयूखजालकानि पुनर्भवदीप्तिचया याभिस्ताः । प्रत्यङ्गलि प्रतिकरशाख यानि विवराणि छिद्राणि तेभ्यो विनिर्गता जलधारा पानीयसंततिर्यासा ताः । का इव । सालिलयन्त्रदेवता इव । ता अप्येवंविधाः स्युरित्यर्थः । काश्चिदिति । अन्याः काश्चन कनकस्य सुवर्णस्य कलशो हस्ते यासां ताः । का इव । दिवसश्रिय इव वासरलक्ष्मीरिव । केनेव । जाड्यं शीतमपनेतुं दूरीकर्तुमाक्षिप्त आकर्षितो यो बालातपो नव्यालोकस्तेनेव कुङ्कुमजलेन केसरवारिणा । अत्र कुङ्कुमजलबालातपयोरुपमानोपमेय भावः । अन्वयस्तु प्रागेवोक्तः । अनन्तरमिति । अभिषेकानन्तरं स्नानशङ्खानां - - - - - - - - - - - - - टिप्प० - 1 जलदेवता इव काश्चित् स्फाटिकैः कलशैः (स्फटिककलशद्वारा) तीर्थजलेन अभिषिषिचुः, तीर्थजलाभिषेकं चक्रुरित्यर्थ उचितः । 2 कारयामासुरित्याशयः । 3 करनखेभ्यः कान्तिकिरणास्तथा निरगच्छन् यथा जलयन्त्रदेवतानाम् (जलनिर्झरणार्थ निर्मितयन्त्रपुत्तलिकानाम) हस्ताङ्गलिविवरेभ्यो जलधारा एव मन्ये निष्पतन्तीत्युत्प्रेक्षाशयः । पाठा० -१ काश्चन. २ शकल. ३ क्रमेण. ४ आस्फोटयत्रिव. शूद्रकस्नानम् पूर्वभागः ।
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy