________________
यसि क्लेशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम तदतिनिष्फलम् । अविद्वज्जनाचरित एष मार्गः । मोहविलसितमेतत्, अज्ञानपद्धतिरयम्, रभसाचरितमिदम्, क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयम्, मौर्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते । स्वयं चेन्न जहति न परित्याज्याः । अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागोऽयम् असह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु कमपि गुणमावहति । न तावत्तस्यायं प्रत्युज्जीवनोपायः, ने धर्मोपचयकारणम्, न शुभलोकोपार्जनहेतुः, न निरयपातप्रतीकारः, न दर्शनोपायः, न परस्परसमागमनिमित्तम् । अन्यामेव स्वकर्मफलपाकोपचितामसाववशो नीयते भूमिम् । असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जला -
***********
निक्षिप्यते । एतेन प्राणप्रियवियोग आत्मपरित्यागात्तस्यात्मनो गरिष्ठक्लेशे परिक्षेपो महीयानिति ध्वनितम् । यदेतदिति । नामेति कोमलामन्त्रणे । यदेतदनुमरणमन्वारोहणं तदतिनिष्फलं निरर्थकम् । यतः कुमारः प्रियः न तु विहितः पतिर्येनान्वारोहणं किं तु मृतानुमरणमात्रं तदतिनिष्प्रयोजनमिति भावः । अथ च निष्फलत्वं प्रदर्शयन्नाह - अविद्वज्जनेति । एषोऽन्वारोहणलक्षणो मार्गः पन्था अविद्वज्जना अपण्डितलोकास्तैराचरितः सेवितः । एतदिति । पूवोक्तं मोहविलसितमज्ञानविजृम्भितम् । अज्ञानेति । इयमन्चारोहणे प्रवृत्तिरज्ञानपद्धतिरज्ञानमार्गः । रभसेति । इदमन्वारोहणं रभसाचरितमविचारपूर्वकमाचरितम् । क्षुद्रेति । एषान्वारोहणलक्षणा प्रवृत्तिः क्षुद्रास्तुच्छबुद्धयस्तेषां दृष्टिर्ज्ञानम् । अतीति । अयमनुमरणलक्षणोऽतिप्रमादोऽतिशयेनानवधानता । मौर्यमिति । इदं पूर्वोक्तं मौर्यस्खलितं विहितच्युतिः । यत्तदोर्नित्याभिसंबन्धादाह - यदिति । यत्पितरि ताते, भ्रातरि सहोदरे, सुहृदि मित्रे, भर्तरि प्राणनाथे वोपरते मृते सति प्राणा परित्यज्यन्ते परिमुच्यन्त इति कर्मकर्चुक्तिः । तस्या लक्षणम् - 'यत्र कर्मैव कर्तुत्वं याति कर्ता तु नोच्यते । सुकरैः स्वैर्गुणैर्योगात्कर्मकर्तेति तद्विदुः इति । स्वयमिति । चेद्यदि स्वयं न जहति न परित्यजन्ति तदा प्राणा न परित्याज्या । बलान निष्कासनीया इत्यर्थः । किमर्थं तर्हि लोकानां मरणे प्रवृत्तिरित्यत आह - अत्र हीति । हीति निश्चये । अस्मिन्ननुमरणे विचार्यमाणे विचारणाविषयीक्रियमाणेऽयं प्राणपरित्यागः स्वार्थ एवात्मीयकृत्यमेव । तत्र हेतुमाह - असह्येति । आत्मनो जीवस्य न सोढुमशक्यासह्या या शोकवेदना शुग्व्यथा तस्याः प्रतीकारो निवृत्त्यपायस्तस्य भावस्तत्त्वं तस्मात् । उपेति । उपरतस्य मृतस्य तु न कमपि गुणं हितमावहत्यादधाति । एतदर्थं स्पष्टयन्नाह - न तावदिति । तावदादौ तस्योपरतस्य प्रत्युज्जीवनोपायः पुनः प्राणधारणप्रतिक्रिया न भवति । नेति । धर्मस्य पुण्यस्योपचयः पुष्टिस्तस्य कारणं निमित्तं न भवति । नेति । शुभलोकस्य स्वर्गलोकस्योपार्जनमर्जनं तस्य हेतुर्निदानम् । निरयेति । निरये दुर्गतौ पातः पतनं तस्य प्रतीकारः प्रतिक्रिया न । नेति । दर्शनस्यावलोकनस्याप्युपायो न । नेति । परस्परमन्योन्यं यः समागमः संबन्धस्तस्य निमित्तं कारणं न भवति । तत्र हेतुमाह - अन्यामिति । असौ मृतोऽवशः पराधीनः स्वस्य कर्मणोः स्वकृत पापपुण्ययोर्यः फलपाकस्तेनोपचितां पुष्टामन्यामेव कर्मभूमि नीयते प्राप्यते । अन्यदप्यनुमरणेनानिष्टमाह - असाविति । असौ पूर्वं मृत आत्मघातिनोऽनुमृतस्यैनसा पापेन केवलं संयुज्यते संयुक्तो भवति । अनुमरणाभावे गुणानाह - जीवंस्त्विति । जीवश्वसन्नुपरतस्य मृतस्यात्मनो जीवस्य जलाञ्जलिदानादिना बहूपकरो -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनायासेन परित्यज्यते इत्यादिना दुःखिजनकर्तृकस्त्याग एवोपक्रान्तः । तथा च कर्मणि प्रत्यये एवोचिता संगतिः न तु कर्मकर्तरि, तत्र प्राणानां स्वयं कर्तृत्वात् । 2 स्वार्थः स्वनिमित्त एव, इति व्याख्योचिता ।
पाठा० - १ अपि निष्फलम्. २ कुदृष्टिः. ३ प्रेम. ४ ते. ५ असह्यवेदना. ६ आपतितः. ७ न तस्यायम्. ८ योगः. ९ न च. १० नरकपतन. ११. फलपरिपाकोपचिताम्; फलपाकोपनीताम्. १२ कर्मभूमिम्. १३ आत्मघाती.
364
कादम्बरी ।
कथायाम्