SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 1 वन्यैश्च फेलमूलवारिभिर्वर्तमाना जपव्याजेन तद्गुणगणानिव गणयन्ती, त्रिसंध्यमत्र सरसि स्नानमुपस्पृशन्ती, प्रतिदिनमर्चयन्ती देवं त्र्यम्बकम्, अस्यामेव गुहायां तैरलिकया सह दीर्घं शोकमनुभवन्त्यवसैम् । साहमेवंविधा पापकारिणी निर्लक्षणा निर्लज्जा क्रूरा निःस्नेहा नृशंसा गर्हणीया निःप्रयोजनोत्पन्ना निःफलजीविता निर्रवलम्बना निःसुखा च । किं 'मँयादृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः ' इत्युक्त्वा पाण्डुना वल्कलोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनं दुर्निवारबाष्पवेगमपारयन्ती निवारयितु मुन्मुक्तकण्ठमतिचिरमुच्चैः प्रारोदीत् । चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन मधुरालापतया निःसङ्गतया तपस्वितया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपारूढ - **** ****** बहुविधैः नानाप्रकारैर्नियमशतैर्व्रतशतैः । वन्यैश्चेति । वनसंबन्धिभिः । फलेति । फलानि सस्यानि, मूलानि बुध्नाः, वारिणि जलानि, तैः कृ वर्तमाना प्रवर्तमाना । कृतप्राणधारणेत्यर्थः । जप इति । जपो जापस्तस्य व्याजेन मिषेण तस्य पुण्डरीकस्य गुणाः शौर्यादर्यस्तेषां गणाः समूहास्तानिव गणयन्ती गणानां कुर्वन्ती त्रिसंध्यं त्रिसायम् । अत्र सरस्यच्छोदनाम्नि तटाके स्नानमाप्लवमुपस्पृशन्ती कुर्वन्ती । प्रतीति । प्रतिदिनं प्रतिवासरं त्र्यम्बकं देवमीश्वरमर्चयन्ती पूजयन्ती । अस्यामिति । अस्यां प्रत्यक्षगतायामेव गुहायां कंदरायां तरलिकया सह दीर्घं शोकमनुभवन्ती साक्षात्कुर्वन्त्यवसं निवासमकरवम् । यत्तदोर्नित्याभिसंबन्धाद्या पूर्वोकक्ता सैवंविधाहं नान्या । इतस्तस्याः कियन्ति विशेषणानि प्रदर्शयन्नाह - पापेति । पापं कलुषं करोतीत्येवंशीला सा, निर्लक्षणा पाण्डुरपृष्ठा, निर्लज्जा निस्त्रपा, क्रूरा दुष्टा, निःस्नेहा निःप्रेमा, नृशंसा निस्त्रिंशा, गर्हणीया निन्दनीया, निःप्रयोजनं निरर्थकमुत्पन्ना प्रादुर्भूता, निःफलमवकेंशि जीवितं प्राणितं यस्याः सा तथा, निर्गतमवलम्बनमाश्रयो यस्याः सा तथा, निर्गतं सुखं सातं यस्याः सा तथा । चकारः समुच्चयार्थः । स्वस्य निन्दां कुर्वन्त्याह - किमिति । हे महाभाग हे सत्पुरुष, कृतं ब्राह्मणवधलक्षणं महापातकं ययैवंविधया दृष्टयावलोकितया पृष्टया पृच्छाविषयीकृतया वा मया किं करोति किं करिष्यति । अत्र भविष्यत्यर्थे वर्तमाना । इति पूर्वोक्तमुक्त्वा कथयित्वा पाण्डुना शुभ्रेण वल्कलोपान्तेन चोचाञ्चलेन वदनं मुखमाच्छाद्य । अत्र शुक्लत्वसाधर्म्यादुत्प्रेक्षते - शरदिति । शरद्धनात्ययस्तस्या मेघशकलेन जख शशिनमिव चन्द्रमिव । अत्र वदनस्य चन्द्रसादृश्यम्, वल्कलोपान्तस्य च शरन्मेघशकलसादृश्यमिति भावः । दुरिति । दुर्निवारो वाष्पो नेत्राम्बु तस्य वेगं रहो निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवत्युन्मुक्तकण्ठं यथा स्यात्तथातिचिरं चिरकालमुच्चैस्तारस्वरेण प्ररोदीद्रुदनमकार्षीत् । चन्द्रापीडस्त्विति । प्रथममेवादावेव तस्या महाश्वेताया रूपेण सौन्दर्येण, विनयेन प्रणिपातादिना, दाक्षिण्येनानुकूल्येन, मधुरो मिष्टो य आलापः संलापस्तस्य भावस्तत्ता तया, तथा निर्गतो यः सङ्गोऽभिष्वङ्गस्तस्य भावस्तत्ता तया । तपेति । तपस्विन्याभावस्तत्ता तया । तथा प्रशान्तत्वेन सौम्यप्रकृतित्वेन च । तथा निरभिमानतया निरहंकारतया च । तथा महानुभावत्वेन महाप्रभावत्वेन । तथा शुचितया पवित्रतया चोपारूढमा - टिप्पo - 1 वृत्तिं कुर्वाणा, इत्यर्थ उचितः । 2 स्नेह-सौन्दर्यादय इत्युचितम् । 3 लक्षणैः शुभलक्षणैः रहिता, इत्यर्थो योग्यः । पाठा० - १ कन्द. २ स्नात्वा ३ तया तरलिकया. ४ दीर्घशोकम्. ५ चिरमवसम् ६ क्रूरा च. ७ निःस्नेहा च ८ नृशंसा च; अतिनृशंसा च कृतज्ञा च ९ निरर्था निरवलम्बना. १० मया तथाभूतया ११ अतिकण्ठम् १२ चातितपस्वितया.
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy