________________
शोकस्य, दृष्ट्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चातिबहुलदुःखता स्नेहस्य, भावयित्वा चानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि गृहीतब्रह्मचर्या देवं त्रैलोक्यनाथमनाथशरणमिमं शरणार्थिनी स्थाणुमाश्रिता ।
अपरेयुश्च कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सह बन्धुवर्गेणागत्य सुचिरं कृताक्रन्दस्तैस्तैरुपायैः, अभ्यर्थनाभिश्च बह्वीभिः, उपदेशैश्चानेकप्रकारैः, सान्त्वनैश्च नानाविधैः, गुहागमनाय मे महान्तं यत्नमकरोत् । यदा च नेयमस्माद्व्यवसायात्कथंचिदपि शक्यते व्यावर्तयितुमिति निश्चयमधिगतवान् तदा निराशोऽपि दुस्त्यजतया दुहितृस्नेहस्य पुनःपुनर्मया विसृज्यमानोऽपि बहून्दिवसान्स्थित्वा सशोक एवान्तर्दह्यमानहृदयो गृहानयासीत् । गते च ताते ततःप्रभृति तस्य जनस्याश्रुमोक्षमात्रेण कृतज्ञतां दर्शयन्ती, तदनुरागकृशमिदमपुण्यबहुलमस्तमितलज्जममङ्गलभूतमनेकक्लेशायाससहसनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती -
*********** भाग्यस्य निष्ठुरतां कर्कशतां दृष्ट्वा विलोक्य । स्नेहस्य प्रेम्णोऽतिबहुलमतिदृढं दुःखं यस्मिंस्तस्य भावस्तत्ता तां चिन्तयित्वा विचार्य । सर्वभावानां समग्रपदार्थानामनित्यतां विनाशितां भावयित्वा भावनाविषयीकृत्य च । सर्वसुखानां समग्रसौख्यानामकाण्डेऽनवसरे भङ्गुरता भङ्गशीलतामवधार्य निश्चित्य । तातं पितरमविगणय्यानादृत्य । परिजनेन परिवारेण सह सकलं समग्रं बन्धुवर्गं स्वजनलोकं परित्यज्य दूरीकृत्य । विषयसुखेभ्य इन्द्रियसातेभ्यो मनश्चित्तं निवर्त्य पराङ्मुखीकृत्य । इन्द्रियाणि करणानि संयम्य नियन्त्र्य । गृहीतं स्वीकृतं ब्रहाचर्यं यया सा देवं त्रैलोक्यनाथमिममनाथानां शरणं स्थाणुमीश्वरं शरणार्थिनी त्राणाभिलाषिण्यहमाश्रिताश्रयणं कृतवती । ___ अपरेधुरिति । अपरेयुरन्येयुः कुतोऽपि कस्मादपि समुपलब्धः प्राप्तो वृत्तान्त उदन्तो येनैवंभूतस्तातः पिताम्बया मात्रा च सह तथा बन्धुवर्गेण सहागत्यैत्य सुचिरं चिरकालं यावत्कृतो विहित आक्रन्दो येन स तैस्तैरुपायैः प्रपञ्चैः, ताभिर्बह्वीभिरभ्यर्थनाभिः प्रार्थनाभिः, अनेकैरुपदेशैर्हितवाक्यैः, नानाविधैः सान्त्वनैः सामभिः, एभि कृत्वा मे मम गृहागमनाय महान्तं यत्नमुद्योगमकरोदसृजत् । यदा चेति । यदा यस्मिन्काल इयं महाश्वेतास्माद् व्ययवसायाद् व्यापृतेः कथंचिदपि कष्टेनापि व्यावर्तयितुं निवर्तयितुं न शक्यते न पार्यत इति निश्चयं निर्णयमधिगतवाञातवान् । तदेति । तस्मिन्काले निराशोऽपि निर्गतसमीहितोऽपि गृहं न गत इति । अत्र हेतुमाह - दुहित्रिति । दुहिता पुत्री तस्याः स्नेहस्य प्रेम्णो दुस्त्यजतया दुर्निवारतया । स्नेहाधिक्यं प्रदर्शयन्नाह - पुनरिति । पुनःपुनरिंवारं मया विसृज्यमानोऽपि गृहे गम्यतामिति कथ्यमानोऽपि बहूननेकान्दिवसान्दिनान्स्थित्वा सशोकः शुचा सह वर्तमानोऽन्तर्मध्ये दह्यमानं प्रज्वलमानं हृदयं चेतो यस्यैवंविध एव गृहानयासीदगमत् । 'गृहाः पुंसि' इति पुंस्त्वम् । गते चेति । ताते पितरि गते च सति ततःप्रभृति तद्दिनादारभ्य तस्य जनस्य पुण्डरीकस्याश्रुमोक्षमात्रेण नेत्रवारिमोचनेनैव कृतं जानातीति कृतज्ञस्तस्य भावस्तत्ता तां दर्शयन्ती प्रकाशयन्ती । पुनः किं कुर्वन्ती । दग्धशरीरमेव दग्धशरीरकम् । स्वार्थे कः । तच्छोषयन्ती कृशतां प्रापयन्ती । अथ शरीरकं विशेषयन्नाह - तदिति । तस्मिन्कुमारे पुण्डरीके योऽनुरागः स्नेहस्तेन कृशं सूक्ष्ममपुण्यबहुलं पापदृढम् । अस्तेति । अस्तमितास्तं प्राप्ता लज्जा त्रपा यस्मिंस्तदमङ्गलभूतमशिवरूपम् । अनेकेति । अनेकेऽसंख्या ये क्लेशा दुःखानि तेषामायासाः परिश्रमास्तेषां सहसं तस्य निवासो गृहस्तम् । कैः।
- - - - - - - - - - - - - - - - - - - टिप्प० - 1 गृहगमनाय इत्यपि पाठान्तरो मनोरमः । 2 अपुण्यानि (पापानि) बहुलानि यस्मिंस्तत्, इति व्याख्यानमुचितम् ।
पाठा० - १ दुःखबहुलताम्. २ परिजनेन मनसा सकल. ३ निगृह्य गृहीत. ४ त्रैलोक्यनाथशरणम्. ५ आश्रितवत्यस्मि. ६ बहुभिः. ७ परिसान्त्वनैः. ८ गृहगमनाय. ९ यदा तु न कथंचिदप्यस्मादध्यवसायाद् व्यावर्तयितुं शक्यत इति. १० दुश्छेदतया. ११ गृहम्. १२ जनास्याश्रुमोक्षमात्रेण किल; देवस्य कृतेऽश्रुमोक्षमात्रेण. १३ बहुलमपि. १४ क्षपयन्ती.
(महाश्वेतावृत्तान्तोपसंहारः
पूर्वभागः ।
361