________________
तावद्ध्रियन्ताममी प्राणाः' इत्यभिदधाना पादयोर्मे न्यपतत् । अहं तु सकललोकदुर्लङ्घ्यतया जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशामृगतृष्णिकया, कपिञ्जलस्य प्रत्यागमनकाङ्क्षया च, तस्मिन्काले तदेव युक्तं मन्यमाना नोत्सृष्टवती जीवितम् । आशया हि किमिव न क्रियते । तां च पापकारिणी कालारात्रिप्रतिमां वर्षसहस्रायमाणां यातनामयीमिव दुःखमयीमिव नकरकमयीमिवाग्निमयीमिवोत्सैन्ननिद्रा तथैव क्षितितले विचेष्टमाना रेणुकणधूसरैरश्रुजलार्द्रकपोलसंदानितैर्विमुक्तव्याकुलैः शिरोरुहैरुपरुद्धमुखी निर्दयाक्रन्दजर्जरस्वरक्षयक्षामेण कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती ।
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेवाक्षमालां गृहीत्वा, बुद्ध्वा निःसारतां संसारस्य, ज्ञात्वा च मन्दपुण्यतामात्मनः, निरूप्य चाप्रतीकारदारुणतां व्यंसनोपनिपातानाम्, आकलय्य दुर्निवारता -
*****:
*****
यन्तां धार्यन्ताम् । तत्प्रत्यागमनकाल एवावधिर्येषामिति प्राणविशेषणं वा । इत्यभिदधानेतिब्रुवाणा मे मम पादयोश्चरणयोर्न्यपतत्पपात । अहं त्विति । तस्मिन्काले तदेव तरलिकोक्तमेव युक्तं न्याय्यं मन्यमाना ज्ञायमाना जीवितं प्राणितं नोत्सृष्टवती न त्यक्तवती । हेतुचतुष्टयं प्रदर्शयन्नाह - सकलेति । जीविततृष्णायाः प्राणधारणगर्धायाः सकललोकैः समग्रजनैर्दुर्लङ्घ्यतया दुरतिक्रम्यतया । स्त्रीस्वभावस्य प्रमदानिसर्गस्य क्षुद्रतया तुच्छतया च । तया चेति । तया पूर्वोक्तया तस्य महापुरुषस्य वचनेनोपनीतया प्राप्तया दुराशा दुष्टा स्पृहा सैव मृगतृष्णिका मरीचिका तया । तथा कपिञ्जलस्य प्रत्यागमनं पश्चादागमनं तस्य काङ्क्षा वाञ्छा तया । आशाया बलीयस्त्वं प्रदर्शयन्नाह - आशा हीति । हि निश्चितम् । आशया स्पृहया किमिव न क्रियते किं न विधीयते । ततश्च तस्मिन्नेव सरस्तीरे तरलिका द्वितीया यस्या एवंविधा पापकारिण्यहं तां क्षपां रजनीं क्षपितवती क्षयं नीतवती । इतो रात्रेर्विशेषणानि प्रतिकूलकारित्वात्कालरात्रिस्तत्प्रतिमां तत्सदृशीम् । दुःखस्य दुःसहत्वाद्वर्षाणां सहस्रं तद्वदाचरमाणामित्यर्थः । यातनेति । यातना तीव्रवेदना तन्मयीमिव अत्यन्तदुःखजनकत्वात् । दुःखेति । दुःखं कृच्छ्रं तन्मयीमिव । स्वजनविरहेण शरीदुःखस्यैवानुभूयमानत्वात् । नरकेति । नरकं दुर्गतिस्तन्मयीमिव । निन्दितात्यन्तदुःखोत्पादकत्वात् । अग्नीति । अग्निर्वह्निस्तन्मयीमिव । तीव्रदीर्घज्वराक्रान्तत्वात् । पुनः कीदृशी । उत्सन्नेति । उत्सन्ना मूलत उच्छिन्ना निद्रा प्रमीला यस्याः सा । तथैवेति । तथैव पूर्वोक्तप्रकारेणैव क्षितितले पृथ्वीतले विचेष्टमाना विलुटमाना । रेण्विति । रेणूनां रजसां कणास्तैर्धूसरैरीषत्पाण्डुरैरश्रुजलैर्नेत्रवारिभिरार्द्रा स्विन्नौ कपोलौ तत्र संदानितैः संयतैः विरहवशात् । विमुक्तत्वेनानियन्त्रितत्वेन व्याकुलैर्विसंस्थुलैः शिरोरुहैः केशैरुपरुद्धमाच्छादितं मुखमास्यं यस्याः सा । निर्दयमिति । निर्दयं निःकरुणं य आक्रन्दः पूत्कारस्तेन जर्जरः शिथिलो यः स्वरो ध्वनिस्तस्य क्षयो विनाशस्तेन क्षामेण कृशेनैवंविधेन कण्ठेन करणभूतेन निर्दयक्रन्देनैव क्षपां क्षपितवतीति भावः ।
प्रत्युषसीति । प्रत्युषसि प्रभात उत्थाय तस्मिन्नेव सरसि कासारे स्नात्वाप्लवं विधाय कृतो विहितो निश्चयो यया सा । तत्प्रीत्या तत्स्नेहेन तमेव कमण्डलुं तत्करकुण्डिकामादाय गृहीत्वा तान्येव तद्देहलग्नान्येव वल्कलानि चोचानि, तामेव तदीयामेवाक्षमालां जपमालां गृहीत्वा । संसारस्य संसृतेर्निःसारतामसारतां बुद्ध्वावगम्य । आत्मनः स्वस्य मन्दपुण्यतां ज्ञात्वा च । व्यसनोपनिपातानां कष्टोपनिपातानामप्रतीकारं च तद्दारुणं चाप्रतीकारदारुणं तस्य भावस्तत्ता तां निरूप्य च कैथयित्वा । शोकस्य शुचो दुर्निवारतामाकलय्याकलनां कृत्वा । दैवस्य टिप्पo - 1 अश्रुजलार्द्रयोः कपोलयोः संदानितैः संलग्नैरित्यर्थः । 2 नास्ति प्रतीकारः प्रतिविधानं येषां ते च दारुणाश्चेति सरलोऽर्थः । 3 दृष्ट्वा, निर्णीय वा, इत्यर्थ उचितः ।
पाठा० - १ पादयोरपतत्. २ स्त्रीस्वभावतायाः ३ दुराशया. ४ पापकारिणीम्. ५ उत्पन्ननिशाम्. ६ विमुक्तैरव्याकुलैः ७ मुखा ८ क्षयितवती. ९ अस्मिन्. १० उपतापानाम्.
360
-
कादम्बरी ।
कथायाम्