________________
र्यत हृदयम् । किंकर्तव्यतामूढा च तरलिकामब्रवम् - 'अयि, न जानासि । कथय किमेतत्' इति । सा तु तदवलोक्य स्त्रीस्वभावकातरा तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता वेपमानाङ्गयष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत् - 'भर्तृदारिके, न जानामि पापकारिणी । किंतु महदिदमाश्चर्यम् । अमानुषाकृतिरेष पुरुषः । समाचासिता चानेन गच्छता सानुकम्प पित्रेव भर्तीदारिका । प्रायेण चैवंविधा दिव्योः स्वप्नेऽप्यविसंवादिन्यो भवन्त्याकृतयः, किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ्याभिधाने पश्यामि । अतो युक्तं विचार्यात्मानमस्मात्प्राणपरित्यागव्यवसायान्निवर्तयितुम् । अतिमहत्खल्विदमाश्वासस्थानमस्यामवस्थायाम् । अपि च तमनुसरन्गत एव कपिञ्जलः । तेस्माच्च 'कुतोऽयम्, को वायम्, किमर्थं वानेनायमपगतासुरुत्क्षिप्य नीतः, क्व वा नीतः, कस्माच्चासंभावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता' इति सर्वमुपलभ्य जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरणमध्यासितम् । पश्चादप्येतद्भविष्यति । नच जीवन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति, तेन तत्प्रत्यागमनकालावधयोऽपि -
***********
तदित्याह - अयीति । अयि कोमलामन्त्रणे । न जानासि नावबुध्यसे । एतत्पूर्वोक्तं किमिति कथय निवेदय । ममेति शेषः । सा त्विति । सा तरलिका तत् पूर्वोक्तमवलोक्य निरीक्ष्य स्त्रीस्वभावेन कातरा भीरुस्तस्मिन्क्षणे शोकाभिभाविना शुङ्नाशिना । शोकमभिभवतीत्येवंशीलेनेति भयविशेषणं वा । भयेन भीत्याभिभता पराभता वेपमाना कम्पमानाङगयष्टिर्यस्याः सैवंविधा मम मरणशङकया च विषण्णहृदया खेदखिन्नचित्ता वराकी दीना सकरुणं सदयमित्यवादीदवोचत् । इतिशब्दाभिधेयमाह - भत्रिति । हे भर्तुदारिके, अहं पापकारिणी न जानामि । अपि तु जानामि । किं त्विदं महदाश्चर्यं महत्कौतुकम् । एष पुरुषोऽमानुषाकृतिर्दिव्याकृतिः । अनेन पुरुषेण गच्छता व्रजता पित्रेव जनकेनेव सानुकम्प सदयं भर्तृदारिका राजदुहिता समाश्वासिता स्वस्थीकृता । प्रायेण बाहुल्येनैवंविधा दिव्या आकृतयः स्वप्नेऽप्यविसंवादिन्योऽव्यभिचारिण्यो भवन्ति । साक्षात्प्रत्यक्षेण किमुत भण्यते । अस्य पुरुषस्य मिथ्याभिधानेऽसत्यभाषणे विचारयन्ती विमर्श कुर्वन्त्यल्पमपि स्तोकमपि कारणं निदानमहं न च पश्यामि नावलोकयामि । अतो हेतोर्विचार्य विमृश्यात्मानमस्माप्राणपरित्यागलक्षणो यो व्यवसायो व्यापारस्तस्मानिवर्तयितुं युक्तं न्याय्यम् । अतीति । खलु निश्चयेन । अतिमहदिदं पूर्वोक्तमाश्चासस्थानामाश्वासनस्थलमस्यामवस्थायाम् । अपि च तं पुण्डरीकमनुसरन्ननुगच्छन्गत एव कपिञ्जलः । तस्माच्चेति । तस्माद्धेतोः कुतः स्थानादयं समागतः, को वायम्, किमर्थमनेन पुंसायमपगतासुर्गतप्राण उत्क्षिप्योत्पाट्य नीतः, क्व वा कस्मिन्स्थाने वा नीतः प्रापितः, कस्माच्चासंभावनीयेनाचिन्तनीयेन समागमस्याशा तस्याः प्रदानेन पुनरमुना पुरुषेण भर्तृदारिका समाचासिता । इति समुपलभ्य प्राप्य जीवितं मरणं वा समाचरिष्यसि विधास्यसि । हीति निश्चये । अध्यासितं चिन्तितं मरणमदुर्लभं सुलभम् । स्वायत्तत्वादिति भावः । पश्चादपि वृत्तान्तोपलब्ध्यनन्तरमप्येतन्मरणं भविष्यति । न चेति । जीवञ्छसन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा न वीक्ष्य न च स्थास्यति, तेन कारणेन तस्य कपिञ्जलस्य यावात्प्रत्यागमनकालस्यावधयो मर्यादास्तावदमी प्राणा ध्रि - टिप्प० - 1 'अयि जानासि इत्यपि पाठः । नकारपाठे योजनाक्लेशः प्रकृताऽपरिपोषश्च । 'अयि जानासि' अत्र तु काकुः । अर्थात् जानासि किमित्याशयः । 2 अहं न जानामीति निषेध एव विवक्षितः । 3 अध्यवसितमित्येव मनोरमम् । अध्यवसितं कर्तुमभिप्रेतमिति तदर्थः । 4 प्रत्यागमनकालः अवधिर्येयां ते इति व्याख्योचिता। पाठा० - १ न जानासि किमेतत्. २ दिव्या भारत्यः. ३ साक्षात्कृत्वाः. ४ युक्तमिवात्मानम्. ५ आश्वासनस्थानम्. ६ तस्मात्. ७ च. ८ सर्वमिदमुपलभ्य. ९ न दुर्लभम्. १० अध्यवसितम्.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पुण्डरीकशरीरस्य गगने नयनम्
पूर्वभागः ।
359)