________________
पटहझल्लरीमृदङ्गवेणुगीतनिनादानुगम्यमानो बन्दिवृन्दकोलाहलाकुलो भुंवनविवरव्यापी स्नानशङ्खानामापूर्यमाणानामतिमुखरो ध्वनिः।
एवं च क्रमेण निर्वर्तिताभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय धोतवाससी शरदम्बरैकदेश इव जलक्षालननिर्मलतनुः, अतिधवलजलधरच्छेदशुचिना दुकूलपट्टपल्लवेन तुहिनगिरिरिव गगनसरित्सोतसा कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूततोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूँजश्च निष्क्रम्य देवगृहानिर्वर्तिताग्निकार्यो विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमानपरिमलेन मृगमदकर्पूरकुङ्कु -
***********
ध्वनिः शब्द उदपायुत्पन्नोऽभूत् । ‘पद गतौ' इत्यस्य लुङि रूपम् । किं कुर्वन्निव । श्रुतिपथं कर्णमार्ग स्फोटयन्निव द्विधा कुर्वन्निव । पुनः कीदृक् । अतिशयेनमुखरस्तारतरः । किंविशिष्टानां शङ्खानाम् । आपूर्यमाणानां वाद्यमानानाम् । पुनः कीदृशः । अनेकेति । अनेकप्रकारेण प्रहता वादिताः पटवः समर्था ये पटहा दुन्दुभयो, झल्लरी प्रसिद्धा, मृदङ्गो मर्दलो, वेणुवंशो, वीणा वल्लकी, गीतानि गानानि चैतेषां यो निनादो ध्वनितं तमनुलक्षीकृत्य गम्यमानः प्रवर्तमानः । पुनः कीदृक् । बन्दिना वैतालिकानां वृन्दं समुदायस्तस्य कोलाहलः कलकलस्तेनाकुलो मिश्रितः । पुनः कीदृक् । भुवनेति । भुवनानां विष्टपानां विवराणि छिद्राणि व्याप्नोतीत्येवंशीलः स तथा ।
एवं च पूर्वोक्तप्रकारेण क्रमेण परिपाट्या विहितोऽभिषेको यस्यैवंभूतो नृपो देवगृहं चैत्यमगमदित्यन्वयः । किं कृत्वा । विषेति । विषधराः सास्तेषां निर्मोकः कञ्चुकस्तद्वत्परिलघुनी अतिहस्वे, अत एव धवले शुभ्रे धौतवाससी प्रक्षालितवस्त्रे परिधाय परिधानं कृत्वा । अथ राजानं विशिनष्टि - जलेति । जलेन पानीयेन यत्क्षालनं तेन निर्मलापगतमला तनुः शरीरं यस्य स तथा । किमिव । शरदिति । शरदि घनात्यये यदम्बरं गगनं तस्यैकदेशो भागस्तद्वदिव । शरयम्बरं वृष्टेरभावानिर्मलमेवेति भावः । अतीति । अतिधवलो यो जलधरो मेघस्तस्य यश्छेदः खण्डस्तद्वच्छुचिना निर्मलेन दुकूलपट्टः क्षीरोदपट्टस्तस्य पल्लवेन प्रान्तेन कृतं विहितं शिरोवेष्टनमुत्तमाङ्गवेष्टन येन स तथा । क इव । तुहिनगिरिवि हिमाचल इव । गिरिं विशिनष्टि - गगनेति । गगनसरित्स्वधूंनी तस्या यत्सोतः प्रवाहस्तेन कृतशिरोवेष्टनः । संपादित इति । संपादिता निष्पादिता पितॄणां जलक्रिया येन सः । मन्त्रेति । मन्त्रैर्वेदोक्तैः पूतं पवित्रं यत्तोयं पानीयं तस्याञ्जलिः प्रसृतिस्तेन दिवसकर सूर्यमभिसंमुखं प्रणम्य नमस्कृत्य । उपेति । उपरचिता निष्पादिता पशुपतेरीश्वरस्य पूजा; येनैवंभूतः सन् तस्माद्देवगृहानिष्कम्य बहिरागत्यावनिपो राजाऽऽहारमशनादिकं निवर्तयामास कृतवानित्यन्वयः । निर्वर्तितेति । निर्वर्तितं कृतमग्निकार्यं होमादि येन सः । विलेपनभूमावङ्गरागनिष्पादनस्थले झङ्कारिभिमुङ्कारशब्दं कुर्वाणैरलिकदम्बकैर्धमरसमूहैरनुबध्यमानो नियम्यमानः परिमल आमोदो यस्य स तथा तेन । मृगमदेति । मृगमदः कस्तूरी, कर्पूरी हिमवालुका, कुङ्कुमं केसरमेतेषां यो वासः परिमलस्तेन सुर -.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 अतीवसूक्ष्मे । 2 क्षौम (कौशेय) पट एव पल्लवः नवकिसलयः । अथवा क्षौमपदृस्य पल्लवो विस्तारः 'पल्लवो विस्तरे षिङ्गे किसले विटपे बने इति त्रिकाण्डशेषः । तेन । 3 शिवपूजनात्पूर्वं सूर्याय अर्घ्यदानं तु 'यावन्न दीयते चायँ भास्कराय महात्मने । तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥ इति ब्रह्मपुराणवचनात् ।
पाठा० - १ कोलाहलो. २ भवन. ३ मुखरो. ४ निवर्तित. ५ घौते वाससी. ६ आक्षालन. ७ विमल. ८ संपन्न. ९ उपचरित. १० पूजनश्च. ११ निवर्तित.
कादम्बरी ।
कथाखे