________________
ञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च, मृतस्तु नोभयस्यापि । स्मर तावत्प्रियामेकपत्नी रतिं भगवति भर्तरि मकरकेतौ सकलाबलाजनहृदयहारिणि हैरहुतभुग्दग्धेऽप्यविरहितामसुभिः । पृथां च वार्ष्णेयीं शूरसेनसुतामभिरूपे सावज्ञविजितसकलराजकमौलिकुसुमवासिताशेषपादपीठे पत्यावखिलभुवनबलिभागभुजि पाण्डौ किंदममुनिशापानलेन्धनतामुपगतेऽप्यपरित्यक्तजीविताम् । उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्तत्वमभिमन्यावागतेऽपि धृतदेहाम् । दुःशलां च धृतराष्ट्रदुहितरं भ्रातृशतोत्सङ्गलालितामतिमनोहरे हरवरप्रदानवर्धितमहिम्नि सिन्धुराजे जयद्रथेऽर्जुनेन लोकान्तरमुपनीतेऽप्यकृतप्राणपरित्यागाम् । अन्याश्च रक्षःसुरासुरमुनिमनुजसिद्धगन्धर्वकन्यका भर्तृरहिताः श्रूयन्ते सहस्त्रशो विधृतजीविताः । प्रोन्मुच्येतापि जीवितं संदिग्धोऽप्यस्य समागमो यदि स्यात् ।
***********
त्यनेकामुपकृतिं कुरुते । मृतस्तूभयस्यापि स्वस्य परस्य च न किमप्युपकरोति । दृष्टान्तद्वारा एनमर्थं दृढीकुर्वन्नाह - स्मरेति । तावदादौ सकलः समग्रो योऽबलाजनः स्त्रीलोकस्तस्य हृदयहारिणि चित्तापहारिणि भगवति माहात्म्यवति भर्तरि प्राणवल्लभे मकरकेतौ श्रीमदने हरस्य महादेवस्य यो हुतभुग्नेनाग्निस्तेन दग्धे भस्मीभूते सत्यपि, एक एव पतिर्यस्यास्तामेकपत्नी प्रियां वल्लभां रतिमसुभिः प्राणैरविरहितां संयुक्तां स्मर स्मृतिगोचरीकुरु । यथा तया प्राणा नोज्झिताः, स्वभर्तुः कृत्यं च कृतम्, तथा त्वयापि विधेयमिति भावः । अन्यासामपि निदर्शनद्वारा पूर्वोक्तमर्थं दृढीकुर्वन्नाह - पृथामिति । पाण्डौ भर्तरि किंदम इत्यभिधया प्रसिद्धो यो मुनिस्तस्य शाप एवानलो वह्निस्तस्मिन्निन्धनतामिमतामुपगतेऽपि प्राप्तेऽप्यपरित्यक्तजीवितामनुज्झितप्राणां वार्ष्णेयीमन्धकवृष्णिकुलोत्पन्नां शूरसेनस्य राज्ञः सुतां पुत्री पृथा कुन्तीम् । स्मरेत्यस्य सर्वत्रापि संबन्धः । अथ भर्तारं विशेषयन्नाह - सावज्ञयेति । सावज्ञयैवानिच्छयैव विजितं स्वायत्तीकृतं यत्सकलं समग्रं राज्ञां समूहो राजकं तस्य मौलयः शिरांसि तेषां कुसुमानि पुष्पाणि तैर्वासितं भावितमशेषं पादपीठं समग्रपदासनं यस्य स तस्मिन् । अखिलेति । अखिलं समग्रं यद्भुवनं विश्वं तस्य यो बलिभागोभागधेयस्तं भुनक्तीति स तस्मिन् । अभिरूपे पण्डिते । तथा बालशशिनीव नवोदितचन्द्र इव नयनानन्दहेतौ नेत्रालादनिमित्ते विनयवति मर्यादावति विक्रान्ते शूरेऽभिमन्यावर्जुनसुते पञ्चत्वमागतेऽपि प्राप्तेऽपि धृतो देहो ययैवंभूतां बालामप्राप्तयौवनां विराटराज्ञो दुहितरं पुत्रीमुत्तरामुत्तरानाम्नीं स्मरेति संबन्धः । तथातिमनोहरेत्यभिरामे । हरेणेश्वरेण वरप्रदानेन वर्धितो वृद्धिं नीतो महिमा माहात्म्यं यस्य स तस्मिन् । सिन्धुराजे सिन्धुदेशनाथे जयद्रथाभिधानेऽर्जुनेन पार्थेन लोकान्तरं भवान्तरमुपनीते प्रापितेऽपि धृतराष्ट्रस्य राज्ञो दुहितरं सुतां भ्रातृणां यच्छतं तस्योत्सङ्गः क्रोडस्तेन लालितां पालितामकृतप्राणपरित्यागामेवंविधां दुःशलां स्मरेति संबन्धः । अमुमेवार्थं पुनढयन्नाह - अन्याश्चेति । रक्षांसि राक्षसाः, सुरा देवाः, असुरा दैत्याः, मुनयस्तापसाः, मनुजा मनुष्याः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, एतेषां कन्यकाः पुत्र्यो भर्तृरहिताः सत्यो विधृतजीविता अकृतप्राणपरित्यागा अन्याः पूर्वोक्तव्यतिरिक्ताः सहस्त्रशः श्रूयन्त आकर्ण्यन्ते । यदनुमरणेनापि न प्राप्यते तदपीष्टं त्वया प्राप्तव्यमेवेत्याह - प्रोन्मुच्येतापीति । तदा जीवितं प्रोन्मुच्येत त्यज्येत यद्यस्य मृतस्य संदिग्धोऽपि समागमः स्यात् । तच्च -
- - - - - - - टिप्प० - 1 मृगरूपं धृत्वा मृगीभिर्विपिने रममाणः किंदमो नाम मुनि{गयार्थिना पाण्डुना मृगबुद्ध्या निहतः शशाप - 'रममाणं मां संहृतवांस्त्वमपि रममाण एव मरिष्यसि । ततः कदाचिद्वसन्तप्रभावादुद्दीप्तमदनः पाण्डुर्माद्री रमयन्ममार । मायामनुमृतायामपि जीवन्ती कुन्ती युधिष्ठिरादीन् जनयामासेति महाभारतम् । (आ. प.) 2 सावज्ञम् (अवज्ञया सहितम्, सहेलमित्यर्थः) जितमित्यर्थ उचितः 1 3 'वासितपादपीठे' इत्यपि पाठः । 4 सुन्दरे इत्यर्थ उचितः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० . १ मकरध्वजे. २ हरनयनहुतभुजा दग्धे; हरहुंकारहुतभुजा दग्धे. ३ तथा. ४ सावज्ञावजित. ५ वासितपाप. ६ वलयभुजि. ७ उपागते. ८ अपरियुक्त. ९ जननयना. १० उपगते. ११ दुःशीलाम्. १२ बह्वयः. १३ विधुर. १४ संदिग्धो यदि समागमः स्यात.
चन्द्रापीडस्य महाश्वेतासान्त्वनम्
पूर्वभागः ।
365