________________
चुम्बिन्युत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किं नु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तःपुरैानिमुपनीता । अंतो लेखवाचनविरतिरेव प्रेयाणकारणतां नेर्तव्या' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयत् ।
अथ 'यथाज्ञापयति तातः' इत्युक्त्वा तथैव च तुरगाधिरूढः प्रयाणपटहमदापयत् । समीपे स्थितं च महताश्चीयेन परिवृत महाबलाधिकृतं बलाहकपुत्र मेघनादनामानमादिदेश - "भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावती भूमिमागमिष्यतीति, तन्मुखेन विज्ञाप्या प्रणम्य देवी कादम्बरी - 'नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिमानां येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपटकूटजालिक -
***********
मरीचिचक्रं शिरोमणिदीप्तिपटलं तञ्चुम्बिन्युत्तमाङ्गे शिरसि चुम्बंधुम्बनं कुर्वनन्दयति प्रमोदयति । प्रजाः प्रकृतयः कुशलिन्यो मङ्गलवत्यः सन्ति । किं न्विति । किं नु भवतो दृष्टस्य कियानपि कालः समयो गतो व्यतीतः तेन नोऽस्माकं बलवत्युत्कण्ठोत्कलिका जाता यस्मिन्नेतादृशं हृदयमस्ति । देवी च तवाम्बा सहान्तःपुरैम्लानिमुपनीता प्रापिता । अत्र सहान्तःपुररित्यनेनोपमातरोऽपि त्वां समीहन्त इति सौजन्यातिशयः सूचितः । अतो हेतोर्लेखवाचनस्य विरतिरेवावसानमेव प्रयाणकारणतां प्रस्थाननिमित्ततां नेतव्या प्रापणीया । शुकनासेन प्रेषिते द्वितीयेऽपि लेखेऽमुमेवार्थं लिखितं लिपीकृतमवाचयदपठत् । अस्मिन्नेवावसरे समये समुपसृत्य समीपमागत्य वैशम्पायनोऽप्यपरमात्मीयं लेखद्वितयमस्मात्स्वकीयलेखादभिन्नार्थमेकाभिधेयमेव, अदर्शयद्दर्शितवान् ।
अथेति । तद्वाचनानन्तरं यथाज्ञापयति यथाज्ञां दत्ते तातः पिता । इत्युक्त्वा तथैव पूर्ववदेव तुरगाधिरूढः प्रयाणपटहं प्रयाणभेरीमदापयद्दापितवान् । समीपे स्थितं महताश्चीयेन बलेन परिवृतं महाबलं सैन्यं तत्राधिकृतं नियुक्तं बलाहकस्य पुत्र मेघनादनामानमादिदेशादिष्टवान् । भवता त्वया पत्रलेखया सहागन्तव्यं समेतव्यम् । नियतं निश्चित केयूरकस्तां पत्रलेखामादाय गृहीत्वैतावती भूमिमागमिष्यतीति तन्मुखेन केयूरकमुखेन प्रणम्य देवी कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकरणीया । नन्विति वितर्के । तेषां मर्त्यांना या निरनुरोधा निर्गतः कस्याप्यनुरोधः स्वकार्यप्रतिबन्धो यस्या, निर्गतः परिचयः संख्यानुवृत्तिर्यस्याम् । दुर्ग्रहेति । दुर्दुष्टो ग्रह आग्रहो हठो यस्यामेवंविधा प्रकृतिः स्वभावः सा प्रकृतिस्त्रिभुवननिन्दनीया स्यात् यत्तदोर्नित्याभिसंबन्धाद्येषां मर्त्यानामकाण्डेऽप्रस्तावे विसंवादिन्यो व्यभिचारिण्यः प्रीतयो निष्कारणवत्सलतां निर्निमित्तहितकारितां न गणयन्ति न मनस्यानयन्ति । एवममुना प्रकारेण गच्छता व्रजता मयात्मनः स्नेहः स्वकीया प्रीतिः कपट कैतवं तस्य कूटजालिका मिथ्याप्रपञ्चस्तद्रूपतां नीतः प्रापितः । भक्तिराराध्यत्वेन ज्ञानं वा साप्यलीका मिथ्या या - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'किन्तु इत्युचितः पाठः । 'सर्वं कुशलं किन्तु...' इति तदर्थः । 2 वाचनावसानं न कारणम्, अतः 'प्रयाणकालताम्' इत्युचितः पाठः । 3 इति शब्दोत्र नोचितः। 4 परिज्ञानम् । 5 कपटः (कपटकारी) यः कुटजालिकः असत्यव्यवहारवान् तद्धावस्ताम् । पाठा० - १ भवतोत्कृष्टस्य गतः; भवतो गतस्य. २ देवीसमेतं नो हृदयम्. ३ यतस्ततः. ४ अविरतिरेव. ५ प्रयाणकालताम; प्रयाणकालता. ६ कल्याणिना नेतव्या. ७ अवादयत्. ८ समीपस्थितम्, समीपावस्थितम्. ९ महता श्वेताश्चीयेन.
450
कादम्बरी ।
कथायाम