________________
मात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् ‘अन्तःपुराद्वैशम्पायनमादायागच्छ इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतिहारीमादिदेश । सा क्षितितलनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञा यथादिष्टमकरोत् ।।
अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्यागृहीतपञ्जरः कनकवेत्रलतावलम्बिना किंचिदवनंतपूर्वकायेन सितकञ्चुकावछैनवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्दसंचारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितलनिहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत् - 'देव, देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय गते च तस्मिन्राजा वैशम्पायनमपृच्छत् - 'कच्चिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजातम्' इति । स प्रत्युवाच - 'देव, किंवा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाम -
***********
नातिव्यवधानेन वर्तते या सा ताम् । आज्ञाविषयमाह - अन्तःपुरेति । अन्तःपुरादवरोधात्तं वैशम्पायनं शुकमादायागच्छेति । समुपेति । समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां कुतूहलमाश्चर्यं यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहितौ स्थापितौ जान नलकीलकौ करतले हस्ततले च यया सा । आसनविशेषेण विनयविशेषो व्यज्जितः । माह - यथेति । यथा येन प्रकारेणाज्ञापयत्याज्ञां धत्ते देवो भवानित्यनूय शिरसि मस्तक आज्ञां पूर्वोक्तां कृत्वा । स्वशिरसि करतलं निधायेति भावः । यथेति । येन प्रकारेण राज्ञादिष्टमाज्ञापितं तथाकरोच्चकार ।
अथेति । अन्तःपुरप्रवेशानन्तरम् । मुहूर्तादिव तावन्मात्रविलम्बादिव वैशम्पायनः शुको राजान्तिकं नृपसमीपमाजगामाययौ । शुक विशिनष्टि - प्रतीति । प्रतीहार्या पूर्वोक्तया गृहीतमात्तं पञ्जरं यस्य स तथा । कञ्चुकिनेति । कञ्चुकिना सौविदल्लकेनानुगम्यमानोऽनुव्रज्यमानः । केन । विहङ्गजातिप्रीत्या पक्षित्वजातिस्नेहेन जरत्कलहंसेनेव वृद्धराजहंसेनेव । अथ कञ्चुकिन विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य या वेत्रलता वेतसयष्टिस्तामवलम्बत इत्येवंशीलः स तथा तेन । किंचिदिति । किंचिदीषदवनत आनम्रः पूर्वकायो यस्य स तथा तेन । सितेति । सितः श्वेतो यः कञ्चुकः कूर्यासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य स तथा तेन । जरेति । जरा विससा तया धवलितः शुभ्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्गदः शब्दविशेषः स्वरो यस्य स तथा तेन । मन्देति । मन्दमन्दं शनैःशनैः संचरतीत्येवंशीलः स तथा तेन । क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापनामकरोत् । हे देव हे स्वामिन्, देव्यो राजपन्यो विज्ञापयन्ति विज्ञप्तिं मन्मुखेन कारयन्ति । किं तदाह - देवेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्वं स्नातः कृतस्नानः पश्चात्कृताहारो विहिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमतमिष्टं किंचिदशनजातं भक्ष्यसमूहमास्वादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ, किंवत्यत्र नञि काकुः । तेन सर्वमास्वादितमित्यर्थः । तदेवोत्कर्षतया निरूपयति - प्रकामेति । प्रकाममति -
पाटा० - १ समुपयात. २ मुहूर्तादेव. ३ आनत. ४ अवच्छिन्न. ५ चारिणा. ६ विहित; निहितकरस्तु. ७ व्यजिज्ञापयत्. ८ पादमूले. ९ अपगते तस्मिन्. १० क्वचित्. ११ स तु.
शुककथारम्भः
। पूर्वभागः ।