________________
यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि, तदलं श्रूयताम् ।
ततश्च तथाभूते तस्मिन्नवस्थान्ते मरणैकनिश्चयात्तत्तद्बहु विलप्य तरलिकामब्रवम् - 'अयि उत्तिष्ठ निष्ठुरहृदये, कियेंद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम्' इति ।
अत्रान्तरे झटिति चन्द्रमण्डलनिर्गतो गगनादर्वतीर्य केयूरकोटिलग्नममृतफेनपिण्डपाण्डुरं पवनतरलमंशुकोत्तरीयमाकर्षन्, उभयकर्णान्दोलितकुण्डलमणिप्रभानुरक्तगण्डस्थलः, स्थूलमुक्ताफलतया तारागणमिव ग्रथितमतितारं हारमुरसा दधानः, धवलदुकूलपल्लवकॅल्पितोष्णीषग्रन्थिः, अलिकुलनीलकुटिलकुन्तलनिकरविर्कटमौलिः, उत्फुल्लकुमुदकर्णपूरः, कामिनीकुचकुङ्कुमपत्रलतालाञ्छितांसदेशः, कुमुदधवलदेहः, महाप्रमाणः पुरुषः महापुरुषलक्षणोपेतः, -
*********** यामि ब्रवीमि । ययेति । यया दुराशैव मृगतृष्णिका मरुमरीचिका गृहीता स्वीकृताऽहं महाश्वेता इदमुपरतकल्पमवस्तुप्रायम् । अवस्तुत्वादेव न स्वसत्ताकमित्याह - परेति । परकीयमिवान्यदीयमिवात एव भारभूतमप्रयोजनं निरर्थकं न कृतं जानातीत्यकृतज्ञं हतशरीरं दुःशरीरं वहामि धारयामि । तत्पूर्वोक्तमलं कृतमेतद्व्यतिरिक्तं श्रूयतामाकर्ण्यताम् ।
ततश्चेति । तदनन्तरं तथाभूते तादृशे तस्मिन्पूर्वप्रतिपादितेऽवस्थान्ते दशान्तरे मरणस्य निमीलनस्यैकनिश्चयादद्वितीयनिर्णयात्तत्तत्पूर्वोक्तं बहु प्रचुरं विलप्य विलप्य बहुविलापान्कृत्वा तरलिकामित्यब्रवमकथयम् । इतिशब्दद्योत्यमाह - अयीति । अयि कोमलामन्त्रणे । निष्ठुरहृदये कठिनचित्ते, उत्तिष्ठोत्थानं कुरु । कियद्रोदिषि कियदपरिमितं रोदनं लोकप्रसिद्धं करोषि प्रणयसि । काष्ठान्येधास्याहृत्यानीय चितां चित्यां विरचय निष्पादय । जीवितेश्वरं प्राणनाथमनुसराम्यनुगच्छामि ।
अत्रान्तरेऽस्मिन्समये झटिति शीघ्रं चन्द्रमण्डलाच्छशिबिम्बाद्विनिर्गतो निःसृतो गगनादाकाशादवतीर्योत्तीर्य केयूरकोटिलग्नं किरीटाश्रिविलग्नममृतस्य पीयूषस्य फेनपिण्डो डिण्डीरचयस्तद्वत्पाण्डुरं घेतम् । पवनेन वायुना तरलं कम्पमानमुत्तरीयं च तदंशुकं चांशुकोत्तरीयम् । राजदन्तादिषु पाठात्पूर्वप्रयोगः । आकर्षनाकर्षणं कुर्वन् । इतो द्विजमण्डलविनिर्गतनरविशेषणानि । उभयेति । उभौ च तौ कर्णो चेति कर्मधारयः । वृत्तिविशेष उभशब्दस्योभयादेशः । तयोरान्दोलिते वेल्लिते कुण्डले कर्णभूषणे तयोर्मणिप्रभा रत्नकान्तिस्तयानुक्त गण्डस्थल यस्य सः । स्थूलेति । स्थूलानि मुक्ताफलानि यत्र तस्य भावस्तत्ता तया । श्वेतत्ववर्तुलत्वसाम्यादाह - तारेति । ग्रथितं गुम्फितं तारागणमिव नक्षत्रवृन्दमिवातितारमतिमनोहरं हारं मुक्ताप्रालम्बमुरसा वक्षःस्थलेन दधानो बिभ्राणः । धवलेति । धवलं वेतं यहुकूलं दुगूलं तस्य पल्लवेन प्रान्तदेशेन कल्पितो विहित उष्णीषग्रन्थिमूर्धवेष्टनग्रन्थिर्येन सः । अलीति । अलिकुलवद् भ्रमरसमूहवन्नीलाः श्यामाः कुटिला वक्राः कुन्तलाः केशास्तेषां निकरः समहस्तेन विकटो विपलो मौलिर्यस्य सः । उत्फल्लेति । उत्फलं विकसितं यत्कमदं कैरवं तस्य कर्णपूरं कर्णाभरणं यस्य सः । कामिनीति । कामिन्या योषितः कुचयोः स्तनयोः कुङ्कुमपत्रलता केसरपत्रभङ्गिस्तया लाञ्छितश्चिह्नितोऽसंदेशः स्कन्धप्रदेशो यस्य सः । कुमुदेति । कुमुदवच्छेतकमलवद्धवलः शुभ्रो देहः शरीरं यस्य सः । महाप्रमाणोऽतिदीर्घ एवंविधः पुरुषो नरः । महेति । टिप्प० - 1 मृतप्रायम् । 2 गाढालिङ्गनपूर्वकं पार्श्वशयनावस्थायामसे कुङ्कुमसंक्रान्तिरित्याशयः ।
-
-
-
-
-
-
पाठा० - १ हतशरीरकम्. २ अवस्थान्तरे. ३ निश्चया. ४ तत्. ५ रोदिमि. ६ अवतीर्य च. ७ अतितारहारम्. ८ कम्पित. ९ निचित.
पy
(पुण्डरीकशरीरस्य गगने नयनम्
( पूर्वभागः ।।
357