________________
मवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृतवस्त्रपरिवर्तो रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारमभिमतरसास्वादजातप्रीतिरवनिपो निर्वतयामास ।
परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात्प्रमृष्टमणिकुंट्टिमप्रदेशादुत्थाय नातिदूरवर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितं बाहुमबलम्ब्य वेत्रलताग्रहणप्रसङ्गादतिजरटकिसलयानुकारिकंरतलं करेण, अभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानो, धवलांशुङपरिगतपर्यन्ततया स्फटिकमणिमयभित्तिनिबद्धमिवोपलक्ष्यमाणम्, अतिसुरभिणा मृगनाभिप -
***********
भिणासुगन्धिनैवंभूतेन चन्दनेन मलयजेनानुलिप्तं लेपितं सर्वाङ्गं समग्रशरीरावयवा येन स तथा । इतो राज्ञो विशेषणानि - विरचितेति । विरचितो रचनाविशेषेण निर्मित आमोदिमालतीकुसुमानि सुगन्धिजातिपुष्पाणि तेषां शेखरः शिरोभूषणं येन स तथा । कृतेति । कृतो विहितः पूर्वपरिहितवस्त्रस्य परिवर्तः परावर्तो येन स तथा । कृतं वस्त्रस्य क्षीरोदवस्त्रस्य परिवर्त उपरिवस्त्रं येनेति वा । रत्नेति । रत्नखचितः कर्णपूरः कर्णाभरणं तन्मात्रमाभरणं यस्य स तथा । ननु नीचजनप्रदर्शनार्थं बहुतरभूषणधारणमिति मात्रपदव्यङ्म्यम् । एकपङ्क्तो समुचितं योग्यं भोजनं येषामेवंभूतैर्भूपतिभिर्नृपतिभिः सहेति भित्रक्रमः । अभीति । अभिमताः श्रेष्ठा ये रसा मधुरादयस्तेषामास्वादो ग्रहणं तेन जातोत्पन्ना प्रीतिः संतुष्टिर्यस्य स तथा । परीति । मुखसौगन्ध्यप्रतिपादनार्थं परि सामस्त्येन पीता गृहीता धूमवर्तिव्यविशेषो येन स तथा । किं कृत्वा । उपस्पृश्याचम्य । 'उपस्पर्शस्त्वाचमनम्' इति कोशः । पुनः किं कृत्वा । भुक्त्वा भोजनं विधाय । आस्थानमण्डपं परिषन्मण्डपमयासीज्जगामेत्यन्वयः । गृहीतमात्तं ताम्बूलं नागवल्लीदलं येन स तथा । तस्मात्यानिर्दिष्टात् । प्रमृष्टेति । सातिशयं मृष्टं मणिकुट्टिमं यस्मिन्नेवंभूतात् प्रदेशात्स्थलात् उत्थाय । उत्थानं कृत्वेत्यर्थः । नातिदूरं वर्तते या सा तया । पुनः कीदृश्या । ससंभ्रमं सभयं प्रधावितया त्वरितं गच्छन्त्या एवंभूतया । प्रतीहार्या । 'पुंवत्प्रगल्भा या नारी वक्तुं या च विचक्षणा । सा प्रतीहारी' इति । तया प्रसारितः संनिहितः कृतो बाहुर्भुजस्तमवलम्ब्य । तदाश्रयमास्थायेत्यर्थः । परीति । परिजनेन सेवकजनेनानुगम्यमान इति राज्ञो विशेषणम् । अथ सेवकजनं विशेषयन्नाह - वेत्रेति । वेत्रस्य वेतसस्य या लता सरलयष्टिस्तस्या ग्रहणं धारणं तस्य प्रसङ्गोऽभ्यासस्तस्मादतिजरठमतिकठिनं यत्किसलयं तदनुकरोति तादृशं करतलं पाण्यधोभागो यस्यैवंविधः करो हस्तो यस्य स तथा तेन । अभ्यन्तरेति । अभ्यन्तरं बाह्यजनागम्यो यो गृहप्रदेशस्तत्र यः संचारः संचरणं तत्र समुचितो योग्यः स तथा तेन । अथास्थानमण्डपं विशिनष्टि - धवलेति । धवलं शुभ्रं यद्. अंशुकं वस्त्रं तेन परिगतः सहितो यः पर्यन्तः प्रान्तस्तस्य भावस्तत्ता तया । स्फटिकमणिमयी या भित्तिः कुड्यं तया निबद्धं निर्मितमियोपलक्ष्यमाणं दृश्यमानम् । अनेनांशुकानां श्वेतत्वसौम्यातिशयो व्यज्यते । अतीति । अतिसुरभिणा मृग -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 धृताऽपरवस्त्र इति यावत् । 2 पीता अग्निसंयोगेन धूमसंयुक्तताम्रकटादिनिर्मिता वर्तिर्येन । 3 वेत्रलतेत्यादिविशेषणं प्रतीहार्या बाहोः । अन्यपरिजनस्य वेत्रग्रहणाऽसंबन्धात्, संबन्धेऽपि अनुगामिनः परिजनस्य करतलकठोरतावर्णनेत्र स्वारस्याभावात् । तेनैवं पाठः । अन्वयश्चोचितः - 'प्रतीहार्या प्रसारित वेत्रलताग्रहणप्रसङ्गादतिजरठकिसलयानुकारिकरतलं बाहुं करेण (राजा इत्यर्थः) अवलम्ब्य । व्याख्या तु उपरितो ज्ञेया ।
पाठा० - १ कृताम्बर. २ परिवर्तो. ३ निवर्तयामास. ४ धूप; घूपधूम. ५ कुट्टिमात्. ६ प्रसारितबाहुम्; प्रसारितम्. ७ अनवरतवेत्र. ८ प्रसङ्गानति; प्रसङ्गादनति. ९ करतलकरेण. १० जवनिकापरिगत. ११ स्फटिकमय. १२ बद्ध. १३ अतिसुरभि. १४ परिमलेन.
(सभामण्डपवर्णनम् ।
पूर्वभागः ।