________________
तवान् । अर्जुनं चाश्वमेघतुरगानुगामिनम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नागकन्यका सोच्छासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामास्त्रपावकपरिप्लुष्टम्, उदरादुपरतमेव विनिर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्चासुदेवो दुर्लभानसून्प्रापितवान् । उज्जयिन्यां च संदीपंनिद्विजतनयमन्तकपुरादपहृत्य त्रिभुवनवन्दितचरणः स एवानीतवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि कि क्रियते । किं वा लभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्छसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । न क्षमते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च -
***********
अर्जुनं चेति । अश्वमेधस्य यस्तुरगोऽश्वस्तदनुगामिनं तत्पृष्ठयायिनं बभ्रुवाहननाम्नात्मजेन सुतेन समरशिरसि सङ्ग्रामशिरसि शरेण बाणेनापहृता आकर्षिताः प्राणा यस्यैवंविधमर्जुन पार्थम् । नामेति कोमलामन्त्रणे । उलूपीनाम्नी नागकन्यका सोच्छासं सजीवितमकरोदसृजत् । अभीति । अश्वत्थाम्नो द्रोणाचार्यसुतस्य योऽस्त्रपावकः शस्त्राग्निस्तेन परिप्लुष्टं दग्धम् । उदरेति । उदराद्गर्भाशयादुपरतमेव मृतमेव विनिर्गतं निःसृतम् । ईदृशमभिमन्युतनयमर्जुनपौत्र परीक्षिताभिधानमुत्तरायाः प्रलापेन विलापेनोपजनितोत्पादिता कृपा करुणा यस्यैवंविधों भगवान्वासुदेवो नारायणो दुर्लभान्दुष्प्रापानसून्प्राणान्प्रापितवान्प्रदत्तवान् । उज्जयिन्या चेति । उज्जयिन्यां विशालायां संदीपनिनाम्नो द्विजस्य तनयं सुतमन्तकपुरात्संयमिन्या अपहृत्यापहरणं कृत्वा त्रिभुवनेन वन्दितौ नमस्कृतौ चरणौ यस्यैवंभूतः स एव भगवान्यासुदेव आनीतवानानयनं कृतवान् । अत्रापीति । कथंचित्प्रकारेणैवमेव पुनर्जीवनवज्जीवनं भविष्यति । अनेनोत्कटकोटिः प्रदर्शिता, संभावनारूपत्वात् । अनुत्कटकोटावप्रतिकार्यत्वं स्वस्याह - तथापीति । अपि अनास्थायाम् । तथापि तव शोकमात्रेण किं जीवितं क्रियते, किमथवा लभ्यते प्राप्यते । तत्र हेतुमाह - प्रभवतीति । भगवान्विधिः प्रभवति समर्थो भवति । नियतिर्भाव्यर्थः, अदृष्टविशेषो ब्रालिखितपद्धतिर्वा, बलवती वीर्यवती । उपसंहरति - आत्मेच्छेति । आत्मेच्छया स्वेच्छयोच्छ्रसितुमपि न शक्यम् । उच्छ्रासः स्वायत्तः सोऽपि स्वेच्छया कर्तुं न शक्यते । किमुतान्यदित्यर्थः । एवं सति सर्वं दैवाधीन प्रेममैत्र्यादिकम् । तद्विहीनस्य तन्नास्त्येवेत्याह - अतीति । अस्यैकान्तनिष्ठुरस्यात्यन्तनिर्दयस्य दैवहतकस्य विलसितानि चेष्टितान्यतिपिशुनान्यतिदुःखकारीणि भवन्ति । अव्याजेति । अव्याज निष्कपटं तेन रमणीयं मनोहरं प्रेम दीर्घकालं चिरकालं न क्षमते न सहते । भवतु । तर्हि दैववशादेवानवरतं जन्मान्तरपर्यन्तं क्षेमं कुतो न निर्वहतीत्यत आह - प्रायेणेति । प्रायेण बाहुल्येन निसर्गत एव स्वभावत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च दुःखानि । अत्रायं भावः - कार्येण कारणानुमानम्, कार्यं च दैवादैवयोः सुखदुःखे । तत्र सुखस्यानायतस्वभावो विसृतिस्वभावः क्षणभङ्गुरत्वं च, दुःखस्य त्वायतस्वभावो विस्तरणप्रकृतिः । तद्विपर्ययादभङ्गुरत्वमपि । तत्कारणयोरप्येवमेवेति । यावत्पर्यन्तं दैवं तावत्पर्यन्तमेव येनकेनचिद्वस्तुना प्रीतिरुपभोगो मैत्री तस्माद्विषयलाभस्तदनुबन्धादयः । एतद्विपर्यये प्रीत्यायभावः ।
- - - - टिप्प० -1 अधिगतविद्ययो राम-कृष्णयोरनुरोधेन गुरुः सान्दीपनिः पञ्चजनापहृतं निजपुत्रं गुरुदक्षिणारूपेणेयेष । भगवान्यासुदेवस्तु समुद्राभ्यन्तरे पञ्चजनविनाशोत्तरमप्यलब्धं गुरुतनयं यमपुरादाहृत्य गुरुदक्षिणीचकारेति पुराणकथा । 2 अव्याजम् अत एव रमणीयमित्यर्थ उचितः । 3 अनायतस्वभावानि (अदीर्घाणि, संक्षिप्तानीत्यर्थः) च तानि भङ्गुराणि नश्वराणि ।
-
-
-
-
-
पाटा० - १ अनुसारिणम्. २ उलूपी. ३ परिक्षितम्. ४ निर्गतम्. ५ भगवांश्चराचरगुरुर्वासुदेवो दुर्लभैरसुभिर्योजितवान्. ६ सांदीपनि. ७ पुरात्रिभुवनवन्दितचरणः स एवापहृतवान्. ८ कवंचिदेवमेवेद तवापि भविष्यति. ९ किमुपालभ्यते. १० क्षमन्ते.
महाश्वेतायाः सान्त्वनम्
। पूर्वभागः ।
367