________________
रिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरमणिभूमिम्, अविरलविप्रकीर्णेन विमलमणिकुट्टिमगगनतलतारागणेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन संनिहितगृहदेवतेनेव गन्धसलिलक्षालितेन कलघौतमयेन स्तम्भसंचयेन विराजमानम्, अतिबहलागुरुधूपपरिमलम्, अखिलविगैलितजलनिवहधवलजलधरशकलानुकारिणा कुसुमामोदवासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोभागेन मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थरत्नपादपीठेन तुहिनशिलातलसर्दृशेन शयनेन सनाथीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् । तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खड्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनैरवनिपतिभिर -
1
नाभिपरिगतेनामोदिना चन्दनवारिणा मलयजपानीयेन सिक्ता सिञ्चितात एव शिशिरा शीतला मणिभूमि रत्नबद्धा भूर्यस्मिंस्तत्तथा । अवीति । अविरलं घनतरं विप्रकीर्णेन पर्यस्तेन । विमलेति । विमलमणीनां निर्मलरत्नानां यत्कुट्टिमं तत्र गगनतलतारागणेनेवाकाशस्थितनक्षत्रसमूहेनेव कुसुमोपहारेण पुष्पप्रकरेण निरन्तरं सर्वकालं निचितं व्याप्तम् । स्तम्भेति । स्तम्भाः स्थूणास्तेषां संचयेन समुदायेन विराजमानं शोभमानम् । स्तम्भसंचयं विशेषयन्नाह - गन्धेति । गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन धौतेन । कलधौतं सुवर्णं तन्मयेन । अत्र विकारार्थे मयट् । उत्कीर्णेति । उत्कीर्यकृताः शालभञ्जिकाः पुत्रिकास्तासां निवहः समूहो यस्मिन्स तथा । केनेव । संनिहिताः समीपस्था गृहदेवता गृहाधिष्ठात्र्यो यस्मिन्नेवंभूतेनेव । 'गोस्त्रियोः -' इति पुंवद्भावः । अतीति । अतिबहलोऽतिप्रचु योऽगुरुः कृष्णागुरुस्तस्य धूपस्य परिमलः सौगन्ध्यं यस्मिंस्तत्तथा । तुहिनेति । तुहिनं हिमं तस्य शिलातलं तत्सदृशं यच्छयनं शय्या तेन । सनाथीकृता सहिता वेदिका संस्कृतभूमिर्यस्मिंस्तत्तथा । इतः शयनं विशेषयन्नाह - अखिलेति । अखिलः समग्रो विगलितो जलनिवहो नीरसमूहो यस्मिन्नेवंभूतो धवलः शुभ्रो जलधरो मेघस्तस्य शकलं खण्डस्तमनुकारिणा तत्सादृश्यकरणशीलेन । कुसुमेति । कुसुमानां पुष्पाणामामोदः परिमलस्तेन वासितो भावितः प्रच्छदपट उत्तरच्छदो यस्मिंस्तत्तथा तेन । पट्टेति । पट्टस्य पट्टदुकूलस्योपधानमुच्छीर्षकं तेनाध्यासितमधिष्ठितं शिरोधाम शिरःस्थलं यस्मिंस्तत्तथा तेन । मणीति । मणिमया मणिप्रचुराः प्रतिपादुका अधःपीठानि तेषु प्रतिष्ठिताः स्थिताः पादा यस्य तत्तथा तेन । पार्श्वेति । पार्श्वस्थं समीपस्थं रत्नपादपीठं मणिपादासनं यस्मिंस्तत्तथा तेन । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र शयने निषण्ण उपविष्टो राजा मुहूर्तमिव घटिकाद्वयमात्रमिवासांचक्रे सुष्वाप । इतो राजानं विशेषया क्षितीति । क्षितितले भूमितल उपविष्टया स्थितया तथोत्सङ्गे क्रोडे निहिता स्थापितासिलता खड्गलता ययैवंभूतया खड्गवाहिन्या नवं नूतनं यन्त्रलिनं कमलं तस्य दलानि पत्राणि तद्वत्कोमलेन मृदुना करसंपुटेन हस्तसंपुटेन शनैः शनैः संवाह्यमानौ संचार्त्यमानौ चरणी पादौ यस्य स तथा तेन । तत्काल इति । तत्काले शयनकाल उचितं योग्यं दर्शनमालोकनं येषामेतादृशैरवनिपतिभिर्नृपैरमात्यैः सचिवैर्मित्रैः सुहृद्भिस्तास्ताः प्रस्तावोचिताः कथा वार्ताः कुर्वन्विदधत् । ततः कथासमाप्त्यनन्तरं पूर्वोक्तां प्रतीहारीमित्यादिदेशाज्ञापयामास । कीदृशीम् । नातिदूरवर्तिनीं -
1
1
टिप्पo - 1 आर्द्रीकृता इत्युचितम् । 2 आमृष्यमाणौ । सुखकरं यथा स्यात्तथा आपीड्यमानौ इत्यर्थः ।
पाटा० - १ शिशिकर. २ कुट्टिमं गगनतलम्. ३ परिगलित. ४ अध्यवसित. ५ शिरोधाम्ना. ६ रत्नपीटेन; रत्नमयपीटेन. ७ तुहिनगिरि ८ सदृशशयनेन ९ शयनतलनिषण्णः.
36
कादम्बरी |
-
कथा