________________
दिव्याकृतिः, स्वच्छवारिधवलेन देहप्रभावितानेन क्षालयन्निव दिगन्तराणि, आमोदिना च शरीरतः क्षरता शिशिरेण शीतज्वरमिव जनयतामृतशीकरवर्षेण तुषारपटलेनेवानुलिम्पन्, गोशीर्षचन्दनरसच्छटाभिरिवासिञ्चन्, एरावतकरपीवराभ्यां बाहुभ्यां मृणालधवलाङ्गुलिभ्यां शीतैलस्पर्शाभ्यां तमुपरर्तमुत्क्षिपन्, दुन्दुभिगम्भीरेण स्वरेण 'वत्से महाश्वेते, न त्याज्यास्त्वया प्राणाः । पुनरपि तवानेन सह भविष्यति समागमः' इत्येवं पितेवाभिधाय सहैवानेन गगनतलमुदपतत् । अहं तु तेन व्यतिकरेण सभया सविस्मया सकौतुका चोन्मुखी किमिदमिति कपिञ्जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तरमुदतिष्ठत् । ' दुरात्मन्, क्व मे वयस्यमपहृत्य गच्छसि' इत्यभिधायोन्मुखः संजातकोपो बध्न - न्सावेगमुत्तरीयवल्कलेन परिकरेंम्, उत्पत्योत्पतन्तं तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागण-मध्यमविशन् ।
मम तु तेन द्वितीयेन प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशोकायाः सुतरामदी -
***********
महापुरुषा उत्तमपुमांसस्तेषां लक्षणैः सामुद्रिकशास्त्रोक्तैर्ध्वजादिभिश्चिलैरुपेतः सहितः । दिव्येति । दिव्या मनोहराकृतिराकारो यस्य सः | स्वच्छेति । स्वच्छं निर्मलं यद्वारि जलं तद्वद्धवलेन शुभ्रेण । देहेति । देहप्रभायाः शरीरद्युतेर्वितानेन समूहेन दिगन्तराणि दिग्विवराणि क्षालयन्निव निर्मलानि कुर्वन्निव । आमोदीति । आमोदिना परिमलवता तस्य देवस्यामृतमयत्वात् शरीरतो देहतः क्षरता प्रसवता । शिशिरेति । शिशिरेण शीतलेन शीतज्वरमिव जनयतोत्पादयता एवंविधेनामृतशीकरवर्षेण पीयूषशीकरवृष्टया तुषारपटलेनेव हिमसमूहेनेवानुलिम्पन्विलेपयन् । दिगन्तराणीति शेषः । गोशीर्षेति । गोशीर्षाभिधानं यच्चन्दनं तस्य रसो द्रवस्तस्य छटाभिरिवासिञ्चन्नासेकं कुर्वन् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य करः शुण्डादण्डस्तद्वत्पीवराभ्यां पुष्टाभ्यां बाहुभ्यां भुजाभ्याम् । मृणालेति । मृणालं बिसं तद्वद्धवलाः श्वेता अङ्गुल्यः करशाखा ययोः । शीतलेति । शीतलः शिशिरः स्पर्शो ययोस्ताभ्यां बाहुभ्यां तमुपरतं मृतमुत्क्षिपन्नुत्पाटयन् । इत्येवं प्रकारेण पितेव जनक इवाभिधायेत्युक्त्वानेन मृतकेन सहैव गगनतलमाकाशतलमुदपतदुत्पपात । इतिद्योत्यमाह - दुन्दुभीति । दुन्दुभिः पटहस्तद्वद् गम्भीरेण स्वरेण शब्देन । हे वत्से महाश्वेते, त्वया प्राणा असवो न त्याज्या न हेयाः । अनेन पुण्डरीकेण सह पुनरपि तव समागमो भविष्यति । अहं त्विति । अहं तु तेन व्यतिकरेण तेन वृत्तान्तेन सभया सातङ्का, सविस्मया साश्चर्या, सकौतुका सकुतूहला चोन्मुख्यूर्ध्ववदना किमिदमिति कपिञ्जलमपृच्छमप्राक्षम् । असौ कपिञ्जलोऽदत्त्वैवानुक्त्वैवोत्तरं प्रतिवचः ससंभ्रमं सत्वरम् । 'संभ्रमस्त्वरिते भये' इति कोशः । उदतिष्ठदुत्थितो बभूव । हे दुरात्मन् मे मम वयस्यं मित्रमपहृत्यापहरणं कृत्वा क्व गच्छसीत्यभिधायोक्त्वोन्मुख ऊर्ध्ववदनः संजातकोपः समुत्पन्नरोषः सवेगमुत्तरीयवल्कलेन परिकरं कटिभागं बध्नन्बन्धनं कुर्वन् । उत्पत्योत्पतनं कृत्वा तमेवोत्पतन्तं शशिमण्डलविनिर्गतपुरुषमेवानुसरन्ननुगच्छन्नन्तरिक्षमाकाशमुदगादूर्ध्वमगात् । मे मम पश्यन्त्या विलोकयन्त्या एव च सर्व एव तारागणमध्यं नक्षत्रवृन्दमध्यमविशन्प्रवेशं चक्रुः ।
मम त्विति । तेन कपिञ्जलगमनेन द्वितीयेन द्वितीयप्रियतममरणेनेव द्विगुणीकृतः शोको यस्या एवंविधाया मम सुतरामत्यर्थं हृदयमदीर्यत विदीर्णं बभूव । किंकर्तव्यतामूढाहं महाश्वेता तरलिकामब्रवम् । किं -
टिप्प० - 1 गोशीर्षाकारे मलयपर्वतैकदेशे जातश्चन्दनोपि तन्नाम्ना व्यपदिश्यते । अतितमां सुरभिः शीतलश्चायम् ।
पाटा० - १ शीकरनिकर. २ गोशीर्षक ३ अतिशीतल. ४ उत्क्षिप्य ५ दुन्दुभिनाद. ६ परित्याज्याः ७ इत्येवमादृतः पितेव ८ दुरात्मन्नन्तक ९ सवेगम्. १० उपेत्य.
358
कादम्बरी |
कथायाम्