________________
समुपजातविस्मयस्याभून्मनसि महीपतेः- 'अहो विधातुरस्थाने सौन्दर्यनिष्पादनप्रयत्नः । तथा हि-यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगतस्पर्शसंभोगसुखे कृतं कुले जन्म । मन्ये च मातङ्गजातिस्पर्शदोषभयादस्पृश्यतेयमुत्पादिता प्रजापतिना, अन्यथा कथमियमक्लिष्टता लावण्यस्य । न हि करतलस्पर्शक्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्धिंग्विधातारमसदृशसंयोगकारिण, मनोहराकृतिरपि फ्रेंरजातितया येनेयमसुरश्रीरिव सततनिन्दितसुरता रमणीयाप्युटेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीषदवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमं शुकमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ।
***********
मनसीति । मनसि जातो विस्मय आश्चर्यं यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदित्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुब्रह्मणोऽस्थानेऽपदे सौन्दर्यस्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति - तथाीति । 'नामेति कोमलामन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपहसितोपहास्यास्पदीकृताशेषरूपसंपत्समग्रसौन्दर्यसमृद्धिर्यया सैवंविधोत्पादिता निर्मिता । किमर्थं किं प्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः संभोगसुख सुरतसातं ते च यस्मिन्नेवभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्श निश्चयमाह-मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता निष्पादिता । अत्रार्थे हेतुमाह-मातङ्गेति । मातङ्गस्य जाति यातिस्तस्याः स्पर्शः संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह-अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लावण्यस्य लवणिम्नः । कथमिति प्रश्ने । इयं प्रत्यक्षोपलक्ष्यमाणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह - न हीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि भवति न स्यात् । सर्वथेति । सर्वथा सर्वकारेण । धिग्धिगिति खेदातिशय आमेडितम् । विधातारं ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिण् । येनासदृशसंयोगेनेयं चाण्डालकन्यका मनोहराकृतिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हित सुरत मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युटेजयति । वैचित्यमुत्पादयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्तप्रकारेण चिन्तयन्तं विमर्श कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यनारूढयौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्त्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः किदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ञेयम् । तदुक्तम्-'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः इति । 'सर्वदा तत्सानिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिम रनबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति पूर्वोक्तो धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव प्राप्तमेव । न ततः पृथक्कृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागत्य राज्ञे नृपाय न्यवेदयत्प्रदर्शितवान् ।
पाठा० - १ जात; दृष्टवा च तां समुपजात. २ चाभूत. ३ रूपनिष्पादनप्रयत्नः;. रूपविधानप्रयत्नः ४ अस्या जन्म. ५ मनसोत्पादिता. ६ तथाहि. ७ धिग्विधातारम्. ८ अतिमनोहरा. ९ फरजातिजा. १० विहङ्गमादाय; विहङ्गममादाय. ११ गतं किंचित्.
कादम्बरी।
कथामुखे