________________
गौरवोऽभूतू, तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहृदयः सुतरामारोपितप्रीतिरभवत् । आर्टीकृतहृदयश्च शनैःशनैरेनामभाषत - 'भगवति, क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन्रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम्, येन रोदिषि । तदर्थमाजन्मतः प्रभृति समुचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः । संनिहिता अपि तणावज्ञयावधीरिता विषयाः । मुक्तान्यतिशयितशुनासीरसमृद्धीन्यैश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमनुचितैः संक्लेशैरुपनीता तनुः । गृहीतं ब्रह्मचर्यम् । आयोजितस्तपसि महत्यात्मा । वनिताजनदुष्करमपि कृतमरण्यावस्थानम् । अपि चानायासेनैवात्मा दुःखाभिभूतैः परित्यज्यते । महीयसा न तु यत्नेन गरी
***********
श्रितं गौरवं यस्मिन्नेवंविधश्चन्द्रापीडोऽभूत् । तदानीं त्विति । तदानीं तस्मिन्कालेऽपरेण दर्शितः प्रकटितः सद्भावः स्वभावो येनैवविधेन स्ववृत्तान्तकथनेन निजोदन्तनिवेदनेन तया च कृतज्ञतया कृतवेत्तृतया च हृतं हृदयं चित्तं यस्य स सुतरामत्यर्थमारोपिता स्थापिता प्रीतिर्यस्यामेवंविधश्चन्द्रापीडोऽभवदासीत् । आद्रीति । आर्टीकृतं हृदयं यस्य स शनैःशनैर्मन्दमन्दमेना महाश्वेतामभाषतावोचत । तदेवाह - भगवतीति । हे भगवति ! हे स्वामिनि, अन्यो लोकः क्लेशभीरुरकृतज्ञः सुखार्थं य आसङ्गः स्त्र्यादीनामभिषगस्तत्र लुब्धो लिप्सुः स्नेहसदृशं प्रीतियोग्यं कर्म तत्सुखेन सुखं तद्दुःखेन दुःखमनुष्ठातुं विधातुमशक्तोऽसमर्थो निष्फलेन निष्प्रयोजनेनाश्रुपातमात्रेण स्नेह प्रीतिमुपदर्शयन्बाह्यवृत्त्या प्रकाशयन्रोदिति रोदनं करोति । लोकेभ्यस्तस्या वैपरीत्यं प्रदर्शयन्नाह - त्वया त्विति । त्वया भवत्या कर्मणैव कर्तव्यरूपेणैव सर्वं समग्रमाचरन्त्या कुर्वन्त्या प्रेमोचितं स्नेहयोग्यं किमिव नाचेष्टितम् । अपि तु सर्वमेव विहितमिति भावः । येन कारणेन त्वं रोदिष्यश्रुपातं करोषि । तदर्थं पुण्डरीकार्थमाजन्मतः प्रभृति जन्म मर्यादीकृत्य समुचितो योग्यः परिचयः संगतिर्यस्यैवंविधः प्रेयानतिप्रियोऽसंस्तुत इवासंस्तुतोऽपरिचितस्तद्वदिव बान्धवजनः स्वजनवर्गः परित्यक्त उज्झितः । संनिहितेति । संनिहिता अपि समीपवर्तिनोऽपि तृणवद्यावज्ञावगणना तया विषया इन्द्रियार्था अवधीरिता अवगणिताः । अतीति । अतिशयिता तिरस्कृता शुनासीरस्येन्द्रस्य समृद्धिः संपद्यैरेवंविधान्यैश्वर्यसुखानि विभवसौख्यानि मुक्तानि त्यक्तानि । मृणालिनीति । अतितनीयस्यप्यतिकृशापि तनुः शरीरमनुचितैरयोग्यैः संक्लेशैतग्रहणरूपैर्नितरामत्यर्थं तनिमानं कृशत्वमुपनीता प्रापिता । केव । मृणालिनीव कमलिनीव । गृहीतेति । गृहीतं स्वीकृतं ब्रह्मचर्य ब्राव्रतम् । आयोजितेति । महति गरिष्ठे तपस्यात्मा आयोजितः स्थापितः । वनितेति । अत्रापिशब्दो भिन्नक्रमः । तेन वनिताजनस्य स्त्रीजनस्य दुष्करमपि दुःसाध्यमप्यरण्यावस्थानं कृतं विहितम् । अनेति । दुःखाभिभूतैरनायासेनैव परिश्रममन्तरेणैवात्मा परित्यज्यते । शरीरत्यागः क्रियत इति भावः । नत्विति । तु पुनरर्थकः । न केवलं परं महियसा गरिष्ठेन यत्नेन प्रयासेन गरीयसि महीयसि क्लेशे पूर्वोक्तस्वरूपे -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'समुपचितपरिचयः' इत्यपि पाठः । समुपचितो वृद्धि प्राप्त इति तदर्थः । 2 'वनिताजनदुष्करमप्यङ्गीकृतम्' इमान्येवाक्षराणि पदशय्यानुकूलानि । 3 दुःखितैः अनायासेन आत्मघातः क्रियते, महीयसा (अतिमहता) यत्नेन गरीयसि (अति, गुरुतमे) क्लेशे (तपस्यादौ) आत्मा न निक्षिप्यते । इति व्याख्यातव्यम् । 'महीयसा तु' इति नविरहित एव पाठः । दुःखितैः आत्मा अनायासेन त्यक्तुं शक्यते (वधोद्वन्धनोपायानां स्वाधीनत्वात्), गरीयसि क्लेशे (तपस्यादौ) तु महीयसा यत्नेन आत्मा निक्षिप्यते इति तदर्थः ।
पाटा० - १ आसीत्. २ तेनानेनापरेण. ३ सुतरामतिदूरम्. ४ जन्मन. ५ विमुक्तानि. ६ उचितैः. ७ दुष्करमप्यङ्गीकृतम्; दुष्करमतिकष्टमङ्गीकृतम्. ८ दुःखाभिहतः परित्यज्यते लघीयसा; दुःखाभिहतैः परित्यज्यन्ते महीयसा.
चन्द्रापीडस्य महाश्वेतासान्त्वनम्
- पूर्वभागः ।
363