________________
भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्पः, कथं च तादृशानामप्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् । उपरतेन च सह जीवन्त्याः कीदृशी समागतिः । अतो निःसंशयमसावुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुरलोक नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारवृत्तयः । चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अनेकविधाश्च कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशङ्क्येत जीवितंप्रदानादृते । न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरप्रवृत्त एष पन्थाः । तथा हि । विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्याकामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य च्यवनस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धन योजि -
*********** नास्त्येवेति भावः । प्राप्तव्यमिष्टं कथं स्यादित्याह - भगवत्येति । भगवत्या त्वया ततस्तस्मान्महापुरुषात्पुनः स्वयमेवात्मनैव समागमः कुमारेण सह संगतिस्तत्प्रतिपादिका सरस्वती वाणी समाकर्णिता श्रुता । तथापि तदर्थं न निश्चिनोमीत्यत आह - अन्विति । अनुभवेऽनुभूते वस्तुनि को विकल्पः कः सदेहः । अत्रोपपादकमाह - कथं चेति । तादृशानां न विद्यते प्राकृता इतरजनसाधारणाकृतिराकारो येषामेवंविधानामवितथगिरां यथार्थवचसां महात्मनां महापुरुषाणां गरीयसापि कारणेनोत्कृष्टेनापि हेतुना गिरि वाण्या कथं वैतथ्यमनृतत्वमास्पदं स्थानं कुर्यात् । नन्वियं सरस्वती वितथैव, मृतकुमारेण सह समागमस्य बाधितत्वादित्यत आह - उपरतेति । उपरतेन मृतेन सह जीवन्तयाः कीदृशी समागतिः संगतिः । तर्हि सरस्वती वितथैवेत्यत आह - अत इति । अतः कारणात् । निःसंशयं निश्चितमुपजातं समुत्पन्नं कारुण्यं घृणा यस्मिन्नेवंविधो महात्मासौ पुरुषः पुनः प्रत्युज्जीवनार्थं पुनःसज्जीकरणार्थमेवैनं पुण्डरीकमुक्षिप्योत्पाट्य सुरलोकं देवलोकं नीतवान्प्रापितवान् । अत्रानुकूलमाह - अचिन्त्य इति । हीति निश्चितम् । महात्मनां महानुभावाना प्रभावो महिमाचिन्त्योऽनाकलनीयः । नन्वश्रुतपूर्वमिदं कथं स्यादित्यत आह - बह्विति । संसारवृत्तयः संसृतेः प्रवृत्तयो बहुप्रकारा अनेकभेदभिन्नाश्चेत्यर्थः । एतादृशं मम भाग्यं क्व स्यादित्याह - चित्रं चेति । दैवं भाग्यं चित्रं विविधप्रकारम् । ननु सर्वेषामेकविधम् । ननु तस्य कुमारप्रत्युज्जीवने कुतः सामर्थ्यमित्यत आह - आश्चर्येति । आश्चर्यमद्भुतं तस्यातिशय आधिक्यं - तेन युक्ताः सहितास्तपःसिद्धयो भवन्ति । ननु पुण्डरीकस्यैतादृशं कर्म कथं स्यात्, येन प्रत्युज्जीवनं स्यादित्याह - अनेकेति । कर्मणां पूर्वोपार्जितशुभाशुभानां शक्तयः सामर्थ्यान्यनेकविधा असंख्यप्रकाराः । युक्त्यन्तरं प्रदर्शयन्नाह - अपि चेति । अपि च युक्त्यन्तरे । सुनिपुणं सुदक्षं यथा स्यात्तथा विमृशद्भिर्विचारयद्भिस्तदपहरणे मृतकुमारापहरणे जीवितप्रदानादृतेऽन्यत्किमिव कारणं निमित्तमाशङ्कयत आशङ्काविषयीक्रियते । न च सर्वथा मृतस्य पुनर्जीवनं क्वापि दृष्टमित्यत आह - नचेति । भगवत्या त्वयेदं प्रत्युज्जीवनमसंभाव्यमघटमानमिति न चावगन्तव्यं न ज्ञातव्यम् । अस्य प्राचीनत्वं प्रदर्शयन्नाह - चिरमिति । एष प्रत्युज्जीवनलक्षणः पन्था मार्गश्चिरप्रवृत्तो बहुकालीनः । तदेव दर्शयति - तथा हीति । विश्वावसुनाम्ना गन्धर्वराजेन करणभूतेन मेनकायामुत्पन्नां प्रादुर्भूतां प्रमद्वरेति नाम्नी कन्यकामाशीविषेण सर्पण विलुप्तं ध्वस्तं जीवितं श्वसितं यस्या एवंविधां स्थूलकेशमुनेराश्रमे मटे भार्गवस्य भृगुवंशोत्पन्नस्य च्यवननाम्नो मुनेर्नप्ता प्रपौत्रः प्रमतेस्तनयः पुत्रो मुनिकुमारको रुरुः स्वायुषः स्वजीवितस्यार्धेन योजितवान्संबन्धितवान् ।
- - - - - - - - - - -- - - - - - टिप्प० - 1 पुनः प्राणाऽऽधानार्थमिति व्याख्यानमुचितम् । 2 'न' 'नतु वा इति स्यात् । 3 पौत्र इत्येवावगन्तव्यम् ।
पाठा० - १ स्वयमेव तत्पुनः समागमवचः श्रुतम्. २ तम्. ३ प्रवृत्तयः, प्रकृतयः. ४ तज्जीवित. ५ सर्वथा चिर. ६ भार्गवस्य नप्ता.
(366
कादम्बरी।
कथायाम्