________________
ताम्, प्रापिता भक्तिरलीककाकुकरणकुशलताम्, पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम्, प्रकटितं वाङ्मनसयोभिन्नार्थत्वम् । आस्तां तावदात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पाश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतदृष्टयो महताम् । न खलु तथा देवी प्रति प्रबललज्जातिभारमन्थरं मे हृदयं यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपणवर्णितास्मद्गुणसंभारामस्थानपक्षपातिनीमसकृदुपालप्स्यते देवी । तत्कि करोमि ? गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहसस्य दास्यपत्रं देव्या हस्ते न दत्तमस्याः । दविकगौल्मिकेनेव देवीप्रसादेन गन्तुं सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतो -
***********
काकुर्वक्रोक्तिस्तस्याः करणे कुशलता दक्षता प्रापिता । उपचारो बाह्यविनयस्तन्मात्रेण मधुरं मिष्टमात्मार्पणं भवदीयोऽहमिति स्वस्यार्पण धूर्ततायां पातितं क्षिप्तम् । वाङ्मनसयोरिति । 'अचतुर-' इत्यादिना निपातः । भिन्नार्थत्वं विसंवादित्वं प्रकटितमाविष्कृतम् । तावदादावात्मास्तां तिष्ठतु । ममेति शेषः । अस्थानेऽयोग्य आहितः स्थापितः प्रसादो ययात एवाह - दिव्यानां योग्योचितैवंविधा देव्यपि कादम्बर्यपि दूरदेशागतेन चन्द्रापीडेन कारणं विना कथं सख्यं प्राप्तेति वक्तव्यतां वचनीयता नीता प्रापिता । मयेति शेषः । हि यस्माकारणादभूमिपातिता अस्थानपातिता व्यर्था निष्फलाः प्रसादामृतदृष्टयः प्रसन्नतापीयूषदृशः पश्चान्महतां वैलेक्ष्यं जनयन्त्युत्पादयन्ति । स्थानविशेषे प्रीतिविशेष प्रदर्शयन्नाह - न खल्विति । खलु निश्चये । न तथा देवी प्रति कादम्बरी प्रति प्रबला प्रकृष्टा या लज्जा त्रपा तस्या अतिभारोऽतिवीवधस्तेन मन्थरमलसं मे मम हृदयं चेतो यथा महाश्वेतां प्रति वर्तते । नियतं निश्चितमलीकाध्यारोपेण वर्णितः स्तुतोऽस्मद्गुणसंभारो यया तामस्थानेऽनुचितस्थले पक्षपातो विद्यते यस्या एवंविधामेनां महाश्वेता देवी कादम्बर्यसकृद्वारंवारमुपालप्स्यते । उपालम्भं दास्यतीत्यर्थः । तत्किं करोमि । कोप्युपायो नास्तीत्यर्थः । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - गरीयसीति । देहमात्रकस्य शरीरमात्रचारिणो गुरोराज्ञा निदेशो गरीयसी गरिष्ठा प्रभवति जायते । हेमेति । हेमकूटे निवासस्तव्यसनिना हृदयेन चित्तेन जन्मान्तरसहसस्य दास्यपत्रं लिखितमस्या देव्या हस्तेन दत्तम् । पितुराशाजनकनियोगादुज्जयिनीं गन्तुं सर्वथाहं गतोऽस्मि । केन । देवीप्रसादेन । कादम्बर्या महात्म्येनेत्यर्थः । देवयोनित्वात्तस्या इति भावः । केनेव । दविकगौल्मिकेनेव वनेचरसमूहेनेव । सोऽपि देवी उपोदकी तदनुरोधेनैव - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 लज्जा । 2 अत्रत्य इतरपरम्परागतमत्र विलिख्य आवश्यकोर्थः सूच्यते । 'हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं. जन्मान्तरसहसस्य दास्यपत्रं देव्याः । न दत्तमस्याटविकस्य गौल्मिकेनेव देवीप्रसादेन गन्तुम्, सर्वथा गतोस्मि पितुरादेशादुज्जविनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्मर्तव्यश्चन्द्रापीडचण्डालः । मा चैवं मंस्था... इति पाठः । टीका - तर्हि किं देवीं (कादम्बरीम) सर्वथा विस्मृतवानेव, अत आह - गुरोः (पितुः) आज्ञा देहमात्रकस्य केवलं देहस्य प्रभवति, तज्जनितत्वात् । अत एव हि कुत्सासूचकः कप्रत्ययः । अतः केवलं देहमुज्जयिनी नयामि । हृदयस्य तु हेमकूटनिवासो व्यसनतया परिणतः । अत एतादृशेन हृदयेन तु (कत्रा) नास्यैव जन्मनः कृते, अपि तु जन्मान्तत्सहसस्य दास्यपत्रं लिखित्वा देव्याः समीपे दत्तम् (अतो हृदयं तनिकटे स्थास्यति) । विस्मरणाभावे अन्यदपि कारणमाह - गौल्मिकेन सेनाधिकृतेन आटविकस्य वनचरस्येव, देव्याः (कादम्बर्याः) प्रसादेन अस्य (अर्थात मद्रपस्य जनस्य) गन्तुं न दत्तम्, सेनाध्यक्षो यथा चपलं वनेचरं नियमयति तथा देव्या अनुग्रहो मामपीत्यर्थः । किन्तु केवलं पितुरादेशाद्देमात्रेणोज्जयिनीं गतोस्मि ।
पाठा० - १ पातितमुपचारमधुरम्; प्रकाशितमुपचारमात्रमधुरम्. २ धूर्ततयात्मार्पणम्. ३ वृष्टयः. ४ देवमात्रस्य, हि देवमात्रकस्य. ५ देव्या न दत्तमस्याटविकस्य गौल्मिकेनेव. ६ असंगत.
चन्द्रापीडस्योज्जयिनीप्रस्थानम्
पूर्वभागः ।