________________
दुःखानि । तथा हि । कथमप्येकस्मिजन्मनि समागमः, जन्मान्तरसहसाणि च विरहः प्राणिनाम् । अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम् । आपतन्ति हि संसारपथमतिगहनमवतीर्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मूदुभिरुपसान्त्वनैः संस्थाप्य तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् ।
अत्रान्तरे च श्रुतमहाचेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे दिवसे, परिणतप्रियङ्गमञ्जरीरजोनिभे पिञ्जरिम्णा रज्यमाने विलम्बिनि बध्नमण्डले, अविरलकुसुम्भकुसुमरसरक्तदुकूलकोमलेन चास्तातपेन मुच्यमानेषु दिङ्मुखेषु, चकोरनयनतारकाकान्तिना च पिङ्गलिम्ना विलिप्यमाने तिरोहितनीलिम्नि व्योम्नि, -
*********** एतदेव विवृणोति - तथा हीति । प्राणिनां संसारवर्तिनां कथमपि महता कष्टेनैकस्मिञ्जन्मनि समागमः संबन्धः । जन्मान्तरसहसाणि च यावद्विरहो वियोगः । प्रकृतमुपसंहरति - अत इति । अतो हेतोरनिन्यं ब्रहारूपमात्मानं क्षेत्रज्ञं निन्दितुं गर्हितुं नार्हसि न योग्या भवसि । यतो धीराः सर्वमेवेदं दैवकृतं मन्यन्ते, न स्वात्मकृतम्, एवं च धीरत्वेऽवलम्बिते नात्मानं निन्दन्तीत्यर्थः । अधीरत्वेऽनिष्ठतामाह - आपतन्तीति । अतिगहनमतिधोरं संसारपथं संसृतिमार्गमवतीर्णानां गृहीतावताराणामेते वृत्तान्ता उदन्ता आपद्रूपा आपतन्त्यापद्यन्ते । लग्ना भवन्तीत्यर्थः । धीरत्वे इष्टमाह - धीरा इति । धीराः सात्त्विकाः पुरुषाः । हीति निश्चितम् । आपदं कष्टं तरन्ति तत्पारं प्राप्नुवन्ति । इत्येवमिति । इति पूर्वोक्तप्रकारेणैवंविधैरपूर्वप्रतिपादितैरन्यैश्चमृदुभिः सुकुमारैरुपसान्त्वनैर्दृष्टान्तोपदर्शनैस्ता संस्थाप्य स्वस्थीकृत्य पनरपि द्वितीयवारमप्यञ्जलिपटोपनीतेन निर्झरजलेनानिच्छन्तीमस्पहयन्तीमपि बलाद्धठाप्रक्षालितमखीं धौतवक्रामकारयद व्यधापयत ।
अत्रान्तरे चेति । अस्मिन्नवसरे । श्रुतेति । श्रुत आकर्णितो यो महाचेताया वृत्तान्त उदन्तस्तेनोपजातः समुत्पन्नः शोको यस्यैतादृश इव समुत्सृष्ट उज्झितो दिवसव्यापारो येनैवंविधो भगवान्रविरपि सहसांशुरप्यधोमुखतामवाङ्मुखतामयासीदगात् । अथेति । त्रियामामुखे सा महाश्वेता मन्दमन्दं शनैःशनैरुत्थाय पश्चिमां भगवती संध्यामुपास्योपासनां कृत्वा कमण्डलुजलेन कृत्वा कुण्डिकानीरेण प्रक्षालितचरणा धौता िवल्कलशयनीये वल्कलशय्यायां सखेदमुष्णं च निःश्वस्य निःश्वास मुक्त्वा निषसाद तस्थाविति दूरेणान्वयः । कस्मिन्सति । दिवसे वासरे क्षीणे सति । पुनः कस्मिन् । दिक्प्रान्ते विलम्बिनि विलम्बायमाने ब्रध्नमण्डले सूर्यबिम्बे सति । कीदृशे परिणतेति । परिणता पक्वा या प्रियङ्गमञ्जरी फलिनीवल्लरी तस्या रजः परागस्तेन निभे सदृशे । पिञ्जरिम्णेति । पीतरक्तस्तु पिञ्जरस्तस्य भावः पिञ्जरिमा तेन रज्यमाने पिञ्जरतां नीयमाने । पुनः केषु सत्सु । अस्तातपेन दिङ्मुखेषु मुच्यमानेषु सत्सु । अस्तातपं विशेषयन्नाह - अविरलेति । अविरलानि निबिडानि कुसुम्भानां कमलोत्तराणां कुसुमानि तेषां रसस्तेन रक्तं यहुकूलं तद्वत्कोमलेन मृदुना । पुनः कस्मिन्सति । व्योम्न्याकाशे सति । अथ व्योम विशेषयन्नाह - विलिप्येति । पिङ्गलिम्ना पिञ्जरिम्णा विलिप्यमाने विलेपनविषयीक्रियमाणे । कीदृशेन पिङ्गलिम्ना । चकोरो विषसूचकस्तस्य नयनयोस्तारका तद्वत्कान्तिर्यस्मिन्स तेन । तिरोहितेति । तिरोहित आच्छादितो नीलिमा यस्मिन्निति व्योमविशेषणम् । पुनः कस्मिन्सति सांध्ये सायंकालसंबन्धिन्यर्चिषि दीधितौ भुवनं विष्टपमरुणयति रक्ततां नयति सति । आर्चिषं विशेषयन्नाह - टिप्प० -1 आत्मानं स्वम् इति सरलोऽर्थः । 2 सांसारिकजनानाम् । 3 सर्वतः प्रकाशकरणरूपः । 4 सूर्यबिम्बे विलम्बिनि सति, इत्येवान्वयः प्रसिद्धः समुचितश्च । 5 सूर्यस्य न रज उपमानम्, अपि तु 'रजोनिभेन' इति पाठः, ततश्च प्रियङ्गुरजःसदृशेन पिञ्जरिम्णा (अर्थात् पीतेन वर्णेन) सूर्यमण्डले रज्यमाने सतीत्यर्थः । 6 अस्तकालिकसूर्यातपेन । पाठा० - १ एकजन्मसमागमो बहूनि जन्मान्तरसहसाणि तु विग्रहः. २ अत्रान्तरे महा. ३ निभेन. ४ विरज्यमानेऽपि. ५ अविरलकुसुम. ६ विमुच्यमानेषु. ७ चकोरतारकाकारकान्तिना.
-
-
-
-
-
-
-
-
-
-
-
368
( कादम्बरी।
कथायाम्