________________
मस्य प्रत्युत्तरीचकार । चन्द्रापीडोऽप्युभयथाघटमानार्थतया सदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिर्महान्तं कालं स्थित्वा तथैव महता यत्नेन मोचयित्वात्मानं स्कन्धावारगमनाय कादम्बरीभवनान्निर्ययौ । निर्गतं च तुरङ्गममारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान् - "देव, मदलेखा विज्ञापयति - 'देवी कादम्बरी खलु प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्यमानामिच्छति, पश्चाद्यास्यति' इति श्रुत्वा देवः प्रमाणम् ।" इत्याकर्ण्य चन्द्रापीडः 'केयूरक, धन्या स्पृहणीया च पत्रलेखा, यामेवमनुबध्नाति दुर्लभो देवीप्रसादः । प्रवेश्यताम् । इत्यभिधाय पुनः स्कन्धावारमेवाजगाम । प्रविशन्नेव पितुः समीपादागतमभिज्ञाततरमालेखहारकमद्राक्षीत् । धृततुरङ्गमश्च प्रीतिविस्फारितेन चक्षुषा दूरादेवापृच्छत् - 'अङ्ग, कच्चित्कुशली तातः सह सर्वेण परिजनेन ? अम्बा च सर्वान्तःपुरैः? इति । अथासावुपसृत्य प्रणामानन्तरम् ‘देव, यथाज्ञापयसि' इत्यभिधाय लेखद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा स्वयमेव च तदुन्मुच्य क्रमशः पपाठ - _ 'स्वस्त्युज्जयिनीतः सकलराजन्यशिखण्डशेखरीकृतचरणारविन्दः परममाहेश्वरी महाराजाधिराजो देवस्तारापीडः सर्वसंपदामायतनं चन्द्रापीडमुदञ्चच्चारुचूडामणिमरीचिचक्र -
*********** एतत्कृतो मम विरहो मत्कृतश्चास्या इत्युभयथाघटमानार्थतया विरहतापः सोढुं शक्यो न वेति सदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयो रसपुष्टिस्तत्र चतुराभिर्दक्षाभिः कथाभिर्वार्ताभिर्महान्तं कालं च स्थित्वावस्थानं कृत्वा तथैव पूर्वप्रकारेणैव महता यत्नेनात्मानं मोचयित्वा स्वस्य मुक्ति विधाय स्कन्धावारगमनाय स्वसैन्यनिवेशगमनाय । 'स्कन्धावारोऽस्य तु स्थितिः' इति कोशः । चन्द्रापीडोऽपि कादम्बरीभवनानिर्ययौ निर्जगाम । निर्गतं च तुरङ्गममश्चमारुरुक्षन्तमारोढुमिच्छन्तं पश्चादागत्यैत्य केयूरकोऽभिहितवान् । किं तदित्याह - देवेति । हे देव, मदलेखा विज्ञापयति विज्ञप्तिं करोति । एतदेव दर्शयति - देवेति । खलु निश्चयेन देवी कादम्बरी प्रथमदर्शनेन जनिता प्रीतिर्यस्या एवंभूता पत्रलेखां निवर्त्यमानामिच्छति समीहते । पञ्चायास्यति गमिष्यति । इति श्रुत्वा देवः प्रमाणम् । इत्याकर्ण्य चन्द्रापीडः प्रवेश्यतां गृहीत्वा गम्यतामित्यभिधायेत्युक्त्वा पुनः स्कन्धावारमेवाजगाम । इति शब्दद्योत्यमाह - केयूरकेति । हे केयूरक, धन्या स्पृहणीया च पत्रलेखा यां पत्रलेखां दुर्लभो दुःप्रापो देवीप्रसादः कादम्बरी प्रसन्नता एवं अनुबध्नात्यनुबन्धं करोति । स्कन्धावार प्रविशन्नेव पितुः समीपाजनकपादिभिज्ञाततरमतिशयेन ज्ञातपूर्वमासमन्ताल्लेखहारकमुदन्तहारकमद्राक्षीत् । धृततुरङ्गश्च स्थापिताश्वश्च प्रीत्या स्नेहेन विस्फारितेन विस्तीर्णीकृतेन चक्षुषा दूरादेवापृच्छत् । हे अङ्ग । कञ्चिदिति प्रश्ने । तातः पिता कुशली वर्तते । सर्वेण परिजनेन सह । तथा सर्वान्तःपुरेः सहाम्बा माता च कुशलिनीति । अथेति प्रश्नानन्तरमसावुपसृत्योपसरणं कृत्वा प्रणामानन्तरं नमस्कृतेरनु हे देव, यथाज्ञापयसि यथा कथयसि तथास्तीति भावः । इत्यभिधाय लेखद्वितयमर्पयांबभूवार्पितवान् । युवराजस्तु चन्द्रापीडस्तु शिरसि कृत्वा मस्तके निधाय स्वयमेवात्मनैव तल्लेखद्वयमुन्मुच्योन्मुद्य क्रमशः पपाठ पठितवान् ।
किं तदित्याह - स्वस्तीति । स्वस्ति यथा स्यात्तथोज्जयिनीतो विशालातः सकलराजन्यानां समग्रभूपानां शिखण्डैश्चूडाभिः शेखरीकृत चरणारविन्दं यस्य स परममाहेश्वरोत्युत्कृष्टशैवो महाराजाधिराजो महतां राज्ञामधीशस्तारापीडः सर्वसंपदा समग्रसमृद्धीनामायतनं गृहमेवंभूत चन्द्रापीडमुदञ्चदुल्लसच्चारु मनोहारि यच्चूडामणि -
- - -
- - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'कुमारभाव' शब्दस्य कौमार्यं स्वस्मिन्ननुरागश्चेति प्रकारद्वयेन घटिततया । 2 आलेखहारकः पत्रवाहकः ।
-
-
-
-
-
-
-
-
-
पाटा० - १ मधुरालापगर्भाभिः कथाभिः. २ निजस्कन्धावार. ३ अभिजगाम; जगाम. ४ अभिजाततरम्.
(स्कन्धावारे तारापीडस्य पत्रप्राप्तिः
पूर्वभागः ।
449